________________
नाडीनक्षत्रशुद्धौ विशेषः] विवाहप्रकरणम् ६ ।
२५३ परापीति । मैवं वोचः । '
द्विदशे वा नवपंचमे वा षट्वाष्टके वा' इत्यादिवसिष्ठादिवाक्यानि दुष्टभकूटापवादभूतान्यधिपतिमैन्यादिविशिष्टषडष्टकादि विदधते, 'षट्काष्टके मृत्युः' इत्यादीनि निंदार्थवादवाक्यानि तु ग्रहवैरग्रस्तषडष्टकादिविषयाणि । अन्यथा दुष्टफलषडष्टकनिराकरणस्य नवमपंचमस्य द्विादशयोरपि तुल्यत्वेनापवादकवाक्यानां विषयालाभात् । दृष्टांते तु ब्रह्मन्नप्रायश्चित्तविधानस्य वैयर्थ्यापातात् धनस्तुतिर्धनवत्प्रशंसापरैवेति युक्तमुत्पश्यामः। अथ नाडीसमाजपदस्यायमर्थः-अश्विन्यादित्रिकगणनया त्रिविधानां नाडीनक्षत्राणां वेधो नाडीसमाजः । यदाह श्रीपतिः-'नाड्यस्तिस्रो न्यस्तनिःशेषधिष्ण्यास्त्रिभ्यश्चाश्वादिभ्य एव प्रसूताः । सर्पाकारस्तत्र नाडीसमाजो नक्षत्राणामेकनाडीस्पृशां स्यात् ॥' इति । एवं च यत्र भकूटादयः सप्त भेदाः शुभा भवंति तत्र नाडीदोषश्चेत्तदा विवाहो न विधेयः । उक्तं च सप्तर्षिमते विवाहपटले-'सदा नाशयत्येकनाडीसमाजो भकूटादिकान्सप्तभेदान्प्रशस्तान्' इति । अत्र केचित् नाडीसमाजशब्दोपादानात्समाजशब्दस्य समुदायवाचित्वात् त्रिचतुष्पंचपर्वनाडीत्रयसमुदाये स्त्रीपुरुषनक्षत्रयोरेकनाड्यां पातस्तदा समस्तवश्यादिगुणसत्त्वे विवाहो नैव भवेत् । यदा त्रिचतुष्पंचपर्वनाडीवेकैव नाडी स्त्रीपुरुषयोः स्यात्तदा भवत्येव विवाहः । अत एव 'भकूटादिकान्सप्तभेदांश्च ते ताम्' इति विपरीतं वचनमनुकूलम् । अस्यायमाशयः-ते इति बहुत्वात्सप्त भकूटादयः शुभास्तामित्येकवचनानुरोधादेकामेव नाडी परिहरेयुः, नतु नाडीसमाजमित्याहुः। तञ्चिंत्यम् । यतः 'चतुस्त्रियभिभोत्थायाः' इति वाक्याच्चतुश्चरणनक्षत्रोत्पन्नायाः कन्यायास्त्रिपर्वैव, त्रिचरणनक्षत्रोत्पन्नायाः कन्यायाः द्विपर्वैव द्विचरणनक्षत्रोत्पन्नायाः कन्यायाः पंचपर्वैव नाडीगणनेति नियमाधुगपन्नाडीत्रयविचारासंभव एव । किंच रत्नमालादिवाक्येषु पार्थक्येन नाडीत्रयानभिधानम् । तत्रत्यसमाजपदं नाडीसंस्थनक्षत्रसमुदायपरं। तथा हिअश्वादिभ्यस्त्रिभ्य एव नक्षत्रेभ्यः प्रसूताः न्यस्तनिःशेषधिष्ण्याः सर्पाकारास्तिस्रो नाड्यः स्युः । तत्रैकनाडीस्पृशां नक्षत्राणां समाजो नाडी स्यात् इति । ननु-'यस्मादनर्थकलहागममृत्यवः स्युः पाणिग्रहादनु तयोः खलु नाडियोगे। तस्माच्चतुस्वियमलांघ्रिपु भेषु नूनं नाडीसमाज इति चिंत्यमनुक्रमेण ॥' इति वृद्धगर्गवचनान्नाडीसमाज एव स्थिते दोषः, नैकस्यां नाड्यामिति चेत् । उच्यते--स्वयमेव 'चतुस्त्रियमलांघ्रिषु भेषु' इति परिगणितविषयत्वेनाभिधानात्समाजपद नाडीसंस्थनक्षत्रसमुदायविषयकमिति । किंच पञ्चपर्वचतुष्पर्वनाड्योर्देशविशेषविषयत्वेनाभिधानात् त्रिनाड्यास्तु सर्वदेशविषयत्वादेतस्या एव निषेधो युक्तः। तानि च देशविशेषवाक्यान्यग्रेऽभिधास्यंते । अतः'भकूटादिकान्सप्तभेदांश्च ते ताम्' इत्यत्र पाठे प्रशस्तानिति पठंति अभियुक्ताः शाङ्गधरीयज्योतिर्निबंधकारादयः । तस्मान्नाडीसमाजपदस्य प्राग्वदेव व्या. ख्यानं न्याय्यम् । ननु यत्र नाडीनक्षत्रशुद्धिरस्ति यथा भरणीहस्तयोः षट्काएक च वर्तते ग्रहमैत्र्यपि नास्ति तत्र किं कार्यमत आह-अन्याऽशपयोरिति । अन्यः प्रीतिषवादिभ्योऽन्यराशौ । कोऽर्थः ? राशिस्वामिनोः परस्परं १ ज्यायः इति पाठः ।
२२ मु० चि०