________________
२५०
मुहूर्तचिंतामणिः। [गणदौष्टयेऽपवादः असुरमनुजयोश्चेन्मृत्युरेव प्रदिष्टो
दनुजविबुधयोः स्याद्वैरमेकांततोत्र ॥ ३०॥ - रक्ष इति ॥ निजेति ॥ क्रमतः रक्षोनरामरगणाः वाक्यत्रयेणोच्यते । मघा प्रसिद्धा, अहिराश्लेषा, वसुर्धनिष्ठा, इंद्रो ज्येष्ठा, मूलं प्रसिद्धं, वरुणः शततारका, अनलः कृत्तिका, तक्षा चित्रा, राधा विशाखा; एतानि भानि रक्षोगणः। पूर्वात्रयं उत्तरात्रयं चेत्येवं षड्भानि, विधाता रोहिणी, यमो भरणी, ईश आर्द्रा; एतानि भानि नरगणो मनुष्यगणः। मैत्रमनुराधा, अदितिः पुनर्वसुः, इंदुर्मुगः, हरिः श्रवणः, पौष्णं रेवती, मरुत्स्वाती, लघूनि अश्विनीहस्तपुष्याः; एतानि भान्यमरगणो देवगण इति । यदाह नारद:-'रक्षोगणः पितृत्वाष्ट्रद्विदैवत्येंद्रतारकाः। वसुवारीशमूलाहिकृत्तिकाभिर्युतास्ततः ॥ तिस्रः पूर्वोत्तराधातृयममाहेशतारकाः । इति मर्त्यगणा ज्ञेयाः स्यादमयंगणाः परे॥ हयादित्यार्कवास्वंत्यमित्राश्वीज्येदुतारकाः।' इति । एतत्फलमाह-निजनिजगणमध्ये इति । स्वस्वगणविद्यमानस्त्रीपुरुषनक्षत्रयोः सतोरत्युत्कटोत्तमा प्रीतिः स्यात् । यथा राक्षसगणयोः स्त्रीपुंसयोस्तथा मनुष्यगणयोस्तथा देवगणयोर्वा परस्परमत्युत्कृष्टा प्रीतिः स्यादित्यर्थः । अमरा देवाः, मनुजा मनुष्याः, देवमनुष्यगणयोः स्त्रीपुंसयोः परस्परं प्रीतिर्मध्यमा नोत्कृष्टा नाधमा संप्रदिष्टा । असुरमनुजयोः राक्षसमनुष्यगणयोः स्त्रीपुंसयोः मृत्युरेव प्रदिष्ट उक्तः । द्वयोर्वान्यतरस्य वेत्याकांक्षायाम् । 'प्रबलेन दुर्बलं बाध्यते' इति न्यायेन मनुष्यगणस्यैव नाशः। दनुजविबुधयो राक्षसदेवगणयोः स्त्रीपुंसयोरेकांततो निश्चयेन परस्परं वैर स्यात् । अत्र-गणकूटे । यदाह नारदः-'दंपत्योर्जन्मभे चैकगणे प्रीतिरनेकधा । मध्यमा देवमानां राक्षसानां तयोर्मुतिः ॥ कश्यपस्त्वेव. माह-'स्वगणे चोत्तमा प्रीतिर्मध्यमामरमर्त्ययोः। मर्त्यराक्षसयो(रममरासुरयोरपि ॥' इति । अयमर्थः-पुरुषो रक्षोगणः स्त्री मनुष्यगणा तदा वैरं । यदि वैपरीत्यं तदा मृत्युः । तथा पुरुषो रक्षोगणः स्त्री देवगणा तदा वैरं वैपरीत्यं मृत्युः । उक्तं च-राक्षसी यदि वा नारी नरो भवति मानुषः। मृत्युस्तत्र न संदेहो विपरीतः शुभावहः ॥' शाीये-'रक्षोगणः पुमान् स्थाचेत्कन्या भवति मानवी । केऽपीच्छंति तदोद्वाहं व्यस्तं कोऽपीह नेच्छति ॥' इति । एतत्तुल्यन्यायत्वाद्देवराक्षसयोरपि द्रष्टव्यम् । अत्र गुणविभागो दैवज्ञमनोहरे-'षड् गुणा गुणसादृश्ये पंच स्युः सुरमानुषे । नार्या देवो नरः पुंसश्चत्वारो वा गुणास्त्रयः। देवराक्षसयोः शून्यं तथैव नररक्षसोः। पुंसो रक्षोगणो यत्र नार्या देवोऽथवा नरः॥ गुणो द्वौ क्रमतश्चैको गुणो ग्राह्योऽन्यथा नहि' इति । अस्यापवादमाह गर्गः-'ग्रहमैत्री च राशिश्च विद्यते नियतं यदि । न गणाभावजनितं दूषणं स्याद्विरोधदम् ॥' अत्रिरपि'राशीशयोः सुहृद्भावे मित्रत्वे वांशनाथयोः । गणादिदौष्टयेऽप्युद्वाहः पुत्रपौत्रप्रवर्धनः ॥' अमुं परिहारं ग्रंथकृदप्यग्रे वक्ष्यति । मनुरपि–'ग्रहमैत्री च