________________
२४५
वर्ण-वश्यकूटयोर्विचारः] विवाहप्रकरणम् ६ । कम् । योगिनीगोत्रकूटं च कूटान्यष्टादशैव तु । दंपत्योवृद्धिकारीणि यत्नाञ्चित्यानि शास्त्रतः ॥' इति । तत्र दशकूटानां तत्तद्देशविशेषप्रसिद्धत्वात्तानि विहाय सर्वदेशप्रसिद्धान्यष्टकूटानि सलक्षणानि विवक्षुरादौ तान्यनुष्टुप्छंदसाह
वर्णो वश्यं तथा तारा योनिश्च ग्रहमैत्रकम् ।
गणमैत्रं भकूटं च नाडी चैते गुणाधिकाः ॥२१॥ वर्ण इति ॥ एते राशिकूटभेदा वर्णादिमैन्यां सत्यां गुणाधिका एकादिगुणाधिकाः स्युः । यथा-वर्णमैत्र्यामेको गुणः, वश्ये द्वौ गुणौ, तारायां त्रयो गुणाः, योनिमैत्र्यां चत्वारः, ग्रहमैत्र्यां पंच, गणमैत्र्यां षद, सद्भकूटे सप्त, नाडीभेदेऽष्टौ इत्यर्थः। तदुक्तम्-'वर्णो वश्यं तारा योनिग्रहगणभकूटनाड्यश्च । ज्ञेया यथोत्तरं ते बलिनः स्त्रीपुंसयोर्घटने ॥' इति । स्त्रीपुंसयोरिति 'अचतुर-' इत्यादिना निपातितः। दैवज्ञमनोहरेऽपि-'नाडीभेदे गुणा भष्टौ सप्त सदाशिकूटके। षट् गुणा गणमैत्र्यां च सौहार्दे पंच खेटयोः ॥ योनिमैत्र्यां च चत्वारस्त्रयस्ताराबले गुणाः। वश्यत्वे द्वौ गुणौ प्रोक्तौ वर्ण एकः प्रकीर्तितः ॥' इति ॥ २१ ॥ अथ प्रतिज्ञाक्रमेण वर्णकूटं तावत्प्रमाणिकयाह
द्विजा झपालिकर्कटास्ततो नृपा विशोऽङ्गिजाः।
वरस्य वर्णतोऽधिका वधून शस्यते बुधैः ॥ २२ ॥ द्विजा इति ॥ मीनवृश्चिककर्कराशयो द्विजाः ब्राह्मणाः । ततोऽनंतरमन्ये मेषसिंहधनूराशयो नृपाः क्षत्रियाः । वृषकन्यामकरा विशो वैश्याः । मिथुनतुलाकुंभा अघ्रिजाः शूद्राः । ततश्च वधूवरराश्योर्वौँ ज्ञात्वा वरस्य वर्णतः ब्राह्मणादिकाद्वधूरधिका ज्येष्ठवर्णा बुधैर्न शस्यते । किंतु समा हीना वा शस्यत इत्यर्थः । यदाह नारदः-'झपालिकर्कटा विप्रास्तदूर्वाः क्षत्रिया. दयः । पुंवर्णराशेः स्त्रीराशौ समे हीने तथा शुभम् ॥ वर्णज्येष्ठा तु या नारी वर्णहीनस्तु यः पुमान् । विवाहं यदि कुर्वीत तस्या भर्ता विनश्यति ॥' अत्रैको गुणो वर्णाधिके वरे वर्णसमे वा। वर्णहीने तु गुणाभावः । तदुक्तं दैवज्ञमनोहरे-'एको गुणः सदृग्वर्णे तथा वर्णोत्तमे वरे। हीनवणे वरे शून्य केऽप्याहुः सदृशे दलम् ॥' इति । दलम् अर्धम् ॥ २२ ॥
अथ वश्यकूटमिंद्रवज्रयाहहित्वा मृगेंद्रं नरराशिवश्याः सर्वे तथैषां जलजास्तु भक्ष्याः । सर्वेऽपि सिंहस्य वशे विनालिं ज्ञेयं नराणां व्यवहारतोऽन्यत् २३
हित्वेति ॥ नरराशयो मिथुनकन्यातुलाः, एषां सर्वेऽपि मेषादयः सिंह त्यक्त्वा वश्याः। ननु मनुष्याणां जलचराः कथं वश्याः ? यत उभयोः