________________
२४०
मुहूर्तचिंतामणिः । [ग्रहाणां मित्रामित्रविवेकः योनिषु मध्या स्यादरिभावो न चेत्तयोः । योनेरभावे नोद्वाहः स तु कार्यो वियोगदः । राशिर्वश्यं च यद्यस्ति कारयेन्नतु दोषभाक् ॥' दोषो वियोगरूपः । अत्र गुणविभागो दैवज्ञमनोहरे-'अष्टाविंशतिताराणां योनयस्तु चतुर्दश । तत्र ज्ञेयं महावैरं वैरं चैव स्वभावितं ॥' स्वभावितं वैरमैत्रशून्यम् । 'मैत्रं चैवातिमैत्रं च विवाहे नरयोषितोः ॥ महावैरे च वैरे च स्वभावे च यथाक्रम । मैत्रे चैवातिमैत्रे च खंदुद्वित्रिचतुर्गुणाः ॥' इति ॥ २५ ॥ २६ ॥
अथ क्रमप्राप्तां ग्रहमैत्री शार्दूलविक्रीडिताभ्यामाहमित्राणि घुमणेः कुजेज्यशशिनः शुक्रार्कजौ वैरिणौ . ____ सौम्यश्चास्य समो विधोर्बुधरवी मित्रे न चास्य द्विषन् ।
शेषाश्चास्य समाः कुजस्य सुहृदचंद्रज्यसूर्या बुधः ___ शत्रुः शुक्रशनी समौ च शशभृत्स्नोः सिताहस्करौ ॥२७॥ मित्रे चास्य रिपुः शशी गुरुशनिक्ष्माजाः समा गीष्पते__ मित्राण्यर्ककुजेंदवो बुधसितौ शत्रू समः सूर्यजः । मित्रे सौम्यशनी कवेः शशिरवी शत्रू कुजेज्यौ समौ
मित्रे शुक्रबुधौ शनेः शशिरविक्ष्माजाः परेऽन्यः समः॥२८॥ मित्राणीति ॥ मित्रे इति च ॥ द्युमणेः सूर्यस्य भौमगुरुचंद्रा मित्राणि, शुक्रशनी वैरिणौ, अस्य सूर्यस्य सौम्यो बुधः समः, न शत्रुर्न मित्रम् । एवं सर्वत्र व्याख्येयम् । अथ विधोश्चंद्रस्य बुधरवी मित्रे, च पुनरस्य विधोर्द्विपन् शत्रुर्नास्ति । किंतु मंगलगुरुशुक्रशनयः शेषाः समा एव । अथ भौमस्य चंद्रगुरुसूर्याः सुहृदः, बुधस्तु शत्रुः, शुक्रशनैश्चरौ समौ । अथ शशभृत्सूनोबुंधस्य सिताहस्करौ शुक्रसूयौँ मित्रे । अथ बुधस्य शशी चंद्रः शत्रुः, गुरुशनिभौमाः समाः । अथ गीष्पतेर्गुरोः सूर्यभौमचंद्रा मित्राणि, बुधसितौ शत्रू, सूर्यजः शनिः समः । अथ कवेः शुक्रस्य बुधशनी मित्रे, चंद्रसूयौँ शत्रू, कुजगुरू समौ । अथ शनेः शुक्रबुधौ मित्रे, रविचंद्रभौमाः परे, शत्रव इत्यर्थः । अन्योऽवशिष्टो बृहस्पतिः समः । यदाह कश्यपः-रवेः समो ज्ञो मित्राणि चंद्रारेज्याः परावरी । इंदोर्न शत्रवो मित्रे रविज्ञावितरे समाः । समौ कुजस्य शुक्रार्की बुधोऽरिः सुहृदः परे । ज्ञस्य चंद्रो रिपुर्मिने शुक्राळवितरे समाः ॥ गुरोरारेंद्विना मित्राण्यार्किमध्यः परावरी । भृगोः समाविज्यकुजौ मित्रे ज्ञार्की परौ रिपू ॥ शनेर्गुरुः समो मित्रे शुक्रज्ञौ शत्रवः परे ॥' इति । एतत्फलं सापवादमाह जगन्मोहने वसिष्ठः-'अन्योन्यमित्रं शस्तं स्यात्सममित्रं तु मध्यमम् । उदासीनं कनिष्ठं स्थान्मृतिदं शात्रवं स्मृतम् ॥ शत्रुमित्रं च विज्ञेयं दंपत्योः कलहप्रदम् । अन्योन्यसमशत्रुत्वं दंपत्योर्विरहप्रदम् ॥' विरहः वियोगः । अस्यापवादस्तत्रैव-राशिनाथे विरुद्धेऽपि सब