________________
२५४
मुहूर्तचिंतामणिः। [सद्भकूटे ग्रहवैरपरिहारः शत्रुत्वे वा समत्वे वा षट्काष्टकादौ च सति अंशपयोस्तद्राशिनवांशस्वामिनोबलित्वसखिते स्यातां, वलित्वं च सखिता च प्रथमाद्विवचनांतं पदं बलित्वं सबलत्वमुच्चादिस्थितत्वेन सखिता परस्परमैत्री ते उभे चेद्भवतः । सखिताया उपलक्षणत्वादैकाधिपत्यमपि । तदा विवाहः शुभो निरुक्तः । उक्तं च जगन्मोहने वसिष्ठेन-राशिनाथे विरुद्धेऽपि सबलावंशकाधिपौ । तन्मैत्रेऽपि च कर्तव्यं दंपत्योः सुखमिच्छता ॥' इति । नन्वयं परिहारो 'राशिनाथे विरुद्धे. ऽपी'त्यनुवादात्केवलग्रहदौष्ट्यापवादको नतु दुष्टभकूटग्रस्तग्रहवैरस्य । उच्यते'खेटारित्वं नाशयेत्सद्भकूटम्' इति अग्रे ग्रंथकृद्वक्ष्यति । तत्र 'नभोगारिभावं हरेत्सद्भकूटम्' इति सप्तर्षिमतविवाहपटलीयवाक्यं संमतित्वेनास्माभिरध्यस्यते । तदेव केवलग्रहवैरापवादकमस्ति न त्विदमपि । ननु द्वयोर्वाक्ययोर्यथाश्रुतशब्दस्वरसेनार्थे जिज्ञासिते एकस्मिन्नेव ग्रहदौष्ट्यरूपे परिहारद्वयं दृश्यते । यथैकस्मिन्नेव दुष्टभकूटके भवनपतिसुहृत्त्वमित्यादिनानेकपरिहाराभिधानमित्यतोऽत्रवचने न किंचित्तादृशं विषयं पश्यामः । सत्यम् । 'नभोगारिभावं हरेत्सद्भकूटम्' इति तु निःसंदेहं ग्रहवैरस्यैवापवादकम् । परंतु 'राशिनाथे विरुद्धेऽपि मैत्रत्वे चांशनाथयोः । विवाहं कारयेद्धीमान्दंपत्योः सौख्यवर्धनम् ॥' इति जगन्मोहनस्थवसिष्ठवाक्येन प्रागुक्तवसिष्ठवचःसमानार्थकं सत् दुष्टभकूटग्रस्तग्रहवैरापवादकम् । तथा हि-न्यूनार्थके एकस्मिन्वाक्ये राशिनाथयोः परस्परविरोधे सति तदाशिनवांशस्वामिनोः परस्परमैत्री चेच्छुभो विवाह इत्यर्थः । अत्रांशनाथयोः सबलत्वविचारो नास्ति । यत्र त्वंशनाथयोरुच्चादिस्थितत्वेन सबलत्वं परस्परमैत्री चेति द्वयमस्ति तदुष्टभकूटग्रस्तग्रहवैरापवादकमित्यधिकार्थवचनस्यार्थः । नन्वनयोर्वाक्ययोः सामान्यविशेषभावान्यूनार्थकवाक्यार्थानुवादेनाऽपरवाक्यस्य सबलत्वविधानपुरःसरैकवाक्यत्वादुपसंहारन्यायेन विशेष एव पर्यवसानं कस्मान्न भवति । यथा पुरोडाशं चतुर्धा करोत्याग्नेयं चतुर्धा करोतीति वाक्यद्वये । अत्र हि सामान्यतो यत्किंचिद्देवताकस्य पुरोडाशस्य चतुर्धाकरणं प्राप्तमग्निदेवताक एव पुरोडाशे चतुर्धाकरणं पर्यवस्यतीति चेत् । उच्यते-वेदे हि कर्तुरस्मरणात्तादृशवैदिकवाक्येषु, तथा भिन्नकर्तृकेषु स्मृतिवाक्येष्वप्येवंविधा गतिरुचिता, नत्वेककर्तृकेषु स्मृतिवाक्येषु । अन्यतरवाक्यानर्थक्यापत्तेः । तत्र किमनर्थकमित्याकांक्षायामधिकार्थकेन न्यूनार्थकमित्यत्रानयोर्वाक्ययोरेककर्तृकयोरेकप्रकरणपठितयोश्वावश्यं भिन्नार्थकत्वं वाच्यम् । तत्र कस्य कोऽर्थ इति संदेहे न्यूनार्थकं केवलं ग्रहवैरापवादकमेव । नन्वपिशब्दस्यानुक्तसमुच्चयार्थत्वादिष्टविषयो लप्स्यत इति चेन्न । तदर्थकवचनांतरस्य स्पष्टस्याभावे अपिशब्दस्य समुच्चयार्थताया दुर्लभत्वात् । एवं च 'नभोगारिभावं हरेत्सद्भकूटम्' इत्यपि वाक्यं ग्रहवैरापवादकं तुल्यबलत्वाद्रीहियववत् । अंशनाथसबलत्वाभिधायकं तु 'राशिनाथे विरुद्धेऽपी'त्येतद्वाक्यमुभयविधविरोधपरिहारार्थकं । तथा हि-राशी च