________________
२३६
मुहूर्तचिंतामणिः। [विवाहे ज्येष्ठत्रयविचारः नोचितोऽथ विबुधैः प्रशस्यते चेद्वितीयजनुषोः सुतप्रदः॥१४॥
आद्येति ॥ यस्मिन् चांद्रे मासे जन्म स जन्ममासः, जन्मतिथिमारभ्य त्रिंशत्तिथ्यात्मको मासो जन्ममासो वेत्युच्यते। द्वयमप्याद्यप्रकरणे 'जन्मक्षमासतिथयः(१।३४)इति पद्यव्याख्यावसरे विविच्य व्याकृतमस्माभिः। यस्मिन्नक्षत्रे जन्म तजन्मभम् । यस्यां तिथौ जन्म सा जन्मतिथिः । समाहारद्वंद्वः। आगमशासनस्यानित्यत्वान्नुमभावः । उपलक्षणत्वात्तन्मुहूर्तोऽपि।तत्राद्यगर्भयोः सुतकन्ययोः द्वयोः करग्रहो विवाहो नोचितो निषिद्ध इत्यर्थः । यदाह वसिष्ठः'स्वजन्ममासःतिथिक्षणेषु वैनाशिकावृक्षगणेषु चैवम् । नोद्वाहमात्माभ्युदया. भिकांक्षी नैवाद्यगर्भद्वितयं कदाचित् ॥'क्षणः मुहूर्तः। नारदोऽपि-'न जन्ममासे जन्मः न जन्मदिवसेऽपि वा । आद्यगर्भसुतस्याथ दुहितुर्वा करग्रहः ॥' इति । जन्मदिवसे-जन्मतिथौ । आवश्यकत्वेऽपवादो जगन्मोहने-'जातं दिन दूषयते वसिष्ठः पंचैव गर्गस्त्रिंदिनं तथात्रिः। तजन्मपक्षं किल भागुरिश्च व्रते विवाहे गमने क्षुरे च ॥ इति । अथेति। द्वितीयजनुषोरनाद्यगर्भयोश्चेद्विवाहः तर्हि सुतप्रदो विबुधैः पंडितैः प्रशस्यते । एतच्च तृतीयगर्भादावपि द्रष्टव्यम् । सर्वथाद्यगर्भराहित्यं विवक्षितम् । केचित् 'चेदनाद्यजनुषोः' इति पठंति । यदाह च्यवनः-'जन्मः जन्ममासे वा तारायामथ जन्मनि । जन्मलग्ने भवेदूढा पुत्राढ्या पतिवल्लभा ॥' इति । चंडेश्वरः-'जन्ममासे तु पुत्राच्या धनाढ्या जन्मभोदये । जन्मलग्ने भवेदूढा वृद्धा संततिसौख्यभाक् ॥' इति । एतच्चानाद्यगर्भविषयम् । आद्यगर्भे साक्षानिषेधाभिधानात् ॥ १४ ॥ - अथ प्रसंगाज्येष्ठमासप्रयुक्तं विशेष शालिन्याहज्येष्ठद्वंद्वं मध्यमं संप्रदिष्टं त्रिज्येष्ठं चेनैव युक्तं कदापि । केचित्सूर्य वह्निगंप्रोह्य चाहु वान्योन्यं ज्येष्ठयोः स्याद्विवाहः १५ ' ज्येष्ठद्वंद्वमिति ॥ पुत्रो ज्येष्ठः कन्या च ज्येष्ठा मासोऽपि ज्येष्ठः इत्येतत्रिज्येष्ठं, इदं ज्येष्ठत्रयमुच्यते; तत्कदापि नैव युक्तं नैव प्रशस्तम् । ज्येष्ठे मासे ज्येष्ठयोर्वधूवरयो व विवाहः कार्य इत्यर्थः । यदात्वेकतरज्येष्ठत्वे ज्येष्ठे मास्यपि भवति । यदाह गुरुः-'ज्येष्ठे न ज्येष्ठयोः कार्य नृनार्योः पाणिपीडनम् । तयोरन्यतरे ज्येष्ठे ज्येष्ठमासेऽपि कारयेत् ॥' इति । एतच्चान्यतरेण ज्येष्ठत्वं द्विविधं ज्येष्ठमासो ज्येष्ठो वरश्च ज्येष्ठो मासः, कन्या च ज्येष्ठा एतज्जयेष्ठद्वंद्वं मध्यमं संप्रदिष्टम् । अगतिविषयकमित्यर्थः। एको ज्येष्ठोऽन्यद्वयमज्येष्ठमुत्तममेव । यदाह वराहः-'द्वौ ज्येष्ठौ मध्यमौ प्रोक्तावेकज्येष्ठः शुभावहः । ज्येष्ठत्रयं न कुर्वीत विवाहे सर्वसंमतम् ॥' इति । पराशरोऽपि-'अज्येष्ठा कन्यका यत्र ज्येष्ठः पुत्रो वरो यदि । व्यत्ययो वा तयोस्तत्र ज्येष्ठमासः शुभप्रदः ॥' इति । केचित्तु ज्येष्ठमासाभावेऽपि वरकन्ययोज्येष्ठत्वमपि मध्यममाहुस्तदसत् । वधूवरान्यतरज्येष्ठराहित्यविवक्षातः । तद्वाक्यं प्रागुक्तम् ।