SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ विवाहे योनिकूटादि]. विवाहप्रकरणम् ६ । राशियुग्मं तथैव' इति (६।२६) वक्ष्यमाणत्वानोक्तम् । दशमैकोनविंशतारयोस्तु निषेधो दुष्टभकूटे ज्ञेयः । सद्भकूटे तु दोषाभाव इत्यर्थः ॥ २४ ॥ अथ योनिकूटं शार्दूलविक्रीडिताभ्यामाहअश्विन्यंबुपयोहयो निगदितः खात्यर्कयोः कासरः सिंहो वस्खजपाद्भयोः समुदितो याम्यांत्ययोः कुंजरः । मेषो देवपुरोहितानलभयोः कांबुनोर्वानरः ___ स्याद्वैश्वाभिजितोस्तथैव नकुलश्चांद्राजयोन्योरहिः ॥२५॥ ज्येष्ठामैत्रभयोः कुरंग उदितो मूलार्द्रयोः श्वा तथा मार्जारोऽदितिसार्पयोरथ मघायोन्योस्तथैवोंदुरुः। व्याघ्रो द्वीशभचित्रयोरपि च गौरायम्णबुध्यक्षयो योनिः पादगयोः परस्परमहावैरं भयोन्योर्भवेत् ॥ २६ ॥ अश्विनीति॥ज्येष्ठेति च । अश्विनीशततारकयोहयः अश्वो योनिरुक्तः। स्वातीहस्तयोः कासरो महिषः, 'लुलायो महिषो वाहद्विषत्कासरसैरिभाः' इत्यमरः । वस्वजपाइयोर्धनिष्ठापूर्वाभाद्रपदयोः सिंहः, याम्यांत्ययोर्भरणीरेवत्योः कुंजरो हस्ती, पुष्यकृत्तिकयोः मेषोऽजः, कर्णाबुनोः श्रवणपूर्वाषाढयोर्वानरः स्यात् । उत्तराषाढाभिजितोर्नकुलः। चांद्रं मृगः, अब्जयोनिब्रह्मा, तद्भ रोहिणी तयोरहिः सर्पो योनिः । ज्येष्ठानुराधयोः कुरंगो हरिण उदितः । मूलाद्रयोः श्वा कुक्करः। तथा पुनर्वस्वाश्लेषयोर्मार्जारः। अथ मघापूर्वाफल्गुन्योलंदुरुमूषकः। 'उंदुरुर्मूषकोऽप्याखु रित्यमरः। द्वीशभं विशाखा चित्रा च,तयोाघ्रः। मार्यम्णमुत्तराफल्गुनी, बुध्यक्षमुत्तराभाद्रपदा, तयो¥र्योनिः । तथा तथैव अपि चेत्यादयः शब्दाः पादपूरणार्थाः । फलमाह-पादगयोरिति । एकस्मिन् पादे चरणे उक्तनक्षत्रयोन्योः परस्परं महावैरं भवेत् ,अन्यथा नेत्यर्थः । यथा'अश्विन्यंबुपयोहयो निगदितः स्वात्यर्कयोः कासरः' इति पादस्तत्रोक्तयोर्भयोन्योरश्वमहिषयोर्महावैरं भवेत् । एवं सिंहहस्तिनोरित्यादिष्वपि दृष्टव्यम् । यदाह वसिष्ठः-'अश्वेभमेषभुजगद्वयकुक्कुरौतुमेषौतुमूषकमथोंदुरुगोलुलायाः । शार्दूलमाहिषगवारिमृगद्वयं श्वा कीशोऽथ बभ्रुयुगकीशगवाश्वसिंहाः । गौः कुंजराविति यथाक्रममाश्विनादिभानां भवंति खलु कल्पितयोनिरूपाः ॥' लुलायः महिषः । गवारिर्व्याघ्रः । 'अवङ्फोटायनस्य' इत्यवङादेशः । कीशो वानरः, बभ्रुनकुलः, 'बभूरगं श्वैणमिभेद्रसिंहमोत्वाखुसंज्ञं त्वजवानरौ च । गोव्याघ्रमश्वोत्तरमाहिषं च वैरं नृनार्योपभृत्ययोश्च ॥' इति । बधूरगमित्यादौ च 'येषां च विरोधः शाश्वतिकः' इत्येकवद्भावः । एतत्फलं सापवादमाहात्रिः-'एकयोनिषु संपत्त्यै दंपत्योः संगमः सदा । भिन्न
SR No.002342
Book TitleMuhurt Chintamani
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1945
Total Pages484
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy