________________
૨૨૮
मुहूर्तचिंतामणिः । [सोदरविवाहे पौर्वापर्यनिषेधः विशेषमाह स एव-'दशाहं चैव गर्गस्तु त्रिदशाहं बृहस्पतिः। अर्कभोग्यानिभं यावन्मुनिः प्राह पराशरः॥' इति । तंत्रांतरेऽपि-'कृत्तिकास्थं रविं त्यक्त्वा ज्येष्ठे ज्येष्ठस्य कारयेत् । उत्सवादीनि कार्याणि दिनानि दश वर्जयेत् ॥ व्रतबंध विवाहं च चूडां कर्णस्य वेधनम् । ज्येष्ठमासे न कुर्वीत कल्याणं ज्येष्ठपुत्रगम् ॥' इति । अत्र ज्येष्टपुत्रदुहितोज्येष्ठमासवन्मार्गशीर्षेऽपि मंगलकृत्यनिषेधमाह वात्स्यः-'मार्गशीर्षे तथा ज्येष्ठे विवाहं चौलमेव च । ज्येष्ठपुत्रदुहितोश्च न कुर्वीत व्रतं तथा ॥' भरद्वाजोऽपि-'मार्गशीर्षे तथा ज्येष्ठे क्षौरं परिणयं व्रतम् । आद्यपुत्रदुहितोश्च यत्नतः परिवर्जयेत् ॥' इति । अत एव स्वयं च ग्रंथका-'ज्येष्ठापत्यस्य न ज्येष्टे कैश्चिन्मार्गेऽपि नेष्यते' इत्युक्तं प्राक् । कैश्चिद्रहणं शिष्टाचाराभावं सूचयितुं कृतम् ॥ १५॥ ___ अथ निजकुलोत्पन्नानां तथैकोदराणामपि पुत्रकन्यानां विवाहादिमंगलकृत्ये कालनियमपुरःसरं पूर्वापरीभावनिषेधं विशेषांतरं च हरिणीछंदसाह
सुतपरिणयात्षण्मासांतः सुताकरपीडनं
न च निजकुले तद्वद्वा मंडनादपि मुंडनम् । न च सहजयोर्देये भ्रात्रोः सहोदरकन्यके
न सहजसुतोद्वाहोऽब्दार्धे शुभे न पितृक्रिया ॥१६॥ सुतपरिणयादिति ॥ देहलीदीपन्यायेनात्रापि निजकुल इति संबध्यते । निजकुले स्ववंशे सुतस्य पुत्रस्य परिणयाद्विवाहात्परतः षण्मासांतः सौरमासषट्कमध्ये सुतायाः कन्यायाः विवाहो न स्यात् । उक्तं च वसिष्ठेन-पुत्रोद्वाहाजैव पुत्र्याः कदाचिदाषण्मासात्कार्यमुद्वाहकर्म' इति । नारदोऽपि-'पुत्रोद्वाहात्परं पुत्रीविवाहो न ऋतुत्रये । कुर्यान्न व्रतमुद्वाहान्मंगले नाप्यमंगलम् ॥' इति । अयं च निषेधः कुलपरो द्रष्टव्यः । यदाह वात्स्यः-'स्त्रीविवाहः कुले निर्गमः कथ्यते पुविवाहः प्रवेशो वसिष्ठादिभिः । निर्गमादादितो न प्रवेशो हितस्तत्र संवत्सरांतोऽवधिः कीर्तितः ॥' इति । अब्दभेदे तु नायं कालनियम इति 'चूडा व्रतं च' (६।१८) इत्यत्र ग्रंथकृद्वक्ष्यति । निजकुल इति । स्ववंशे पुत्रस्य कन्याया वा मंडनाद्विवाहान्मुंडन चौलमुपनयनं महानाम्न्यादिव्रतचतुष्टयं समावर्तनं वा तद्वत्षण्मासांतर्न कार्यम् । यदाहात्रिः-'कुले ऋतुत्रयादर्वा
मंडनानतु मुंडनम्' इति । तस्मान्मुंडनान्मंडनं कार्यम् । तथा कन्याविवाहादनंतरं पुत्रस्य विवाहः कार्य इत्यर्थः। यदाह नारदः-'मुंडनान्मंडनं कार्य मंडनान्नैव मुंडनम्' इति । वसिष्ठः-'पुत्रीविवाहात्परतः सदैव शुभप्रद पुत्रविवाहकर्म' इति। न चेति । सहजयोः सोदरयोर्धात्रोः सहोदरकन्यके न देये नोद्वाह्ये । उक्तं च नारदेन–'न चैकजन्मनोः पुंसोरेकजन्ये तु कन्यके । नूनं कदाचिदुद्वाह्ये नैकदा मुंडनद्वयम् ॥' इति । 'एकजन्ये तु कन्ये द्वे पुत्रयोनैकजन्ययोः' इति वसिष्ठोक्तेश्च । अत्र चकारोऽनुक्तसमुच्चयार्थः । तेनै