________________
वैधव्ययोगे कुंभादिविवाहाः] विवाहप्रकरणम् ६ ।
२२७ मसौभाग्ये विचार्ये इत्युक्तम् । तत्र-'यो यो भावः स्वामिदृष्टो युतो वा सौम्यैर्वा स्यात्तस्य तस्यास्ति वृद्धिः । पापैरेवं तस्य भावस्य हानिर्निर्देष्टव्या पृच्छतां जन्मतो वा ॥' इति भट्टोत्पलोक्तेः । स्वस्वामिसौम्यैरीक्षितं चेत्सप्तमस्थानं भवति तदा तद्भावसुखं वाच्यम् । केचित्तु स्त्रीणां महत्यरिष्टयोगे भर्तुश्च स्वल्पारिष्टयोगे तत्परिहारमाहुः ॥ अथापरिहार्ये वैधव्ययोगे प्रतीकारमाह-विधाय्येति । रह इति वक्ष्यमाणमिहापकृष्टव्यम् । पित्रादिः सुतया कन्यया कृत्वा रह एकांते हि निश्चयेन सावित्र्या व्रतं विधाय्य कारयित्वा उत अथवा पैप्पलं पिप्पलसंबंधि व्रतं एकांते विधाय्य पश्चादिमां कन्यां सुलग्ने चिरजीविने वराय दद्यात् । तदुक्तं व्रतखंडे-'सावित्र्यादिव्रतादीनि भक्त्या कुर्वति याः स्त्रियः । सौभाग्यं च सुहृत्त्वं च भवेत्तासां सुसंततिः ॥' इति । सावित्रीव्रतकरणप्रकारस्तत्रैव प्रसिद्धः । संहितासारे'अवैधव्यकरैर्योगैर्विवाहपटलोदितैः । वरायायुष्मते देया कन्या वैधव्ययोगजा ॥' इति। पिप्पलव्रतमुक्तं ज्ञानभास्करे-'बलवद्विधवायोगे बाल्ये सति मृगीदृशाम् । पिता रहसि कुर्वीत तद्भगं शास्त्रसंमतम् ॥ सुदिने शुभनक्षत्रे चंद्रताराबलान्विते । अवैधव्यकरे योगे लग्ने ग्रहबलान्विते ॥ बेतारंभं प्रकुर्वीत बालवैधव्यनाशनम् । सुनातां चित्रवस्त्राढ्यां कन्यां पितृगृहाबहिः ॥ नीत्वाश्वत्थशमीस्थाने यद्वा बदरिकाश्रये । आलवालं प्रकुर्वीत विपुलं मृदुकर्षितम् ॥ कुमार्याचार्यनिर्दिष्टं कृत्वा संकल्पमादरात् ॥ करकांबुप्रपूर्णेन सेचनं प्रतिवासरम् । चैत्रे वाश्विनमासे च तृतीयाऽसितपक्षतः । यावत्कृष्णतृतीयान्या मासमेकं यथाविधि ॥ ब्राह्मणानां तथा स्त्रीणां पूजन च समाचरेत् । तदाशिषाप्नुयात्कन्या सौभाग्यं च सुखान्वितम् । प्रतिमां पार्वतीशानी वैणवे भाजनेऽर्चयेत् । चंदनाक्षतदूर्वाद्यैर्बिल्वपत्रैर्यथाविधि ॥ उपचारैर्यथाशक्त्या नैवेद्यैः प्रतिवासरम् । एवं व्रतप्रभावेण बालवैधव्यनिकृतिः । जायते कन्यकानां च ततः पाणिग्रह क्रिया ॥' इत्यश्वत्थव्रतम् । अथान्यदपि अपरिहार्यबालवैधव्ययोगापहारकं प्रकारत्रयमाह-वा रह इत्यादि । वा अथवा रह एकांते अच्युतमूर्तिः विष्णुप्रतिमा, पिप्पलघटौ प्रसिद्धौ; एषां मध्ये अन्यतरेण मनोऽभीष्टेन साकं सल्लग्ने वक्ष्यमाणदूषणरहिते सौभाग्यगुणान्विते च विवाहलग्ने विवाहं कारयित्वा पश्चात्तां कन्यां स्फुटं लोकप्रसिद्धं यथा भवति तथा चिरजीविने आयुष्मते वराय दद्यात् पित्रादिरधिकारी । तदुक्तं मार्कडेयपुराणे-'बालवैधव्ययोगेऽपि कुंभद्रुप्रतिमादिभिः । कृत्वा लग्नं रहः पश्चात्कन्योद्वाोति चापरे ॥' इति । कुंभ इत्युपलक्षणम् । तेन मंथन्यपि ग्राह्या । दुर्वृक्षः ‘पलाशी द्रुद्रुमागमाः' इत्यमरः । स चाश्वत्थ एव नान्यः । प्रतिमा विष्णुप्रतिमा शिरोभुजाधवयवमुता सौवर्णी न शालग्रामशिला । सर्वत्रापि प्रमाणं वक्ष्यतेऽधुनैव ॥ कुंभविवाहः सूर्यारुणसंवादे-'विवाहात्पूर्वकाले च चंद्रताराबले शुभे । विवाहोक्ते च मंथन्या कुंभेन सह वोद्वहेत् ॥ पिता संकल्पवाह्यं च विवाह