________________
अपत्यप्रो शुभाशुभत्वं] विवाहप्रकरणम् ६ ।
२२९ लक्ष्मीनारायणप्रीत्यै या दत्ता कन्यका बुधैः । तारयेत्सकलं दातुः कुलं पूर्वापरं सदा ॥ चंद्रगंधर्ववह्नयंबुशिवसोमसरा इमे । पतयः कन्यकानां च बाल्यात्संति सदैव ते ॥ तदुद्वाहविधिर्यत्नात्कृतो नो जनयेदघम् ॥ यथालिभुकं कमलं देवानां पूजनाय वै । अहं भवति सर्वत्र तथा कन्या नृणां भवेत् ॥' इति । धर्मशास्त्रेऽपि-'यत्किंचित्कथितं शास्त्रे शांतिकं पतिरक्षणे। तत्पापमपि नो पापं येन धर्मोऽभिरक्ष्यते ॥' इति । श्रुतावपि सोमादिभिः सहोडाहोऽभिहितः-'सोमः प्रथमो विविदे गंधर्वो विविद उत्तरः । तृतीयो अमिष्टे पतिस्तुरीयस्ते मनुष्यजः ॥ सोमोऽददगंधर्वाय गंधर्वोऽदददग्नये । रयिं च पुत्रांश्चादादग्निर्मामथो इमाम् ॥' इति । अतो देवभोग्यानां कन्यानां पुरुषविवाहे न दोषः पुनर्भूभवस्तथानापि । अत एव हि लोकेऽपि शिष्टाचारो दृश्यते-'मंथन्या भास्करो यत्नात्कृतवान्दुहितुर्विधिम् । रेणुकोऽपि स्वकन्यायास्तरूद्वाहं चकार सः ॥' इति विधानखंडे विधानात् । अत एव'पित्रा मात्रा तथा भ्रात्रा दत्ता या तोयधारया । विप्राग्निसुहृदां साक्ष्यं कृत्वा सोद्वाहिता भवेत् ॥' इति कात्यायनादिभिर्विवाहस्य परिभाषितत्वादेकदा कन्यापुरुषविवाहं निवर्त्य पुनर्द्वितीयपुरुषविवाहे जाते सा पुनर्मूरेवेत्यलमियता ॥ ७ ॥ ' अथास्थाः कन्यायाः कीदृशमपत्यं प्रथमं भवितेति प्रश्ने स्रग्विणीछंदसोत्तरमाह
प्रश्नलग्नक्षणे यादृशापत्ययुक्
खेच्छया कामिनी तत्र चेदाव्रजेत् । कन्यका वा सुतो वा तदा पंडितै
स्तादृशापत्यमस्या विनिर्दिश्यते ॥ ८॥ प्रश्नेति ॥ तत्र ज्योतिर्वित्समीपे । यादृशापत्यत्वमेव विवृणुते-कन्यकेत्यादि । शेषं पद्यं स्पष्टार्थम् । यदाह शौनकः-'मालिंग्य शिशुं कन्या पृच्छकमाश्रित्य तिष्ठति प्राक् चेत् । स्त्रीहस्ता स्त्रीजननी पुंहस्ता पुत्रजननी च ॥' इति । कन्या यस्यकस्यापीति शेषः ॥८॥ अथ सामान्यतो निमित्तवशेन शुभाशुभप्रश्नं स्रग्विण्याह
शंखभेरीविपंचीरवैर्मगलं
जायते वैपरीत्यं तदा लक्षयेत् । वायसो वा खरः श्वा शृगालोऽपि वा
प्रश्नलग्नक्षणे रौति नादं यदि ॥९॥ २० मु.चि.