________________
२४६
मुहूर्तचिंतामणिः। [ताराकूटविचारः सहावस्थानाभाव इत्यत आह-तथेति । एषां नरराशीनां जलजाः कर्कमकरकुंभमीनास्तु भक्ष्याः, किं पुनर्वश्या इति सूचयितुं तुशब्दः । सिंहस्य वशेऽलि वृश्चिकं विना सर्वे राशयो वश्याः। अन्यदनुकं चतुष्पदानां जलचराणां चतुष्पादजलचराणां वा परस्परं वश्यावश्यं नराणां मनुष्याणां व्यवहारतो ज्ञेयम् । यदाह वसिष्ठः-'वश्यास्त्यक्त्वा राशयोऽन्ये नृभानां सिंहं तस्याप्येकमन्ये विधेयाः। कीटं त्यक्त्वा लोकतोऽन्यत्प्रसिद्धं वश्यावश्यं नैव तोयालयाश्च ॥' तोयाः तोयालया जलचराः अलिश्च ते परस्परं वश्या नैव स्युरित्यर्थः । अत्र गुणविभागो दैवज्ञमनोहरेऽभिहितः-'सख्यं वैरं च भक्ष्यं च वश्यमाहुस्त्रिधा बुधाः। वैरे भक्ष्ये गुणाभावो द्वयोः सख्ये गुणद्वयम् ॥ वश्यवैरे गुणस्त्वेको वश्यभक्ष्ये गुणोऽधिकः।' इति । यद्यपीदं वधूवरयोः परस्परं तुल्यमेवोक्तं तथापि सत्यावश्यकत्वे वरं प्रति भक्ष्यत्वं वश्यत्वं वा स्त्रियोऽपेक्ष्यं, नतु विपरीतम् । 'वर्णज्येष्ठा तु या नारी' इत्यनेन समानन्यायत्वात् । अन्योन्यवश्यत्वे तूत्तममेव ॥ २३ ॥ अथ ताराकूटमनुष्टुभाह
कन्याद्वरभं यावत्कन्याभं वरभादपि ।
गणयेन्नवहृच्छेषे त्रीष्वद्रिभमसत्स्मृतम् ॥ २४ ॥ कन्यादिति ॥ कन्याजन्मनक्षत्राद्वरनक्षत्रं यावद्गणयेत् , तथा वरनक्षत्रादपि कन्यानक्षत्रं गणयेत् ; ततोऽवशिष्टेऽके नवभिर्भक्ते यदवशिष्टं तच्च त्रिपंचसप्तमितं भवेत्तदाअसत् अशुभदं स्मृतम् । अन्यथा द्विचतुःषडष्टनवमितं चेत्स्यात्तदा शुभमित्यर्थादुक्तं भवति । यदाह नारदः-'स्त्रीभमारभ्य गणने नवपर्यायतः क्रमात् । जन्मत्रिपंचसप्तस्थं पुंभं स्याद्वरनाशनम् ॥ पुंभमारभ्य गणने स्त्रीभ जन्मादिके स्थले । स्त्रीविनाशो भवेत्तस्माद्दिनकूटं विवर्जयेत् ॥' दिनकूटं ताराकूटं । शाहीयेऽपि–'नराद्गणयेद्यावत्कन्यक्षं कन्यभादपि । वरभं नवहृच्छेषास्ताराः संति परस्परम् । त्यक्त्वा त्रिपंचसप्ताख्याः शेषोद्वाहे मिथः शुभाः॥' इति । यत्तु कश्यपेन-'गणयेत्कन्यकाधिष्ण्यादावृत्त्या वर. जन्मभम् । जन्मत्रिपंचसप्तरं हित्वान्यक्षं शुभप्रदम् ॥' इति कन्यानक्षत्रादेव गणनोक्ता । अत एव-'भीरुभादचलपंचतृतीयाः शोकवैरविपदे वरताराः' इति केशवाणाप्युक्ता, साऽत्यावश्यकत्वद्योतनार्था । तथा हि-द्वयोरपि परस्परनक्षत्रगणने शुभं चेच्छुभमेवाशुभं चेदशुभमेव । तत्रैकस्सादन्यतरनक्षत्रगणनयाऽशुभत्वेऽपि स्त्रीनक्षत्राद्वरनक्षत्रं त्वशुभं नापेक्षितमेवेति भावः । अत्रगुणविभागो दैवज्ञमनोहरे-'एकतो लभ्यते तारा शुभा चैवाशुभान्यतः । तदा सा| गुणश्चैव ताराशुद्ध्या मिथस्त्रयः । उभयोर्न शुभा तारा तदा शून्यं समादिशेत् ॥' इति । अत्र यद्यपि नारदादिभिर्जन्मताराऽपि निषिद्धेत्युक्तम् । तईथकृता एकनक्षत्रे तावत् 'राश्यैक्ये चेगिन्नमृक्षं द्वयोः स्यान्नक्षत्रैक्ये