________________
२३४
मुहूर्तचिंतामणिः। विवाहे मासनिर्णयः 'रविशुद्धौ गृहकरणं रविगुरुशुद्धौ व्रतोद्वाहौ । क्षौरं ताराशुद्धौ शेषं चंद्राश्रित कर्म ॥' इति राजमार्तडोक्तसामान्यवाक्यालोचनात् । वराणां विवाह्यानां पुंसां रविशुद्धिवशेन विवाहः शुभः। उभयोः स्त्रीपुंसयोश्चंद्रविशुद्धितो विवाहः शुभः स्मृतः । अत्र संमतिः प्रागुक्ता । यदा तु कन्या कालातिकांता भवति तदा गुरुबलमनावश्यकमित्याह व्यासः-'दशवर्षव्यतिक्रांता कन्या शुद्धिविवर्जिता । तस्यास्तारेंदुलग्नानां शुद्धौ पाणिग्रहो मतः ॥' इति । प्राप्तकाले हि गुरुशुद्ध्यादिविचार इति तत्त्वम् ।साच गुरुरविचंद्रशुद्धिर्गोचरप्रकरणेऽभिहिता, गोचरबलाभावेऽष्टकवर्गादिबलं ग्राह्यमित्याह नारदः-'गोचरं वेधजं चाष्टवर्गजं रूपजं बलम् । यथोत्तरं बलाधिक्यं स्थूलं गोचरमार्गजम् ॥' इति ॥ १२ ॥
अथैवं गुरुशुद्धिमुक्त्वेदानी विहितमासान्द्रुतविलंबितेनाहमिथुनकुंभमृगालिवृषाजगे मिथुनगेऽपि रवौ त्रिलवे शुचेः। अलिमृगाजगते करपीडनं भवति कार्तिकपौषमधुष्वपि ॥१३॥
मिथुनेति॥ मिथुनकुंभौ प्रसिद्धौ, मृगो मकरः, अलिवृश्चिकः, वृषःप्रसिद्धः, अजो मेषः; एतद्राशिगते रवौ सति तत्रापि मिथुनस्थिते सूर्येऽपि शुचेराषाढस्य त्रिलवे तृतीयांशे आषाढशुद्धप्रतिपदमारभ्य दशमीपर्यंतं करपीडनं विवाहो भवति । अर्थादितरराशिगते सूर्ये सति आषाढशुक्लदशम्यनंतरं हरिशयने च सति विवाहो न स्यात् । यदाह कश्यपः-'उत्तरायणगे सूर्ये मीनं चैत्रं च वर्जयेत् । अजगोद्वंद्वकुंभालिमृगराशिगते रवौ ॥ मुख्यं करग्रहं त्वन्यराशिगे न कदाचन ॥' इति । वसिष्ठः-'दिनाधिपे मेषवृषालिकुंभनृयुग्मनक्राख्यधटक्षसंस्थे । माघद्वये माधवशुक्रयोश्च मुख्योऽथवा कार्तिकसौम्ययोश्च ॥' इति । घटस्तुला, शुक्रो ज्येष्ठः, सौम्यो मार्गशीर्षः, मुख्यो विवाह इति शेषः । 'आोदयादूर्ध्वमिनस्य कार्य नक्षत्रवृंदे दशके कदाचित् । मासोक्तकमतरमंगलाढ्यं कुर्यान्न सुप्तेऽपि तथा मुरारौ ॥' एतेन हरिशयनात्याकालः साधीयानित्यभिहितं भवति । अत्र सामान्यतो मासशब्देन चांद्र एव मासो गृह्यते; 'इंद्रानी यत्र हुयेते' इत्याद्युक्तेः । अत्र तु सौरचांद्रमसद्वयोपादानादुभयोरैक्ये विवाहफलमविकलं भवति । तदुक्तं केशवाण-'प्रायः सौर मानमिष्टं विवाहे तत्किं चांद्रं मानमाहुः फलेन । तस्मात्सम्यक् तत्फलाप्तिस्तदैक्ये सौरो मासः केवलः किंचिदूनः ॥' इति । अस्यार्थ:-कश्यपादिभिः सौरा एव मासा उक्ताः; तेषां च प्राशस्त्यम्-'विवाहादौ स्मृतः सौरो यज्ञादौ सावनो मतः' इति वृद्धगर्गस्मरणात् । नारदादिभिस्तु-'माघफाल्गुनवैशाखज्येष्ठमासाः शुभप्रदाः । मध्यमः कार्तिको मार्गशीर्षों वै निंदिताः परे ॥' इति चांद्रा एवोक्ताः। एतत्प्राशस्त्यं च वसिष्ठेनोक्तम्-'उद्वाहयज्ञोपनयप्रतिष्ठातिथिव्रतं क्षौरमहोसवाथम् । पर्वक्रिया वास्तुगृहप्रवेशः सर्वं हि चांद्रेण विगृह्यते तत् ॥