________________
२२६
मुहूर्तचिंतामणिः। [बालवैधव्ययोगपरिहारः दथवा मृतवत्सा मृतापत्या वा भवेत् । तुः पादपूरणे । यदाह कश्यपः'स्वनीचगः शत्रुदृष्टः पापः पंचमगो यदा। मृतपुत्रां करोत्येव कुलटा वा न संशयः ॥' इति । नारदोऽपि–'लग्नात्पंचमगः पापः शत्रुदृष्टः स्वनीचगः । मृतपुत्रा तदा नारी कुलटा वा न संशयः ॥' इति । शत्रुमित्रमध्यग्रहान् 'मित्राणि धुमणेः' (६।२७) इत्यादिना वक्ष्यत्यत्रैव ॥ ५॥ ___ अथ विवाहभंगयोगं पुष्पिताग्रयाहयदि भवति सितातिरिक्तपक्षे तनुगृहतः समराशिगः शशांकः । अशुभखचरवीक्षितोऽरिरंधे भवति विवाहविनाशकारकोऽयम् ६ __ यदीति ॥ सितातिरिक्तपक्षे कृष्णपक्षे यदि शशांकश्चंद्रः समराशिषु वृषकर्कादिषु गतः सन् तनुगृहतः प्रश्नलग्नराशितोऽरिरंध्रे षष्ठेऽष्टमे वा स्थाने स्थितः अशुभखचरैः पापग्रहैरवलोकितो भवति तदायं योगो विवाहस्य विनाशकारको भवति । तदुक्तं नारदेन–'कृष्णपक्षे शशी लग्नाधुग्मराशिगतो यदि । पापदृष्टो न संबंधं करोत्येवारिरंध्रगः ॥' इति । विवाहविनाशकारक इत्यत्र प्रयोगे समासानुपपत्तिः, तत्समाधिश्च ग्रंथांते करिष्यते ॥ ६ ॥
अथैवं प्रश्नलग्नाद्वंध्यामृतापत्यादियोगानभिधायेदानीं जन्मकालीनबालवैधव्ययोगविचारमतिदिशंस्तत्परिहारान् शार्दूलविक्रीडितेनाहजन्मोत्थं च विलोक्य बालविधवायोगं विधाय्य व्रतं
सावित्र्या उत पैप्पलं हि सुतया दद्यादिमां वा रहा। सल्लग्नेऽच्युतमूर्तिपिप्पलघटैः कृत्वा विवाहं स्फुटं .
दद्यात्तां चिरजीविनेऽत्र न भवेदोषः पुनर्भूभवः ॥७॥ जन्मोत्थमिति ॥ यथा प्रश्नलग्नाद्विधवायोगो विचारितस्तथा जन्मोत्थं जन्मकालीनं च बालविधवायोगं विलोक्य जातकशास्त्राजन्मकालीनलनवशतो वैधव्ययोगं विचार्य वक्ष्यमाणं व्रतं कारयेदित्यन्वयः। तत्र बालविधवायोगानाह होरामकरंदे गुणाकरः-'त्यक्ता धवेनोष्णकरेऽस्तसंस्थे बाल्येऽपि भौमे विधवा प्रदिष्टा। पापग्रहालोकनवर्गयाते कन्यैव वृद्धा भवतीनसूनौ ॥ वैधव्यं क्रूरखेटैर्मदनगृहगतैर्मिश्रितैः स्यात्पुनर्भूः पापेऽस्ते वीर्ययुक्तैभवति परिहृता प्रेयसा सौम्यदृष्टे । अन्योन्यांशस्थयोश्च क्षितिसुतसितयोब. धकी योषिदुक्ता चंद्रोर्वीसूनुशुक्रा यदि मदनगृहे प्रेयसोऽनुज्ञया सा ॥ इति । अन्यमपि श्लोकं पठंति-'लग्ने व्यये च पाताले जामित्रे चाष्टमे कुजे। कन्या भर्तुर्विनाशाय भर्ता कन्याविनाशदः॥' इति । अथ जातकीयो वैधव्ययोगपरिहार उच्यतेऽस्माभिः-'घूनाद्वाच्ये पतिसुभगते रंध्रभादर्तृमृत्युर्नीहारांशोरुदयगृहतस्तद्वपुश्चिंतनीयम्' इति गुणाकरेण सप्तमस्थाना
१ पतिश्च सुभगता सौभाग्यं चेति द्वंद्वः । घनात सप्तमस्थानात् पतिसुभगते वाच्ये वक्तव्ये इत्यर्थः ।