________________
कन्यावरणमुहूर्तः] विवाहप्रकरणम् ६ । चंडालगृहवासिनि । यथार्थ ब्रूहि देवि त्वं शकराज्यप्रवर्धिनि ॥' इत्यलमतिप्रसंगेन ॥९॥ अथ कन्यावरणमुहूर्त मत्तमयूरछंदसाह
विश्वस्तातीवैष्णवपूर्वात्रयमैत्रै
र्वस्खाग्नेयैर्वा करपीडोचितः । वस्त्रालंकारादिसमेतैः फलपुष्पैः
___ संतोष्यादौ स्यादनु कन्यावरणं हि ॥१०॥ विश्वेति ॥ उत्तराषाढास्वातीश्रवणपूर्वावयानुराधाधनिष्ठाकृत्तिकानक्षत्रैः अथवा विवाहनक्षत्रैरुपलक्षिते काले वस्त्रालंकारादिभिरादिशब्देन खाद्यमधुरवस्तुभिः समेतैः फलपुष्पैरादौ कन्यां संतोष्य अनु पश्चात्कन्यावरणं हि निश्चयेन स्यात् । उचितऋक्षरित्यत्र 'ऋत्यकः' इति प्रकृतिभावः । यदाह वराहः-'पूर्वात्रयश्रवणमित्रभवैश्वदेवहौताशवासवसमीरणदैवतेषु । द्राक्षाफलेक्षुकुसुमाक्षतपूर्णपाणिरश्रांतशांतहृदयो वरयेत्कुमारीम् ॥' इति । फलानि पूगीफलादीनि । कश्यपः-पंचांगशुद्धिदिवसे चंद्रताराबलान्विते । विवाहोक्तेषु ऋक्षेषु कुजवर्जितवासरे ॥ मासाद्यदिवसं रिक्तामष्टमी नवमी तिथिम् । त्यक्त्वान्यदिवसे गंधस्रक्तांबूलफलान्वितैः । सहवृद्धद्विजगणैर्वरयेकन्यकां सतीम् ॥' अत्र लग्नशुद्धिर्महेश्वरेणोक्ता-'अशुभैस्त्रिषडायसंस्थितैः शुभखेटैः सुतधर्मकेंद्रगैः । यदि वोपचये गुरौ सिते हरिजस्थे वरयेत्कुमारिकाम् ॥' हरिजं लग्नं । वरणं प्रार्थना । 'वाचा दत्ता त्वया कन्या पुत्रार्थ स्वीकृता मया । वरावलोकनविधौ निश्चितस्त्वं सुखी भव ॥' इत्येवंरूपा वाग्दानाख्येति यावत् । तत्र विवाह्यकन्यालक्षणमाह मनुः-'अव्यंगांगी सौम्यनाम्नी हंसवारणगामिनीम् । तनुलोमकेशदशनां मृदूंगीमुद्वहेस्त्रियम् ॥ नोद्वहेत्कपिलां कन्यां नाधिकांगी न रोगिणीम् । नालोमिकां नातिलोमां न वाचाटां न पिंगलाम् ॥ ऋक्षवृक्षनदीनाम्नी नांत्यपर्वतनामिकाम् । न पक्ष्यहिप्रेष्यनानी न विभीषणनामिकाम् ॥' इति । अंत्यःचांडालः। शातातपः-हस्वस्वरां मेघवर्णा मधुपिंगललोचनाम् । तादृशीं वरयेत्कन्यां गृहस्थः सुखमेधते ॥' विष्णुपुराणेऽपि-'न श्मश्रुव्यंजनवती नचैव पुरुषाकृतिम् । नातिबद्धेक्षणां तद्वत्कृशांगी नोद्वहेस्त्रियम् ॥ यस्याश्च रोमशे जंघे गुल्फो यस्यास्तथोन्नतौ । गंडयोः कूपको यस्या हसंत्याश्चैव जायते (?)॥ नोद्वहेत्तादृशीं कन्यां प्राज्ञः कार्यविचक्षणः ॥' इति । अतिबद्धक्षणां निमीलितप्रायनेत्रामित्यादिसामुद्रिकशुभाशुभलक्षणलक्षितां परीक्ष्य कन्यां वरयेदिति । सामुद्रिकलक्षणानि काशीखंडे वराहसंहितायामप्युक्तानि तत एव ज्ञेयानि ॥ १०॥