________________
२३२
मुहूर्तचिंतामणिः ।
[ कन्याविवाहकालः
अथ दरवरणमुहूर्तमाहधरणिदेवोऽथवा कन्यकासोदरः शुभदिने गीतवाद्यादिभिः संयुतः । वरवृतिं वस्त्रयज्ञोपवीतादिना ध्रुवयुतैर्वह्निपूर्वात्रयैराचरेत् ॥ ११ ॥
धरणिदेव इति ॥ धरणिदेवो ब्राह्मणः पुरोहितादिः । शेषं स्पष्टार्थं पद्यम् । उक्तं च व्यवहारचंडेश्वरेण - 'पूर्वात्रितयमानेयमुत्तरात्रितयं तथा । रोहिणी तत्र वरणे भगणः शस्यते सदा ॥ उपवीतं फलं पुष्पं वासांसि विविधानि च । देयं वराय वरणे कन्याभ्रात्रा द्विजेन वा ॥' इति । कीदृशाय वराय कन्या देयेत्याह वसिष्ठः - 'कुलं च शीलं च सनाथतां च विद्यां च वित्तं च वपुर्वयश्च । वरे गुणान्सप्त परीक्ष्य देया कन्या बुधैः शेषमचिंत-नीयम् ॥' कीदृशाय वराय न देयेत्याह चंडेश्वरः - 'सितकुष्ठिन्यपस्मारे ब्रह्मघ्ने राजयक्ष्मणि । अंधे च परिवित्तौ च बधिरे दूरदेशगे । व्यसनासक्तचित्ते च न देया कन्यका बुधैः ॥' इति । परिवित्तिलक्षणममरसिंहे- 'परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात् । परिवित्तिस्तु तज्जयायान्' इति । व्यसनं = द्यूतादि । वसिष्ठोऽपि - 'अत्यासन्नेनातिदूरेऽप्यत्याढ्ये ऽप्यतिदुर्बले । वृत्तिहीने च मूर्खे च षट्सु कन्या न दीयते ॥ दूरस्थानामविद्यानां मोक्षधर्मानुवर्तिनाम् ॥ शूराणां निर्धनानां च न देया कन्यका बुधैः ॥ ' इति । अत एव मनुः - 'काममामरणात्तिष्ठेद्गृहे कन्यर्तुमत्यपि । नत्वेवैनां प्रयच्छेत गुणहीनाय कर्हिचित् ॥' अत्र
गुणाय कन्या न देया, किंतु गुणवते देयेत्यत्र तात्पर्यम् । न पुनरसंस्कृतायास्तस्या रजोदर्शनानंतरमवस्थानं युक्तं, दोषस्मरणात् । यदाह वात्स्यः'माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च । त्रयस्ते नरकं यांति दृष्ट्वा कन्यां रजस्वलाम् ॥ यस्तां विवाहयेत्कन्यां ब्राह्मणो मदमोहितः । असंभाष्यो ह्यपांक्तेयः स भवेद्वृषलीपतिः ॥' इति । वृषली - रजस्वला । याज्ञवल्क्यः‘अप्रयच्छन्नवाप्नोति भ्रूणहत्यामृतावृतौ'। भ्रूणः=बालकः । ऋतुः=रजोदर्शनम् । नारदोऽपि - 'यावंत ऋतवस्तस्याः समतीयुः पतिं विना । तावंत्यो भ्रूणहत्याः स्युस्तस्य यो न ददाति ताम् ॥' इति । अत एवाह वसिष्ठः - 'रजो हि दृष्टं यदि कन्यकायाः कुलद्वयं दुर्गतिमेति तस्याः । तस्मान्नितांतं च तदुक्तकाल नोल्लंघ्य पाणिग्रहणं विधेयम् ॥' इति ॥ ११ ॥
अथ कन्याविवाहकालं ग्रहशुद्धिं च वसंतमालिकाछंदसाह - गुरुशुद्धिवशेन कन्यकानां समवर्षेषु षडब्दकोपरिष्टात् । रविशुद्धिवशाच्छुभो वराणामुभयोश्चंद्र विशुद्धितो विवाहः ॥ १२ ॥ गुर्विति ॥ कन्यकानां विवाहः षडब्दकोपरिष्टात् षड्वर्षातिक्रमानंतरं सम