________________
२४४
— मुहूर्तचिंतामणिः । [ विशाखादिजन्मक्षपरिहारः ज्येष्ठाभजातंतनया स्वधवाग्रजं च
शक्राग्निजा भवति देवरनाशक: ॥ १९॥ __ श्वश्रूविनाशमिति ॥ अहिजावाश्लेषोत्पन्नौ कन्यासुतौ श्वश्वाः साक्षा
तमातुर्विनाशं विधत्तः कुरुतः । तथा निर्ऋतिजौ मूलोत्पन्नौ कन्यासुतौ श्वशुरं हतो मारयतः । उक्तं च वसिष्ठेन-'नैर्ऋत्यभोद्भूतसुतः सुता वा क्षिप्रादवश्यं श्वशुरं निहंति । तदंत्यपादे जनितो निहंति नैवोत्क्रमेणाहिभवः कलत्रम् ॥' इति । अहिभव इति पुंस्त्वमविवक्षितम् । सुतःसुता वेति पूर्वोक्तेः। 'मूलजा श्वशुरं हंति व्यालजा च तदंगनाम्' इति नारदोक्तेश्च । तस्य श्वशुरस्यांगनां पत्नीम् । वरस्य कन्याया वा साक्षान्मातरं नतु सापनमातरं हंतीत्यर्थः। तदेव स्पष्टमुक्तं वसिष्ठेन-'जनकं जननी हंति भर्तुर्मूलाहिधिष्ण्यजा' इति । तुल्यन्यायत्वात्कन्याया अपि साक्षान्मातरम् । ज्येष्ठेति । ज्येष्ठानक्षत्रोत्पन्ना कन्या स्वधवाग्रजं भर्तुज्येष्ठभ्रातरं हंति । शक्राग्निजा विशाखानक्षत्रोत्पन्ना कन्या देवरस्य भर्तुः कनिष्ठबंधो शकी भवति । यदाह वसिष्ठः-'सुरेशताराजनिता धवाग्रज द्विदैवताराजनिता तु देवरम्' इति । हंतीत्यनुवर्तते । नारदोऽपि-'ऐंद्री पत्यग्रज हंति देवरं तु द्विदैवजा' इति ॥ १९ ॥ अथ विशाखामूलाश्लेषोत्पन्नप्रोक्तदोषापवादमनुष्टुभाह
द्वीशाद्यपादत्रयजा कन्या देवरसौख्यदा ।
मूलांत्यपादसार्पाद्यपादजौ तौ तयोः शुभौ ॥२०॥ द्वीशेति ॥ द्वीश-विशाखा । अन्यत्पूर्वार्धे स्पष्टमेव । यदाह च्यवनः'विशाखातुलया युक्ता देवरस्य शुभावहा । विशाखावृश्चिकोद्भूता देवरं हत्यसंशयम् ॥' इति । वृद्धनारदोऽपि-'न हंति देवरं कन्या तुलामिश्रद्विदैवजा । चतुर्थपादजा त्याज्या दुष्टा वृश्चिकपुच्छवत् ॥' तस्माद्विशाखाचतुर्थपादे निषेधः फलित इत्यर्थः । मूलेति । तयोः श्वशुरश्वश्वोः । मूलचतुर्थचरणोत्पन्नौ तौ कन्यासुतौ श्वशुरसौख्यदौ आश्लेषायचरणोत्पन्नौ कन्यासुतौ श्वश्वोः सौख्यदौ । तदुक्तं नारदेन-'सुतः सुता वा नियतं श्वशुरं हंति मूलजः । तदंत्यपादजो नैव तथाश्लेषाद्यपादजः॥' अत्र पुंस्त्वमविवक्षितम् । हेतुः स एव । इति वधूवरयोः सामान्यतो गुणदोषविचारः ॥ २०॥
अथैवं वधूवरयोः सामान्यतो गुणदोषविचारं निरूप्य मेलकसंबंधी विचारः प्रस्तूयते । तत्र केचिद्दशकूटान्याहुः । तदाह नारदः-'दिनं गणं च माहेंद्र स्त्रीदीर्घ योनिरेव च ।राशिराश्यधिपौरजर्वश्यं वेधो दश स्मृताः ॥ पुनश्च वर्णकूटं च माहेन्द्रं च ततः परम् । एते द्वादशयोगाश्च प्रीतिभेदाः प्रकीर्तिताः॥' इति । अन्येऽष्टादशकूटान्याहुः । यदाह गर्ग:-'माहेंद्रं गणकूटं च दिनकूटं च योनिजम् । स्त्रीदीर्घ रजुकूटं च वश्यं वर्णाख्यकूटकम् ॥ राशिराश्यधिपाख्ये च वेधो नाड्याख्यकूटकम् । भूतलिंगाख्यकूटं च जात्याख्यं पक्षिकूट