________________
खनवांशे चंदनवांशफलं ] विवाहप्रकरणम् ६ ।
२३७ किंतु जन्ममासज्येष्ठमासयोरभावेऽपि द्वयोज्येष्ठयोर्वधूवरयोः सर्वथा निषिद्धो विवाहः । यदाह गर्ग:-'ज्येष्ठायाः कन्यकायाश्च ज्येष्टपुत्रस्य वै मिथः । विवाहो नैव कर्तव्यो यदि स्यान्निधनं तयोः ॥' इति । तदेतदुक्तं ग्रंथकृता'नैवान्योन्यं ज्येष्ठयोः स्याद्विवाहः' इति । ज्येष्ठत्रयनिषेधस्त्वतिदोषाधिक्यसूचनार्थः। त्रिज्येष्ठमिति । कथमस्य साधुत्वं यावता ज्येष्ठो मासः ज्येष्ठो वरःज्येष्ठा च कन्येति त्रीणि पदानि तेषां ज्यैष्ठश्च ज्येष्ठश्च ज्येष्ठा चेति द्वंद्वापवादः 'सरूपाणामेकशेष एकविभक्तौ' इत्येकशेषो न प्राप्नोति, सरूपत्वाभावात् । अथोच्यतेज्यैष्ठो मासः ज्येष्ठश्च वरः ज्येष्ठा च कन्येति विग्रहे यद्यपि 'सरूपाणाम्' इत्ये. कशेषो वैरूप्यान्न प्राप्नोति तथापि 'सरूपाणाम्' इत्यनुवृत्तौ 'पुमान्सिया' इत्येकशेषे यः शिष्यते स निवर्त्यमानार्थमाचष्टे इति ज्येष्ठाविति पदं सिद्धं कृत्वा ज्येष्ठौ च ज्येष्ठो मासश्चेति विग्रहे सेत्स्यति । तन्न । असारूप्यादेवात्राप्येकशेपाभावस्य सिद्धत्वात् । अथ मतं मासवाची ज्येष्ठशब्दोऽस्ति । 'वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्' इत्यमरोक्तेः । आदिवृद्धिरहितेन ज्येष्ठमासशब्देन साकमेकशेषो भविष्यति । तदपि न । अमरोक्तावेव 'ज्यैष्ठे शुक्रः शुचिस्त्वयम्' इत्यादिवृद्धिसहितस्य पाठादनुशासनबलाच्च । तथा हि-ज्येष्ठानक्षत्रेण युक्ता पौर्णमासीत्यत्र 'नक्षत्रेण युक्तः कालः' इत्यणि सति 'तद्धितेष्वचामादेः' इत्यादिवृद्धौ ‘यस्येति च' इत्याकारलोपे ज्यैष्ठ इति सिद्धम् । ततः स्त्रियाम् 'टिड्डाण' इति डीपि पुनः 'यस्येति' लोपे सिद्धं ज्यैष्ठीति । तस्माज्यैष्ठी विद्यतेऽस्मिन्नित्यर्थे 'सास्मिन्पौर्णमासीति संज्ञायाम्' इत्यणि 'यस्येति च' इतीकारलोपे सिद्धं ज्यैष्ठ इति । अत एवामरसिंहोऽपि-'पुष्ययुक्ता पौर्णमासी पौषी मासे तु यत्र सा । नाम्ना स पौषो माघाद्याश्चैवमेकादशापरे ॥' इत्यादिवृद्धिसहितानेव पौषादीनूचे । कचित्तु ज्येष्ठं इति पाठः स प्रामादिकः । तस्मादेकशेषः सर्वथानुपपन्नः । एवमशुद्ध कशेषांगीकारे सत्यपि त्रिशब्देन साकं त्रयाणां ज्येष्ठानां समाहार इति 'तद्धितार्थोत्तरपदसमाहारे च' इति तत्पुरुष समासे 'संख्यापूर्वो द्विगुः' इति द्विगुसंज्ञायाम् 'द्विगोः' इति ङीपि त्रिज्यैष्ठीति भाव्यं, न पुनस्त्रिज्येष्ठमिति दूषणद्वयमस्ति । अत्र क्रमेण समाधिः'ओर्गुणः' इत्यत्र 'ओरोत्' इति वक्तव्ये गुणग्रहणम् 'संज्ञापूर्वको विधिरनित्यः' इति परिभाषाज्ञापनार्थम् । तेन 'तद्धितेष्वचामादेः' इत्यादिवृद्धरनित्यतामंगीकृत्य ज्येष्ठमासप्रयोगोपपत्तिः । अतो ज्येष्ठौ च ज्येष्ठश्चेति सरूपत्वादेकशेषः सिद्धः । ततस्त्रिशब्देन समासे 'पात्राद्यतस्य न' इति स्त्रीत्वनिपेधात्पात्रादेरित्याकृतिगणत्वान्नपुंसकत्वमंगीकार्यमिति सिद्धं त्रिज्येष्ठमिति । अथास्यापवाद उच्यते-केचिदिति । सत्यावश्यकत्वे सूर्यं वह्निगं कृत्तिकास्थं मोह्य त्यक्त्वा ज्येष्ठमासेऽपि ज्येष्ठस्य वरस्य कन्याया वा विवाहः शुभ इति केचिदूचुः । एतच्च तुल्यन्यायत्वाज्येष्ठापत्यस्य न ज्येष्ठे इति सामान्यतो मंगलकृत्यनिषेधेऽपि द्रष्टव्यम् । यदाह भरद्वाजः-'ज्येष्ठे ज्येष्ठस्य कुर्वीत भास्करे चानलस्थिते । नोत्सवादीनि कार्याणि दिग्दिनानि च वर्जयेत् ॥'