________________
दुष्टभकूटपरिहारः ]
विवाहप्रकरणम् ६ ।
२५१
रज्जुश्व यदि नाडी पृथक् तयोः । विवाहः शुभदः कन्या राक्षसी वा नरो नरः ॥' इति । रज्जुकूटं तु ग्रंथकर्त्रा नोक्तम् ॥ २९ ॥ ३० ॥
अथ राशिकूटमनुष्टुभाह -
मृत्युः पट्काष्टके ज्ञेयोऽपत्यहानिर्नवात्मजे । द्विर्द्वादशे निर्धनत्वं द्वयोरन्यत्र सौख्यकृत् ॥ ३१ ॥
मृत्युः षट्काष्टके इति ॥ स्त्रीपुंसराइयोः परस्परं षष्ठाष्टमराशित्वे सति मृत्युज्ञेयः । यथा मेषकन्ययोः । एवं नवात्मजे नवपंचमेऽपत्यानां बालानां हानिर्नाशः स्यात्, यथा सिंहधनुषोः । एवं द्विर्द्वादशे सति निर्धनत्वं दारिद्र्यं स्यात्, यथा मेषवृषयोः । अन्यत्र तृतीयैकादशे चतुर्थदशमे समसप्तमे वा सति सौख्यकृत्पाणिपीडनं स्यात् । यदाह नारदः – षट्काष्टके मृतिः पंचनवमे त्वनपत्यता । नैःस्वं द्विर्द्वादशेऽन्येषु दंपत्योः प्रीतिरुत्तमा ।' इति । अत्र विशेषो ज्योतिःप्रकाशे - 'पुंसो गृहात्सुतगृहे सुतहा च कन्या धर्मे स्थिता सुतवती पतिवल्लभा च । द्विर्द्वादशे धनगृहे धनहा च कन्या रिःफे स्थिता धनवती पत्विल्लभा च ॥' इति । अन्यच्च – 'मृगः कुलीरेण घटेन सिंहो वैरप्रदः स्यात्समसप्तकोऽयम् । तुलामृगेणाथ वृषेण सिंहो मेषेण कीटो मिथुनेन मीनः ॥ चापेन कन्या घटभेन चालिदौर्भाग्यदैन्ये दशतुर्य केऽस्मिन्' इति ॥ ३१ ॥
1
अथास्य दुष्टभकूटस्य परिहारं शार्दूलविक्रीडितेनाहप्रोक्ते दुष्टभकूटके परिणयस्त्वैकाधिपत्ये शुभो - ऽथो राशीश्वरसौहृदेऽपि गदितो नाड्यृक्षशुद्धिर्यदि । अन्यक्षैऽशपयोर्बलित्वसखिते नाड्यृक्षशुद्धौ तथा
ताराशुद्धिवशेन राशिवशताभावे निरुक्तो बुधैः ॥ ३२ ॥
प्रोक्ते इति ॥ प्रोक्ते दुष्टराशि कूटे सत्यपि चेद्वयोः स्त्रीपुरुषराश्योरैकाधिपत्ये एकस्वामित्वे परिणयो विवाहः शुभो गदितः । यथा षट्काष्टके मेषवृश्चिकयोस्तुलावृषयोर्वा नवमपंचमे त्वेकाधिपत्याभावः, द्विर्द्वादशे मकरकुंभयो:; अथवा राशीश्वरयोः राशिस्वामिनोः सौहृदे मैत्रे परिणयः शुभो गदितः, तथा षट्काष्टके मीनसिंहयोरित्यादौ नवपंचमे मेषधनुषोरित्यादौ द्विर्द्वादशे मीनमेषयोरित्यादौ । यदाह वसिष्ठः - 'द्विर्द्वादशे वा नवपंचमे वा षट्काष्टके राक्षसयोषितो वा । ऐकाधिपत्ये भवनेशमैत्रे शुभाय पाणिग्रहणं विधेयम् ॥' इति । राजमार्तडः – 'भवेत्रिकोणे बहुपुत्रवित्ताद्विर्द्वादशे चार्थमुपैति कन्या षट्ङ्काष्टके सौख्यफलं विधत्ते स्त्रीणां विवाहो ग्रहमैत्रभावे ॥' इति । एकाधिपत्येऽपीति शेषः । अत एव ग्रहमैत्रैकाधिपत्याभावे वैरषङ्काष्टकमित्यादि वदंति । यदाह नारदः - 'वैरपङ्काष्टकं मेषकन्ययोर्धटमीनयोः । चापोक्षयोर्नृयु कीट
1