________________
सोदराणां मंगले कालविचारः] विवाहप्रकरणम् ६ । कस्सै वराय सहोदरकन्याद्वयमपि न देयमित्यर्थः । 'न पुत्रीद्वयमेकस्मै प्रदद्यात्तु कदाचन' इति वसिष्ठोक्तेः। नारदोऽपि-प्रत्युद्वाहो नैव कार्यों नैकस्मै दुहितद्वयम्' इति । प्रत्युद्वाहः विनिमयविवाहः। मत्पुत्राय "चेत्त्वया कन्या दीयते तदा मयापि त्वत्पुत्राय कन्या देया" इत्येवं पणबंधरूपः। कान्यकुजभाषया 'गुरावद' इत्याहुः। एतादृशः पणबंधो भगिन्यादिदानेऽपि द्रष्टव्यः। न सहजसुतोद्वाहोऽब्दार्ध इति। सुतश्च सुतश्च सुतौ, 'सरूपाणाम्' इत्येकशेषः। सुता च सुता च सुते, पूर्ववदेकशेषः । सुता च सुतश्च सुतौ, 'पुमान् स्त्रिया' इत्येकशेषः। सुतौ च सुते च सुतौ च सुता च इति कृतैकशेषाणां द्वंद्वः। अत्रापि 'पुमान् स्त्रिया' इत्येकशेषः। सहजाश्च ते सुताश्चेति कर्मधारयः। तेषां सोदरभ्रातृणां विवाहः अब्दार्धे वर्षार्धे सौरषण्मासमध्ये न कार्यः । यदाह नारदः-'विवाहस्त्वेकजन्यानां षण्मासाभ्यंतरे यदि । असंशयं त्रिभिर्वर्षेस्तत्रैका विधवा भवेत् ॥' विवाह इत्युपलक्षणम् । तेन समानसंस्कार एकमातृजयोः पुत्रयोः कन्ययोर्वा पुत्रकन्ययोर्वा न कार्य इत्यर्थः । तथा च वृद्धमनुः-'एकमातृजयोरेकवत्सरे पुरुषस्त्रियोः । न समानक्रियां कुर्यान्मातृभेदे विधीयते॥' इति । समानक्रिया चूडाकरणादिका एकवर्षमध्ये तु निषिद्धत्यर्थः । एकवत्सर इति कालसावकाशद्योतनाय । षण्मासमध्ये तु सर्वथैव न कार्या । 'विवाहस्त्वेकजन्यानां षण्मासाभ्यंतरे यदि' इति नारदवाक्यस्वरसात् । यमलजातयोस्त्वपत्ययोर्नियतकालानां जातकर्मादिकर्मणामेकक्रियानिधाभावो वर्षभेदेन तदसंभवात्। नन्वत्र पुरुषस्त्रियोरित्युक्ते पुरुषकन्ययोरेव समानक्रियानिषेधोऽवगम्यते, न द्वयोः कन्ययोः पुत्रयोर्वेति । न च पुरुषौ च स्त्रियौ चेति द्वंद्वे कृते द्वयोः पुत्रयोः कन्ययोर्वा निषेधः सेत्स्यतीति वाच्यम् । यतः-'सकृदुच्चरितः शब्दः सकृदर्थप्रत्यायकः' इति न्यायात्पुत्रकन्ययोरनिषेधः स्यात् । आवृत्त्या विवक्षितार्थसिद्धिश्चेन्न । आवृत्तौ प्रमाणाभावात् । किंच पुरुषौ च स्त्रियौ चेति कृतैकशेषयोः पुरुषयोः स्त्रियोश्चेति 'चार्थे द्वंद्वः' इति द्वंद्वे चतुष्ट्वापत्तौ द्विवचनानुपपत्तेः। ननु 'युगपदधिकरणवचनो हंडः' इति वार्तिककारवचनात् धवौ च खदिरौ च धवखदिरावित्यादावन्योन्यसाहित्यप्रतिपत्तये द्विवचनबहुवचनांतेनैव द्वंद्वान्तःपातिना सर्वेण पदेन विगृहीतव्यमिति । अत एव द्वंद्वापवादके एकशेषसूत्रे महाभाष्यकृताप्युक्तम् । सहविवक्षायामेकशेष इत्येकः षष्टः पक्ष उपन्यस्तस्तत्र तेनैवाशंक्य समाहितं 'न तहीदानीमिदं भवति । वृक्षश्च वृक्षश्च वृक्षौ । वृक्षश्च वृक्षश्च वृक्षश्च वृक्षाः इति । नैतत्सहविवक्षायां भवति तथापि निदर्शयितुं बुद्धिरेव निदर्शयितव्या वृक्षौ च वृक्षौ च वृक्षौ, वृक्षाश्च वृक्षाश्च वृक्षाश्च वृक्षाः इति ।' अतः कृतसाहित्यप्रतिपादनयोः पुरुषयोः स्त्रियोश्च द्विवचनांतयोर्द्वद्वेनैव बहुवचनोपपत्तिः। एवं सति पुनकन्ययोः सोदरयोः समानक्रियानिषेधो नतु पुत्रयोर्द्वयोः स्त्रियोश्चेति ।' वस्तुतस्तु तत्रैकवचनांतपदविग्रह एव । साहित्यप्रतिपत्तिस्तु द्वंद्वतात्पर्यादुपपन्नेति नानेकपदलक्षणादि