________________
मुहूर्तचिंतामणिः। [कुंभोढायाः पुनर्भूत्वदोषपरिहार :
विधिपूर्वकम् । सूत्रेणावेष्टयेत्पश्चाद्दशतंतुविधानतः ॥ कुंकुमालंकृतं देह तयोरेकांतमंदिरे । ततः कुंभं च निःसार्य प्रभज्य सलिलाशये ॥ ततोऽभिषेचनं कुर्यात्पंचपल्लववारिभिः । तत्सर्वं वस्त्रपूजाद्यं ब्राह्मणाय निवेद्य च ॥ कन्यालंकारवस्त्राद्यं ब्राह्मणाय निवेदयेत् ॥' इति कुंभविवाहः । कुंभप्रार्थना च तत्रैव - 'वरुणांगस्वरूपस्त्वं जीवनानां समाश्रय । पतिं जीवय कन्याया - श्चिरं पुत्रान्सुखं वरम् । देहि विष्णुवराद्देव कन्यां पालय दुःखतः ॥ इति । अथाश्वत्थविवाहस्तत्रैव - 'द्विजान् गुरुसुहन्नारीमंगलोच्चारणैः समम् । आहूयोद्वाहकाले च रम्यभूमौ सुमंडपे ॥ गत्वा प्रणम्य गौरीं च गणनाथं च भूरुहम् । भवानीं चैव मंथानीं पिता मंत्रमुदीरयेत् ॥ उद्वाहयिष्ये विधिवदश्वत्थेन मनोहराम् । कन्यां सौभाग्यसौख्यार्थहेतवेऽहं द्विजोत्तमाः । नमस्ते विष्णुरूपाय जगदानंदहेतवे । पितृदेवमनुष्याणामाश्रयाय नमो नमः ॥ चनानां पतये तुभ्यं विष्णुरूपाय भूरुह । नमो निखिलपापौघनाशनाय नमो नमः । पूर्वजन्मभवं पाप बालवैधव्यकारकम् । नाशयाशु सुखं देहि कन्याया मम भूरुह ||' इत्यश्वत्थेन सह विवाहसंकल्पप्रार्थने । विवाहस्तु कुंभविवाहवद्विधेयः । एवं विष्णुप्रतिमया सौवर्ण्या सह विवाहं विधाय प्रतिमादानं विधेयम् ॥ अथ प्रतिमादानविधिस्तत्रैव — 'शुभे मासि सिते पक्षे सानुकूल दिने । ब्राह्मणं साधुमामंत्र्य संपूज्य विविधार्हणैः ॥ तस्मै दद्याद्विधानेन विष्णोर्मूर्तिं चतुर्भुजाम् । शुद्धवर्णसुवर्णेन वित्तशक्त्याथवा पुनः ॥ निर्मितां रुचिरां शंखगदाचक्रानशोभिताम् । दधानां वाससी पीते कुमुदोत्पलमालिनीम् ॥ सदक्षिणां च तां दद्यान्मंत्रमेतमुदीरयेत् ॥ यन्मया पूर्वजनुषि त्या पतिसमागमम् । विषोपविषशस्त्राद्यैर्हतो वातिविरक्तया । प्राप्यमाणं महाघोरं यशःसौख्यधनापहम् । वैधव्याद्यतिदुःखौघनाशाय सुख• लब्धये । बहुसौभाग्यलब्ध्यै च महाविष्णोरिमां तनुम् ॥ सौवर्णी निर्मितां शक्त्या तुभ्यं संप्रददे द्विज । अनघाद्याहमस्मीति त्रिवारं प्रवदेदिति ॥ एवमस्त्विति विप्राशीर्गृहीत्वा स्वगृहं विशेत् । ततो वैवाहिकविधिं पिता कुर्यान्मृगीदृशः ॥ ' इति प्रतिमादानविधिः । एवं घटेनाश्वत्थेन वा विष्णुरूपेण वा एकांते विवाहं विधाय पश्चाद्वादित्रघोषपुरःसरं पित्रादिः कन्यादानाधिकारी कन्यामायुष्मते वराय दद्यात् । कन्यादातॄनाह याज्ञवल्क्यः'पिता पितामहो भ्राता सकुल्यो जननी तथा । कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥' ननु ' पुनर्भूर्दिधिषूरूढा द्विः' इत्यमरोक्तेर्द्विः परिणीतायाः कन्यायाः पुनर्भूत्वेन महादोषः संभवतीत्यपेक्षायामाह - अत्र न भवेदिति । अत्रैवं विधेयं-कुंभादिविवाहानंतरं कन्यायाः पुनरायुष्मद्वरेण सह विवाहविषये पुनर्भूभवः पुनर्भूसंभूतो दोषो नास्ति । कुतो दोषो नास्तीत्युच्यते । विधानखंडे तथाभिधानात् - 'स्वर्णबुपिप्पलानां च प्रतिमा विष्णुरूपिणी । तया सह विवाहे च पुनर्भूत्वं न जायते ॥' चकाराद्वस्यापि - 'लक्ष्मीरूपा सदा कन्या हरिरूपं सदा जलम् । हरेर्दत्तं च यद्दानं दातुः पापहरं सदा ॥
1
२२८