________________
वधूवरयोर्दुष्टजन्मक्षपरिहारः] विवाहप्रकरणम् ६ ।
२४३ राष्ट्रभंगे च पित्रोर्वा प्राणसंशये । प्रौढायामपि कन्यायां प्रतिकूलं न दुष्यति ॥' इति । मेधातिथिः-'दीर्घरोगाभिभूतस्य दूरदेशस्थितस्य च । उदासवर्तिनश्चैव प्रतिकूलं न विद्यते ॥ संकटे समनुप्राप्ते याज्ञवल्क्येन योगिना। शांतिरुक्ता गणेशस्य कृत्वा तां शुभमाचरेत् । अकृत्वा शांतिकं यस्तु निषेधे सति दारुणे। यः करोति शुभं तावद्विघ्नं तस्य पदे पदे ॥' इति । अथावश्यकत्वेऽपवादमाह-अथवेति । स्वस्ववर्णपुरस्कारेणाशौचनिर्गमे मरणाशौचनिर्गमे सति शांत्या च स्वनुष्ठितया विवाहः कार्य इति परैराचार्यै रिष्यते । यदाह मेधातिथिः-'प्रेतकार्याण्यनिर्वर्त्य चरेन्नाभ्युदयक्रियाम्' इति ।ज्योति प्रकाशेऽपि 'प्रतिकूलेऽपि कर्तव्यो विवाहो मासमंतरा । शांति विधाय गां दत्त्वा वाग्दानादि चरेद्बुधः ॥' इति । सत्यावश्यकत्वे स्वस्वाशौचादनंतरं मासमध्येऽपि शांति विधाय विवाहः कार्य इत्यर्थः । पूरुष इत्यत्र 'अन्येषामपि दृश्यते' इति दीर्घः । 'पुरुषाः पूरुषा नराः' इत्यमरश्च ॥ १७ ॥
अथ 'प्रवेशनिर्गमौ तद्वत्तथा मुंडनमंडने' इति प्रागुक्तमेधातिथिश्लोकोत्तरार्धपदार्थे सापवादमुपजातिकयाहचूडा व्रतं चापि विवाहतो व्रताचूडा च नेष्टा पुरुषत्रयांतरे । वधूप्रवेशाच सुताविनिर्गमः षण्मासतो वाब्दविभेदतः शुभः १८
चूडेति ॥ चूडा चौलं, व्रतमुपनयनं च; अपिशब्दान्महानाम्यादिसमावतनांतं च विवाहात्परतः पुरुषत्रयांतर एव नेष्टम् । तथा व्रतादुपनयनाचूडा पुरुषत्रयपर्यंत नेष्टा । तथा वध्वाः स्नुषायाः प्रवेशादनंतरं कन्यायाः विनिर्गमोऽपि पुरुषत्रयपर्यंत नेष्टः । एतन्मूलवाक्यं 'पुरुषत्रयपर्यन्तम्' इत्यादि (पृ० २४२) 'आदौ चौलं ततो मौंजी' इत्यादि च (पृ०२४१) प्राग्लिखितम् । तस्मान्मूलपुरुषस्य चतुर्थत्वादौ नायं दोषः, स चायं दोषः पुरुषत्रये षण्मासपर्यंतमेव । अतः षण्मासत इति मासषदकानंतरमयं व्यत्यस्तोऽपि विवाहादिः सवों विधिः शुभः। एतन्मूलवाक्यमपि 'कुले ऋतुत्रयादक्'ि इत्यादि (पृ०२३८) प्रागुक्तम् । अत्रापवाद उच्यते-वेति । वा अथवाऽब्दभेदात् वर्षभेदात् षण्मासमध्येऽपि शुभः । यथा माघे मासि विवाहो वैशाखे चौलं यज्ञोपवीतं वा भवत्येवेत्यर्थः । तदुक्तं संहितासारावल्याम्-'फाल्गुने चैत्रमासे तु पुत्रोद्वाहोपनायने । भेदादब्दस्य कुर्वीत नर्तुत्रयविलंघनम् ॥' इति । अत्र फाल्गुनपदं प्रागब्दगतमासांतरस्याप्युपलक्षणम् । चैत्रपदं चोत्तरवर्षगतवैशाखाद्युपलक्षणम् । तत्र कैमुतिकन्यायेन यत्र स्वल्पं कालांतरं तत्रापि चेत् निषेधाभावस्ततोऽधिकव्यवधाने किं वाच्यमब्दभेदस्यैव प्रयोजकत्वात् ॥१८॥
अथ प्रसंगान्मूलादिदुष्टनक्षत्रोत्पन्नयोर्वधूवरयोः श्वशुरादिपीडकत्वं वसंततिलकयाह
श्वश्रूविनाशमहिजो सुतरां विधत्तः
कन्यासुतौ निर्ऋतिजौ श्वशुरं हतश्च ।