________________
२३०
मुहूर्तचिंतामणि: । [प्रश्नसमये शुभाशुभयोगाः
शंखेति ॥ शंखः प्रसिद्धः, भेरी वाद्यविशेषस्ताम्रादिनिर्मितः, विपंची वीणा; एतेषां रवैः प्रश्नलग्नक्षणे श्रुतैर्मंगलं जायते । उपलक्षणत्वान्मनोह्लादितुरगगजच्छत्रादिसान्निध्येऽपि शुभं द्रष्टव्यम् । यदाह शौनकः - 'वादित्रतूर्यघोषो Saturdप्रगीतशब्दाश्च । शंखध्वनिः प्रशस्तः पृच्छाकाले कुमारीणाम् ॥ वृषभो रथो गजो वा शंखः पद्मं ध्वजोऽथवा छत्रम् । सर्पति पृच्छकदेशे सोत्तमतां व्रजति सर्वलोकस्य ॥' इति । सा = विवाह्या कन्या । अथाशुभयोग उच्यते - वैपरीत्यमिति । वायसः काकः, खरो गर्दभः, श्वा कुक्कुरः, शृगालः प्रसिद्धः । यदि प्रश्नलग्नक्षणे वायसादिर्नादं शब्दं रौति तदा वैपरीत्यं अशुभं लक्षयेत् । उपलक्षणत्वादुलूकोष्ट्रमहिषनादोऽप्यशुभः । उक्तं च शौनकेन'श्वशृगालोलूकरवो महिषोष्ट्रगजाविकप्रणादो वा । तत्रोद्वेगः कलहः प्रवासमरणं विनिर्देश्यम् ॥' इति । बृहस्पतिरपि शृगालादिसान्निध्यं निषिद्धमाह'शृगालमहिषोष्ट्राश्च शिवामेषाज कुक्कुटाः । खरकौशिकमार्जारा न प्रशस्ताः समीपगाः॥' इति । अत्र प्रसंगादस्माभिः शौनकोक्ताऽशुभयोगा लिख्यंते- 'कृकलासवानरोरगगर्दभसंश्लेषणं मिथोऽपि भवेत् । दैवज्ञपृच्छकानां कन्या एकत्र संरमते ॥' कन्या एकत्रेत्यत्र संहिताया अविवक्षणाद्वृद्ध्यभावः । 'भिद्यति यद्युदकुंभः शय्यासनपादुकादिभंगो वा । प्रश्नसमयेऽपि यस्यास्तस्या वैधव्यमादे - श्यम् ॥ उदयात्सप्तमसंस्थे रविभृगुतनये शशांके वा । वैधव्यं क्षितितनये - सप्तमगे कन्यका म्रियते ॥ सप्तमगोऽर्कः कन्यां मृतप्रजां पुंश्चलीं करोत्युदयत् । कथितं तु यथोद्वाहे योज्यं तत्प्रश्नसमयेऽपि ॥' इति । अथ शुभा अपि'पृच्छकवर्णत्रितयं समीपमाश्रित्य तिष्ठति च्छागः । तस्यादेश्यं विदुषा यदा तदा यागभागित्वम् । यदि पृच्छालग्नस्थौ गुरुसौम्यौ दीर्घजीविनं कुरुतः । पंचमसंस्थौ पुत्राञ्जामित्रगतौ धनं विपुलम् ॥ सर्पति यदि कुमाराः समीपगाः पृच्छकस्य विगतभयाः । सा कन्या पुत्रवती कथनीया मंगलवती च ॥ प्रमदात्मकद्रेष्काणे वनितांशो यदि विलग्नमायातः । दृष्टः शुक्रेंदुभ्यां कन्यालाभं समादिशति ॥ प्रमदा भवननिविष्टाः प्रेक्ष्यंते यदि विलग्नमायातम् । योषिद्ध हैः सुबलिभिः कन्यालाभं तदा ब्रूयात् ॥ एवं कुमारिकाणां पृच्छालग्ने वरोपलब्धिः स्यात् । द्वेष्काणे भवने वा नवांशके नृग्रहैर्बलिभिः ॥' एवं शुभाशुभं ग्रहसूचितं निमित्तसंभूतं च ज्ञात्वा वक्तुज्यौतिर्विदो माहात्म्यमाह स एव - ' एवं कुमारिकाणामखिलं गुणदोषतश्च कथनीयम् । दौः शील्यं निर्धनता वैधव्यं वान्यथात्वं वा ॥ दृष्ट्वा निमित्तवर्गं नीचोच्चविधिं च जामित्रम् । कथयति फलमुद्वाहे तस्य न मिथ्या भवेद्वाणी ॥' इति । एवमन्यानि शुभाशुभनिमित्तानि क्षुतादिकानि च ग्रंथांतरेभ्यो ज्ञेयानि । केचन विवाहे उपश्रुतिमपि विचारय॑ति । तदुक्तं विवाहवृंदावने - 'आरोप्याक्षतपूरिते गणपतिं प्रस्थादिपात्रे शनैः संमार्जन्यधिवेष्टिते युवतयस्तिस्रः सकन्या निशि । निर्याता रजकादिवेश्मसु करे कृत्वा तमभ्यर्चितं यां वाचं शृणुयुस्तदर्थसदृशी लोके किलोपश्रुतिः ॥' इति । तत्रोपश्रुतिमंत्र:- 'उपश्रुति महादेवि