________________
२४०
मुहूर्तचिंतामणिः । [ सोदर्य समानक्रियाविचारः
1
I
क्लेशः सोढव्यः । इत्येतत्प्रपंचितं तंत्ररत्ने महतायासेन । महाभाष्यकृदुक्तिस्तु व्यादीनामेव परस्परसाहित्येन द्विवचनाद्यर्थसंपत्तौ वचनांत रानवसरप्रतिपादिकेत्यभियुक्ताः । तथा च प्रागुक्तश्चतुष्ट्वापत्तिरूपो दोषः स्यादेवेति । अस्त्विति चेन्न । एकमातृजयोरिति द्विवचनानुपपत्तिः स्यात् । तत्रापि बहुवचनमस्तु । एकमातृजातानां एकवत्सरे पुरुषाणामिति चेन्न । उभयथापि छंदोभंगदोषोपपत्तेः । किंच यद्ययमर्थो विवक्षितः स्यात्तदा छंदोभंगदूषणमपहाय स्पष्टैरेव पदान्तरैर्नारदादिवाक्यवन्निषेधं कुर्यात् । अत्र ब्रूमः - एकमातृजयोः सोदर्ययोययोः कयोश्चित्समानक्रियानिषेध इत्येतावानस्य वचसोऽर्थः । द्विवचनोपादानं तु द्वयोरपि निषेधो यथा स्यात्तत्र कैमुतिकन्यायेन त्रयाणां सोदराणामर्थाक्षिप्त एव निषेधः । पुरुषस्त्रियोरिति तु पदं दृष्टांतार्थम् । नारदादिवाक्ये तु बहुवचनोपादानं बहूनामपि सोदराणां संग्रहार्थं, नतु बहुत्वविवक्षायां बहूनामेव सोदराणां निषेधार्थम् । तेन द्वयोर्बहूनां वा सोदराणां निषेधः सिध्यति । अत एव पराशरोऽपि - 'एकोदरप्रसूतानामेकस्मिन्वत्सरे यदि । पाणिग्रहो भवेन्नूनं तत्रैका विधवा भवेत् ॥' इति । तुल्यन्यायत्वाद्यज्ञोपवीते संस्कार्यत्वाद्वयोरन्यतरस्य नाश इत्यर्थः । 'नैकदा मुंडनद्वयम्' इति वसिष्ठोक्तेः । एकदा एकस्मिन्वर्षे मुंडनं चौलमुपनयनं वा । ननु कन्याविवाहकाल एव उपनयनं निर्णीयते । यदाह हारीतः - 'द्विधा स्त्रियो ब्रह्मवादिन्यः सद्योवध्वश्च । तत्र ब्रह्मवादिनीनामुपनयनं वेदाध्ययनं भिक्षाचर्या च । सद्योवधूनां तु उपस्थिते विवाहे यथाकथंचिदुपनयनमात्रं विधाय विवाहः कार्यः । एवं सति सोदरकन्याविवाहस्य सोदरपुत्रोपनयनस्य च समानसंस्कारत्वात्तयोरेकवर्षे निषेधः स्यात् । उच्यते - 'गर्भाष्टमेषु ब्राह्मणमुपनयेत् गर्भैकादशेषु राजन्यं गर्भद्वादशेषु वैश्यम्' इति । अन्यच्च - 'वसंते ब्राह्मणमुपनयेत् ग्रीष्मे राजन्यं शरदि वैश्यम्' इति आपस्तंबादिसूत्रेषु । 'स्वकुलाचारधर्मज्ञो माघमासे तु फाल्गुने । विधिज्ञश्चार्थवांश्चैत्रे वेदवेदांगपारगः ॥ वैशाखे धनवान् वेदशास्त्रविद्याविशारदः । उपनीतः कुलाच्यः स्याज्येष्ठे विधिविदांवरः ॥' इति नारदादिसंहितास्वपि ब्राह्मणादिवर्णत्रयग्रहणात्पुंल्लिंगस्य विवक्षितत्वाच्च स्त्रीशूद्राणां व्रतबंधनिषेधावगमात् । यानि तु - 'विप्राणामुपनयनं वसंतसमये धराधिनाथानाम् । ग्रीष्म शरदि विशां मासाः साधारणाश्च माघाद्याः ॥' इति वसिष्ठादिवाक्यानि पुंस्त्रीसाधारणानि प्रतीयंते, तानि नारदवाक्यैक्यवाक्यताबलात्पुंविषयकाण्येव । विप्राश्च ब्राह्मण्यः विप्राश्च ब्राह्मणा इति 'पुमान् स्त्रिया' इत्येकशेषेऽपि प्रमाणाभावः । अत एव याज्ञवल्क्यः - 'गर्भाधानमृतौ पुंसः सवनं स्यंदनात्पुरा । षष्ठेऽष्टमे वा सीमंतो मास्येते जातकर्म च ॥ अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः । षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ॥ एवमेनः शमं याति बीजगर्भसमुद्भवम् ।' इत्युक्त्वा मध्ये चोपनयनं विहाय 'तूष्णीक्रियाः स्त्रीणां विवाहस्तु समंत्रकः ॥' इत्याह स्म । ततो 'गर्भाष्टमेऽष्टमे
I