________________
वधूवरयोर्गुरुसूर्यबलावश्यकता] विवाहप्रकरणम् ६ ।
२३३ वर्षेषु युग्मवर्षेषु सत्सु गुरुशुद्धौ सत्यां शुभः । अर्थात्पुरुषाणां विषमवर्षेषु रविशुद्धौ विवाहः शुभः। तदाह च्यवनः-'षडब्दमध्ये नोद्वाह्या कन्या वर्षद्वयं यतः । सोमो भुंक्तेऽथ गंधर्वस्ततः पश्चाद्धुताशनः ॥' इति । इदमस्य व्याख्यानम्-जन्मानंतरं वर्षद्वयं सोमः कन्यां भुंक्ते, तदनंतरं द्वे वर्षे गंधर्वः, तदनंतरमग्निः, ततो मनुप्याधिकार इति षडब्दतः प्राग्विवाहो न कार्यः । तत्र षड्वर्षानंतरं समवर्षे विवाहः शुभः। यदाह नारदः-'युग्मेऽब्दे जन्मतः स्त्रीणां शुभदं पाणिपीडनम् । एतत्पुंसामयुग्मेऽब्दे व्यत्यये नाशनं तयोः ॥' इति । कश्यपोऽपि-'विवाहो जन्मतः स्त्रीणां युग्मेऽब्दे पुत्रपौत्रदः । अयुग्मे श्रीप्रदः पुंसां विपरीते तु मृत्युदः ॥' इति । एवं च सति स्त्रीणां विवाहोऽष्टमदशमवर्षयोर्भवतीत्यर्थः । अत एवाह व्यासः-'अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी । दशवर्षी भवेत्कन्या द्वादशे वृषली स्मृता ॥' इति । अस्य फलश्रुतिमाह मात्स्यः -'गौरी ददद्ब्रह्मलोकं सावित्रं रोहिणीं ददत् । कन्यां ददत्स्वर्गलोकमतः परमसद्गतिम् ॥' प्राप्नोतीति शेषः । 'गौरी विवाहिता सौख्यसंपन्ना स्यात्पतिव्रता । रोहिणी धनधान्यादिपुत्राढ्या सुभगा भवेत् ॥ कन्या विवाहिता संपत्समृद्धा स्वामिपूजिता ॥' इति । ननु नववर्षाया रोहिण्यांअयुग्मवर्षत्वाद्विवाहनिषेधः संभवति । गर्भतो नवमवर्षग्रहणे अयुग्मवर्षत्वाऽपरिहाणात्स दोषस्तदवस्थ एव । ये तु-'अयुग्मे दुर्भगा नारी युग्मे च विधवा भवेत्' इति चंडेश्वरवाक्यमभ्यस्यंति तन्मते सुतरां विवाहाभावः। उच्यते-'युग्मेऽब्दे संपदः सौख्यविद्याधर्मायुषः सदा । भर्तुर्दुष्टा भवत्योजे निषेकान्नात्र संशयः ॥' इति पराशरवाक्याद्गर्भवर्षग्रहणमध्यवसीयते । नारदादिवाक्यात्तु जन्मत इत्यपि । तत्र षष्ठवर्षानंतरं जन्मतो विषमवर्षीयमासत्रयानंतरं नवमासाःशुभाः समवर्षीयमासत्रयं च । इदमेव च मासत्रयं नारदादिमते गृह्यते इति युक्ता व्यवस्थेत्युत्पश्यामः । एतदेवाभिप्रेत्योक्तं श्रीपतिनिबंधे-'मासत्रयादूर्ध्वमयुग्मवर्षे युग्मे तु मासत्रयमेव यावत् । विवाहशुद्धिं प्रवदंति संतो वात्स्यादयो गर्गवराहमुख्याः ॥' इति । 'अयुग्मे दुर्भगा नारी युग्मे तु विधवा भवेत् । तस्माद्गर्भान्विते युग्मे विवाहे सा पतिव्रता ॥' इति चंडेश्वरोक्तिश्च सार्थिका । एवं नवमवर्षस्यायुग्मत्वप्रयुकनिषेधोऽष्टमवर्षानंतरं मासत्रयमेव । तस्मादनंतरं तु सुखेन विवाह इति व्यासवाक्ये न विरोधः । एवं विहितवर्षे यस्मिन्काले गुरुशुद्धिर्भवेत्तद्वशेन विवाहः कार्यः।गुरुशुद्धिस्तु-'बटुकन्याजन्मराशेस्त्रिकोणायद्विसप्तगः। श्रेष्ठो गुरुः खषत्र्याये पूजयान्यत्र निंदितः॥' इत्युपनयनप्रकरणेऽभिहिता । यदाह गुरुः–'स्त्रीणां गुरुबलेनैव विवाहः शोभनः स्मृतः । वरस्यार्कबलं ग्राह्यमैंदवं तूभयोरपि ॥' इति । 'सुरगुरुबलमबलानां पुरुषाणां तीक्ष्णरश्मिबलमेव । चंद्रबलं दंपत्योरवलोक्य विशोधयेल्लग्नम् ॥' इति वराहोक्तेश्च । एतच्चावश्यकत्वार्थमभिहितम् । यदा द्वयोरपि गुरुबलमिष्टं भवेत्तदा पाणिग्रहः शुभदः। द्वयोरन्यतरस्य गुर्वशुद्धौ विवाहकालांतरासंभवे च तत्पित्रादिना पूजां कारयेत् ।