________________
विवाहे जन्ममासादिनिषेधः] विवाहप्रकरणम् ६ । इति । अतो द्वयोः सौरचांद्रमासयोरैक्ये विवाहादिशुभमेकतरपक्षाश्रयेण मध्यममिति निष्कृष्टोऽर्थः । एवं च मकरसंक्रांती माघः, कुंभे फाल्गुनः, मेषे वैशाखः, वृषे ज्येष्ठः, मिथुने आषाढतृतीयांशः, तुलायां कार्तिकः, देवोत्थानादुत्तरः, वृश्चिके मार्गशीर्षः शुभ इत्यर्थः । केचित्तु चांद्रमासं मुख्यमाहुस्तेनायमर्थः-फाल्गुनोऽपि विहित इति मीनसंक्रमणसद्भावेऽपि शुभः । चैत्रो निषिद्ध इति मेषसंक्रांतिसद्भावेऽप्यशुभः । तदुक्तं विवाहवृंदावने-'झषो न निंद्यो यदि फाल्गुने स्यादजस्तु वैशाखगतो न निंद्यः । मध्वाश्रितौ द्वावपि वर्जनीयावित्यादिवाचामियमेव युक्तिः ॥' इति । 'अजस्तु वैशाखगतो न निंद्यः' इति तु निर्मूलमेव । न हि मेषसंक्रमः क्वचिन्निषिद्धोऽस्ति, तदेतदविचारितरमणीयम् । कुतः? यतो यन्मते सौरमासस्यैव मुख्यत्वं तन्मते मेषः प्रशस्त इति चैत्रेऽपि विवाहप्रसंग इति विपरीतस्यापि वक्तुमशक्यत्वात् । उक्तं च चडारत्ने-'पौषेऽपि मकरस्थेऽक चैत्रे मेषगते रवौ । आषाढे मिथुनादित्ये केऽप्याहुः करपीडनम् ॥' इति । किंच वसिष्ठवाक्ये-'दिनाधिपे मेषवृष-' इत्यादौ सौरचांद्रमासयोरुपादानस्य वैयर्थ्यापातात् । तस्माद्वयोरैक्ये विवाहः प्रशस्तः। तत्र माघफाल्गुनवैशाखज्येष्ठा मुख्याः । यत्र तु निषेधानंतरं प्रतिप्रसवो यथा दक्षिणायने विवाहं निषिध्य कार्तिकमार्गशीर्षों विहितौ तत्र मध्यमत्वम् । अत एव 'अथवा कार्तिकसौम्ययोश्च' इति वसिष्टेन पृथगुक्तं नारदवाक्ये स्पष्टमेव मध्यमत्वम् । अतो विवाहपटले गर्गः-“पुत्रोपेता तु कार्तिके । धनधान्यसुतोपेता सौम्ये भर्तृपरायणा' इत्युक्तवान् । तदपि धनुःसंक्रांतिव्यतिरिक्तविषयं दृष्टव्यम् । हरिशयनात्प्रागाषाढतृतीयांशश्च मध्यमः।हरिस्वापांतर्गताः आषाढश्रावणभाद्रपदाश्विनकार्तिकाः पौषश्चैते निषिद्धाः। धनुषि पौषस्त्वत्यंत निषिद्धः । 'मीने धनुषि सिंहे च स्थिते सप्ततुरंगमे । क्षौरमन्नं न कुर्वीत विवाह गृहकर्म च ॥' इति गर्गोक्तेः । अन्नम् अन्नप्राशनं, विहितकालातिक्रांतं क्षौरं चौलं च स्वतंत्रम् । यत्तपनयनांगं क्षौरं तस्य न निषेधः, 'चैत्रे मीनगते रवौ' इति विहितोपनयनस्य विषयालाभात् ॥अथोत्तराध व्याख्यायते-अलीति। अलिमृगाजाः प्राग्व्याख्याताः, एतद्राशिगते सूर्ये सति कार्तिकपौषमधुष्वपि करपीडनं भवति । यथा-वृश्चिके कार्तिकः, मकरे पौषः, मेषे चैत्रोऽपीत्यर्थः। इदं तु सौरमासग्रहिलानां मतम् । अत एवाधुनोक्तचूडारत्नस्थवाक्ये 'केऽप्याहुः करपीडनम्' इत्युक्तेः । श्रीधरोऽपि-'पौषे च कुर्यान्मकरस्थितेऽके चैत्रे भवन्मेषगतो यदा स्यात् । प्रशस्तमाषाढकृतं विवाहं वदंति गर्गा मिथुनस्थितेऽके ॥' इति। तदेतत्प्रागभिहितन्यायादुपेक्ष्यम् । अथवा केवलमतांगीकारेण मध्यमत्वमंगीकृत्य कालांतरानपेक्षिण्यवश्यदेयकन्याविषयम् । अत्र 'गीर्वाणांबुप्रतिष्ठा' (५।२६ ) इत्यादिना मासनिर्णयः सामान्यतः कृतोऽप्येतादृशविशेषाभिधानार्थं पुनग्रंथकृतोक्तः ॥ १३ ॥
अथ मासप्रसंगाजन्ममासादिप्रयुक्तनिषेधविधीन् रथोद्धतावृत्तेनाहआद्यगर्भसुतकन्ययोर्द्वयोर्जन्ममासभतिथौ करग्रहः ।