________________
भिन्नमातृकमंगलविचारः] विवाहप्रकरणम् ६ ।
२४१ वाब्दे ब्राह्मणस्योपनायनम् । राज्ञामेकादशे सैके विशामेके यथाकुलम् ॥' इत्युपनयनमुवाच । योषोऽभिप्रायोऽनभिमतः स्यात्तदा 'चूडा कार्या यथाकुलम्' इत्यस्याने 'गर्भाष्टमे' इत्येकं पद्यमुक्त्वा 'एवमेनः शमं याति बीजगर्भसमुद्भवम् । तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समंत्रकः ॥' इत्यव. क्ष्यत् । अतः स्त्रीणामुपनयनं नास्त्येव । यत्तु प्रागुतं हारीतवाक्यं तत् कल्पांतरविषयम् । यदाह यमः-'पुराकल्पे हि नारीणां मौजीबंधनमिष्यते । अध्यापनं च वेदानां सावित्रीग्रहणं तथा ॥ पिता पितृव्यो भ्राता वा नैनामध्यापयेत्परः। स्वगृहे चैव कन्याया भैक्षचर्या विधीयते ॥' इति । ननु यद्यपि मुख्यमुपनयनं स्त्रीणां नास्ति तथापि आतिदेशिकमस्ति । यदाह मनुः-'वैवाहिको विधिः स्त्रीणामौपनायनिकः परः। पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया ॥' इति । तेन समानक्रियानिषेधः सेत्स्यतीति । सत्यम् । अतिदेशोऽयमुपनयनधर्मप्राप्त्यर्थः। यथा ब्राह्मणादीनामुपनयनात्प्राक् कामचारकामवादकामभक्ष्याद्याचाराणामदोषतास्ति, तथा स्त्रीणामपि विवाहात्प्राक् कामचारादिधर्मा न दोषं कुर्वति । तदनंतरं तूपनयनधर्माणां संध्यासानादीनां प्राग्धर्मनिरसनपूर्वकमनुष्टानं यथास्ति तथा स्त्रीणामपि विवाहस्य द्विजत्वसिद्धिकरत्वादनुष्ठिते विवाहे कामचारादिधर्मनिरासपूर्वकम् 'पतिसेवा गुरौ वासः' इत्यादिकमनुष्टानं भवेदिति । नन्वतिदेशेन स्त्रीणामुपनयनधर्मप्रापणमस्तु समानसंस्कारत्वमपि । उच्यते,-नात्र समानशब्दः सदृशार्थकः । तेन तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वं सादृश्यमिति सादृश्यलक्षणाद्यथाकथंचि. त्सर्वत्र सादृश्यसंभवेन विजातीयसंस्काराणामपि चौलानप्राशनादीनां सोदरपुत्रभ्रातृसंबंधिनां निषेधप्रसंगात् शिष्टाचारविरोधाच्च। किंत्वेकशब्दपर्यायः सहशशब्दस्तेनैकजातीयक्रियानिषेधः। उपनयनत्वेन वा विवाहत्वेन वैकजातीयस्वम् । एवं सर्वेष्वपि कर्मसु एकजातीयत्वं द्रष्टव्यम् । तस्मात् सोदरपुत्रकन्यासंबंधिनोर्विवाहोपनयनयोः समानसंस्कारत्वाभाव इत्येव सिद्धांतः फलितः । अतः पाण्मासिको निषेधस्तयोर्नास्ति तेनात्र प्रथमं पुत्रोपनयनं विधाय यथावकाशं कन्याविवाहः सुखेन कार्यः । तस्मादेकमातृजयोः पुत्रयोः कन्ययोः पुत्र. कन्ययोर्वा विवाहादिरूपः समानक्रियानिषेधः षण्मासमध्येऽस्त्येव । केचित्त कन्याविवाहादनंतरं द्वितीयकन्याविवाहः समनंतरमेव दोषाभावात्सुखेन कार्य इत्याहुः । यदुक्तं गर्गेण-'पुत्रीपरिणयादूर्ध्व यावद्दिनचतुष्टयम् । पुत्र्यंतरस्य कुर्वीत नोद्वाहमिति सूरयः ॥' इति । तन्न । भिन्नमातृविषयत्वाद्र्गवाक्यस्य । पूर्वोक्तपराशरवाक्यस्वरसात् । 'समानापि क्रिया कार्या मातृभेदे तथैव च । विवाहे दुहितुः कार्यों न विवाहश्चतुर्दिनम् ॥' इति नारदोक्तेश्च । वसिष्टेन तु विशेषोऽभिहित:-‘एकोदरप्रसूतानां नात्र कार्यत्रयं भवेत् । भिन्नोदरप्रसूतानां नेति शातातपोऽब्रवीत् ॥' इति । चौलोपनयनविवाहरूपं कार्यत्रयम् । तदुक्तं च्यवनेन-'आदौ चौलं ततो मौंजी विवाहश्च शुभप्रदः । मातृभेदे बुधैरुक्तो मातुरैक्ये न कर्हिचित् ॥' इति । एवंस्थिते भिन्नोदरमंगलं सत्यावश्यकत्वे
२१ मु. चि.