________________
नाडीशुद्धः सर्वथैवावश्यकत्वं] विवाहप्रकरणम् ६ ।
२५५ नाथौ च एतेषां समाहारो राशिनाथं तस्मिन् राशिनाथ इत्येवं समाहारद्वंद्व आश्रीयते । तथा सत्ययमर्थः-राशी विरुद्धौ षट्काष्टकादिना नाथौ विरुद्धौ, कयो थावित्याकांक्षायां ययोः षकाष्टकादिविचारस्तयोरेव संनिहितत्वाद्रहणमिति । तयोः राश्यो थौ विरुद्धौ, 'मित्राणि धुमणेः' (६।२७) इत्यादिना परस्परं शत्रू स्यातां, तदाशिनवांशस्वामिनोः सबलत्वे मित्रत्वे च समुच्चिते सति विवाहः शुभदः। नन्वतिक्लिष्टे समाहारद्वंद्वे किं प्रमाणम् ? उच्यते-अंशनाथसबलत्वस्याधिकरणमेव । तच्च युगपदुत्पन्नस्य दोषद्वैविध्यस्य राशिविरोधग्रहविरोधरूपस्य परिहारकमित्यवगम्यते । अत एव ज्योतिःशास्त्राभियुक्ताः एवंविधे उभयविरोधे एवंविधं समाधिमाश्रित्य विवाहं कारयंतीत्यास्तां प्रसतानुप्रसक्तम् । अस्मिन्नपि पक्षे नाडीशुद्धिरपेक्षितैवेत्याह-नाड्यक्षशुद्धौ तथेति । प्रागुक्तप्रकारेण नाडीनक्षत्रेषु स्त्रीपुरुषनक्षत्रयोरेकस्यां नाड्यामवस्थित्यभावश्चेत्तदा विवाहः शुभः । यथा भरणीहस्तयोः सत्यप्युभयविरोधे राशिनवांशयोः क्रमेण पंचमचतुर्थयोयौँ स्वामिनौ सूर्यभौमौ तयोमैंत्र्यप्यस्ति स्वनवांशस्थितत्वात्सबलत्वमपि तत्र विवाहः शुभफलदो निगदितः। यतोऽत्र स्त्रीपुंसनक्षत्रयोरेकनाड्यामवस्थित्यभावः । यदा त्वश्विनीहस्ताख्ये इव द्वयोनक्षत्रे स्यातां तदा नाडीनक्षत्रशुद्ध्यभावात्सकलगुणवत्त्वेऽपि विवाहो न भवति । किं पुनरेवंविधे विषये इति । 'सदा नाशयत्येकनाडीसमाजो भकूटा. दिकान् सप्तभेदान्प्रशस्तान्' इत्युक्तेः । अथैतत्परिहारासंभवे परिहारांतरमाह- ताराशुद्धिवशे इति । अत्रान्यर्थ इत्यनुवर्तते । प्राग्वदेव व्याख्येयमिदम् । एवंविधे विषये षट्काष्टकादौ च सति यदि स्त्रीपुंसनक्षत्रयोः परस्परं ताराशुद्धिवशे 'कन्याद्वरभं यावत्' (६।२४) इत्यादिना ताराशुद्धिरूपे वशे वश्यत्वे द्वितीयचतुर्थषष्ठाष्टमनवमतारासंज्ञके सति बुधैर्विवाहः शुभो निगदितः । अत्रोदाहरणान्यनेकानि बुधैर्येयानि । अत्र संमतिः-'अन्योन्यताराविशुद्धौ' इत्युक्ता । राजमार्तडेनायमर्थः स्पष्टमभिहितः-मैत्रीक्षेत्रपयोर्द्वयोरपि तयोरैकाधिपत्येऽपि चेत्तारामित्र ८ सुमित्र ९ जन्म १ शुभदा क्षेमा च संपत्करी। पष्ठाष्टे नवपंचमे व्ययधने योगेषु पुंयोषितोः प्रीत्यायुःसुतवृद्धिवित्तजनकः कार्यो विवाहस्तदा ॥' इति । चकाराषष्ठी च । जन्मतारा यद्युत्पत्तितारा तदा राशिभेदे चरणभेदे वा शुभा ज्ञेया । दशमैकोनविंशतितारे शुभे एव । अत्रापि पक्षे नाडीशुद्धिरपेक्षितैव । नाडीशुद्ध्यभावे विवाहो नैव भवेत् । उक्तैवात्र संमतिः। अथैतस्यापि परिहारस्यासंभवे परिहारांतरमाह-अथ राशिवशताभाव इति । अत्रापि द्वयोः स्त्रीपुंसयो राशिनाथविरोधादिके विषये षट्काष्टकादौ च सति 'हित्वा मृगेंद्रं नरराशिवश्याः' (६।२३) इत्यादिना पुरुषराशेः स्त्रीराशिवशताया भावे सत्त्वे सति विवाहः शुभो निगदितः । 'यदि भवनवशित्वम्' इति श्रीपत्युक्तेः । अस्मिन्नपि पक्षे नाडीशुद्धिरपेक्षितैवोक्तादेव हेतोः । तदयमत्र निष्कृष्टोऽर्थः-पकाष्टकनवमपंचमद्विादशा