________________
विवाहे गणकूटम् ]
विवाहप्रकरणम् ६ |
२४९
1
लावंशकाधिपौ। तन्मैत्रेऽपि च कर्तव्यं दंपत्योः शुभमिच्छता ॥' अत्र गुणविभागो दैवज्ञमनोहरे - 'ग्रह मैत्रं सप्तविधं गुणाः पंच प्रकीर्तिताः । तत्रैकाधिपतित्वे च मित्रत्वे गुणपंचकम् ॥ चत्वारः सममित्रत्वे द्वयोः साम्ये यो गुणाः । मित्रवैरे गुणश्चैकः समवैरे गुणार्धकम् ॥ परस्परं खेटवैरे गुणशून्यं विनिर्दिशेत् । असद्धे सममित्रादौ व्येका ग्राह्या यथोदिताः ॥' व्येका यथोदिताश्चत्वार इत्यर्थः । अत्र शुक्रार्कजौ बुधरवी इत्यादिषु 'अजाद्यदंतम् " इति 'द्वंद्वे घि' इत्यर्कजरविशब्दयोः पूर्वनिपातः पूर्वनिपातप्रकरणस्या नित्यत्वान्न भवति । एवमपि 'देवताद्वंद्वे च' इत्यानङ् प्रामोति । सत्यम् । एकहवि - भक्त्वेन प्रसिद्धसाहचर्ययोरेव द्वंद्वे आनङ् विधीयते । अत्र तु तदभावान्नानङ् | परे इति । 'परं दूरान्यमुख्येषु परोऽरिपरमात्मनो:' इति यादवोक्तेः परशब्दो नानार्थः । अत्र परशब्दस्य 'पूर्वपरावर' इत्यादिना व्यवस्थार्थवाचित्वे जसि वैकल्पिकसर्वनामसंज्ञोक्तेः । व्यवस्था नाम स्वाभिधेयापेक्षाऽवधिनियमः । स्वाभिधेयं च दिग्देशकालाः । अत्र तु शत्रुवाचके परशब्दे व्यवस्थार्थाभावाद्वैकल्पिकी सर्वनामसंज्ञा न प्राप्नोति, ततश्च 'जसः शी' इति सर्वनामकार्याभावो ऽतोऽनुपपन्नः परे इति प्रयोगः । यद्येवं 'वितेनुरिंगालमिवायशः परे' इति नैषधः । ' तथा परेषां युधि चेति पार्थिवः' इति कालिदासः । इत्यादिषु हि शत्रुवाचकपरशब्दस्य भवदुक्तिप्रकारेण सर्वनामसंज्ञाया अप्रवृत्तेः कथं सर्वनामकार्यप्रसंग : ? उच्यते - गणरत्नमहोदधिकारादयस्तञ्चित्य एवैष प्रयोग इत्याहुः । अन्ये त्वेवमाहुः - परे इति शिष्टप्रयोगदर्शनात् परशब्दस्य नानार्थत्वादेवंविधे विषये व्यवस्थावाची परशब्दः । कथं स्वस्मात्परः परदेशावस्थित इति देशवाचित्वात् । तच्च परदेशावस्थितत्वं यद्यपि पुत्रमारभ्य शत्रुपर्यंत साधारणं तथापि 'वितेनुरिंगालमिवायशः परे' इत्यादिषु युद्धप्रस्तावात् शत्रुपरः परशब्दः । एवमत्रापि पद्ये मित्रसमानां पार्थक्येनाभिधानात् परशब्दस्य शत्रुषु वृत्तिरिति ग्रंथकृदाशयः । अथवा व्यक्तमेवं पठितव्यम् । 'रविश शिक्ष्माजा द्विषोऽन्यः समः' इत्यलं विस्तरेण ॥ २७ ॥ २८ ॥ अथ गणकूटं वसंततिलकामालिनीभ्यामाह - रक्षोनरामरगणाः क्रमतो मघाहिवविंद्र मूलवरुणानलतक्षराधाः । पूर्वोत्तरात्रयविधातृयमेशभानि मैत्रादितीं दुहरिपौष्ण मरुल्लघूनि ॥ २९ ॥ निजनिजगणमध्ये प्रीतिरत्युत्तमा स्यादमरमनुजयोः सा मध्यमा संप्रदिष्टा ।
१ ' राशिनाथे विरुद्धेऽपि मित्रत्वे चांशनाथयोः ।
विवाहं कारयेद्धीमान् दंपत्योः सौख्यवर्धनम् ॥' इति पाठांतरम् ॥