________________
२५२
मुहूर्तचिंतामणिः । [विवाहे नवपंचमादिविचारः
भयोः कुंभकुलीरयोः ॥ पंचास्यमृगयोर्जन्मराशेः प्रोक्तोऽशुभप्रदः ॥' इति । उक्षाः = वृषः । चापोक्षयोरित्यकारांतनिर्देशश्छांदसः । एतद्भिन्नं मित्रषट्काष्टकमित्याहुः । तदुक्तं जगन्मोहने – 'मित्रषकाष्टकं कीटमेषयोर्वृषजूकयोः । कर्किचापभयोर्मीनसिंहयोर्मृगयुग्मयोः ॥ कन्यकाकुंभयोरन्यत्प्रयत्नाद्धि विवर्जयेत् ॥' इति । एवं च ग्रहमैत्र्यभावे वैरं नवमपंचममित्याहुः । तथा च शार्ङ्गधरीये शुक्रः - 'मीनालिभ्यां युते कीटे कुंभे मिथुनसंयुते । मकरे कन्यकायुक्ते न कुर्यान्नवपंचमे ॥' इति । कीटः = कर्कटः । एतादृशस्य नवपंचमस्य `फलांतरमुक्तं कैश्चित् । तथा ज्योतिर्निबंधे शार्ङ्गधरः – ' वरवध्वोर्मातृपि 'त्रोर्जीवतस्तद्विनाशकृत् । त्रिकोणे मीनकीटाद्यं न स्यादन्यत्र दोषदम् ॥' एतत्फलमनार्षत्वादुपेक्ष्यम् । इतोऽन्यच्च मेष सिंहादिकं नवपंचमं ग्रहमैत्रीसत्त्वा'न्मिन्त्रनवपंचममिति । ननु मीनकर्कादिकमपि त्रिकोणं ग्रहमैत्रीसत्त्वान्मित्रनवमपंचममिव । कथं ? गुरोश्चंद्रो मित्रमेव, चंद्रस्य तु गुरुः समोऽपि मित्रमिव । 'अपदोषतैव विगुणस्य गुणः' इति न्यायात् । तथासति त्रिकोणदोषोच्छेदापत्तिः स्यादिति चेत् । उच्यते, - , - यत्र ह्येकस्य मित्रत्वमपरस्य समत्वं तत्र दुष्टनवपंचममिति व्यवहारः । तादृशं मीनकर्कादिकं त्रिकोणचतुष्टयमेव संभवति । यत्र तूभयतोऽपि ग्रहमैत्री तत्रैव मेषसिंहादिके मित्रनवपंचममिति व्यवहृतिः । अयं च परिहारो वरवध्वोर्मातृपित्रोरित्यस्यापि दोषांतरस्य सत्यसति समूलत्वे नाशको भवति तुल्यन्यायत्वात् । मृतमातापितृकयोस्तु वरवध्वोर्नायं दोषोन्मेषः । एवं द्विर्द्वादशेऽपि । तथा जगन्मोहने वसिष्ठकश्यपौ - 'द्विदशं शुभं प्रोक्तं मीनादौ युग्मराशिषु । मेषादौ युग्मराशौ तु निर्धनत्वं न संशयः ॥ आयुष्य संपत्सुतभोगसंपत्पुत्रार्थसंपत्पतिसौख्यसंपत् । सौभाग्यसंपद्धनधान्यसंपज्झषादियुग्मे क्रमतः फलानि ॥ अजादियुग्मे क्रमतः फलानि वैधव्यमृत्युर्वधबंधनानि । वियोगसंतापमतीव दुःखं वसिष्ठगर्गप्रमुखैः स्मृतानि ॥' इति । अथैवंविधेऽपि प्रीतिषट्काष्टकादिविषये नाडीदोषः सर्वथा त्याज्य एवेत्याह- नाड्यृक्षशुद्धिर्यदीति । 'ज्येष्ठार्यम्णेशनीराधिपभयुगयुगम्' (६।३४) इत्यादिना वक्ष्यमाणानां त्रिविधनाडीनक्षत्राणां शुद्धिः स्त्रीपुरुषनक्षत्र स्थितिRatri कस्यापि नाड्यां यदि न भवति तदा प्रीतिषट्काष्टकादि विधेयम् । यद्येकस्यां नाड्यां स्त्रीपुरुषनक्षत्र स्थितिस्तदा तु नैव विवाहः । उक्तं च रत्नमालायाम् – 'भवनपतिसुहृत्त्वं स्यात्तथैकाधिपत्यं यदि भवनवशित्वं चैव
1
1
काष्टकेsपि । शुभकृदिह विवाहोऽन्योन्यताराविशुद्धौ यदि खलु फणिचक्रे स्यान्न नाडीसमाजः ॥' इति । अपिशब्दान्नवमपंचमद्विर्द्वादशयोरपि । अत्र केचित् - षडष्टकस्यैव मरणरूपानिष्टफलश्रवणान्न तस्यापवादकः षट्काष्टके - ऽपीति परिहारः । किंतु निंदां प्रतिपादयतोऽपिशब्दांतस्य वाक्यस्याधिपतिमैत्र्यादिगुणप्रशंसाद्वारा नवपंचमर्द्वािदशयोरेव दुष्टभकूटयोर्विधानपर्यवसानात्तयोरेवापवादक इति । यथा - ' - 'ब्रह्महापि नरः पूज्यो यदि स्याद्विपुलं धनम्' इति । अत्र वाक्ये धनस्तुतिर्धनवन्नरपूजापरा नतु धनवद्विप्रन्ननरपूजा