________________
२४२
मुहूर्तचिंतामणिः । [प्रतिकूलदोषस्य कालनियतिः एकस्मिन्मंडपे न कार्यमेव । किंतु गृहभेदादाचार्यभेदाता कार्यम् । यदाह वसिष्ठः-'द्विशोभनं त्वेकगृहेऽपि नेष्टं शुभं तु पश्चान्नवभिर्दिनैश्च । आवश्यक शोभनमुत्सुकस्य द्वारेऽथ वाचार्यविभेदतोऽपि ॥' इति । द्वारे द्वारभेदे। यमलजातयोस्त्वयमपि निषेधो नास्ति । 'एकस्मिन्वत्सरे प्राप्ते कुर्याद्यमलजातयोः । क्षौरं चैव विवाहं च मौंजीबंधनमेव च ॥' इति पराशरोक्तेः। क्षौरंचौलम् । भट्टकारिकायां च-'एकस्मिन्वत्सरे चैव वासरे मण्डपे तथा । कर्तव्यं मंगलं स्वस्रोत्रिोर्यमलजातयोः ॥' इति । तत्रापि ज्येष्ठानुक्रमेण । 'जन्मज्यैष्ठ्येन चाह्वानं सुब्राह्मण्यास्वपि स्मृतम् । यमयोश्चैव गर्भेषु जन्मतो ज्येष्ठता मता ॥' इति मनूक्तेराद्योत्पन्नस्य ज्येष्ठत्वम् । देवलोऽपि-'यस्य जातस्य यमयोः पश्यति प्रथम मुखम् । संतानः प्रथमश्चैव तस्मिन्यैष्ठ्यं प्रति. ष्ठितम् ॥' इति । संतानः वंशः। शुभे इति । शुभे विवाहादिमंगलकृत्ये पितृक्रिया श्राद्धक्रिया न कार्या। विशेषेणाभिधानात्कुलेऽयं निषेधः, 'मंगले नाप्यमंगलम्' इति नारदोक्तेः। अमंगलं श्राद्धं तु समाप्ते एव मंगले कार्यमित्यर्थः । अथवा श्राद्धदिने समीपस्थिते तदनंतरं लग्नं निर्धार्य विवाहादिमंगलकृत्यं कार्यमित्यर्थः ॥ १६ ॥
अथ प्रतिकूलदोषमाहवध्वा वरस्यापि कुले त्रिपूरुषे नाशं व्रजेत्कश्चन निश्चयोत्तरम् । मासोत्तरं तत्र विवाह इष्यते शांत्याथवा सूतकनिर्गमे परैः॥१७॥
वध्वा इति ॥ निश्चयोत्तरं वाग्दानानंतरं यदि वध्वाः कन्यायास्तथा वरस्यापि कुले वंशे तत्रापि त्रिपुरुषमध्ये कश्चन सपिंडो नाशं व्रजेत्प्रामुयात्तत्र मासोत्तरं मरणदिनादारभ्य त्रिंशद्दिनं प्रतिकूलम् । ततः शांत्या स्वनुष्टितया विवाहः सुखेनेष्यते। उक्तं च स्मृतिचंद्रिकायाम्-'कृते वाङ्गिश्चये पश्चान्मृत्युर्भवति गोत्रिणः । तदा न मंगलं कार्य नारीवैधव्यदं ध्रुवम् ॥' इति । विशेषमाह मेधातिथिः–'पुरुषत्रयपर्यंत प्रतिकूलं सगोत्रिणाम्। प्रवेशनिर्गमौ तद्वत्तथा मुंडनमंडने॥' इदं तु पित्रादिभिन्नविषयं द्रष्टव्यम् । उक्तं च मांडव्येन'अन्येषां तु सपिंडानामाशौचं माससंमितम् । तदंते शांतिकं कृत्वा ततो लग्नं विधीयते ॥' इति । पित्रादिमरणे तु विशेषमाह शौनकः-'वरवध्वोः पिता माता पितृव्यश्च सहोदरः । एतेषां प्रतिकूलं च महाविघ्नप्रदं भवेत् ॥' इति ॥ 'पिता पितामहश्चैव माता वापि पितामही । पितृव्यः स्त्री सुतो भ्राता भगिनी वाऽविवाहिता ॥ एभिरेव विपन्नैश्च प्रतिकूलं बुधैः स्मृतम् ॥' इति । 'अन्यैरपि विपन्नैश्च केचिदूचुर्न तद्भवेत्' । उक्तेभ्योऽन्यैः । प्रतिकूलस्य नियतं कालमाह मांडव्यः-'वाग्दानानंतरं यत्र कुलयोः कस्यचिन्मृतिः । तदा संवत्सरादूर्व विवाहः शुभदो भवेत् ॥ पितुराशौचमब्दं स्यात्तदध मातुरेव हि । मासत्रयं च भार्यायास्तदर्ध भ्रातृपुत्रयोः ॥' दैवज्ञमनोहरे विशेषः-'प्रतिकूले सपिंडस्य मासमेकं विवर्जयेत् । विवाहस्तु ततः पश्चात्तयोरेव विधीयते ॥ दुर्भिक्षे