________________
२५६
मुहूर्तचिंतामणिः । [दुष्टभकूटे ताराशुद्धिपरिहारः ख्येषु दुष्टभकूटेषु सत्सु परस्परं ग्रहमैत्री एकः परिहारः । ऐकाधिपत्यं द्वितीयः। ग्रहवैरेऽप्यंशपयोः सबलत्वं मैत्री च तृतीयः । ताराशुद्धिश्चतुर्थः । राशिवश्यत्वं पंचमः। सर्वेष्वपि परिहारेषु नाडीशुद्धिरपेक्षितैव । नाडीविरोधसत्वे तु विवाहो नैव स्यादिति । एवं च ग्रंथकर्ता 'भवनपतिसुहृत्त्वम्' इत्यस्य श्रीपतिश्लोकस्य वाक्यचतुष्टयमंगीकृत्य तावत्परिहाराभिधानं कृतम्। तट्टीकाकृन्महादेवोऽप्येवमेव व्याख्यत् । यत्र हि प्रत्येकं परिहारकत्वं तत्र गुणसमुदायः परिहारकः स्यादिति किं वाच्यम् ? वस्तुतस्तु 'मैत्रीक्षेत्रपयोर्द्वयोरपि तयोरैकाधिपत्येऽपि चेत्तारामित्रसुमित्रजन्मशुभदा क्षेमा च संपत्करी' इत्यादिप्राग्लिखितेन राजमार्तडवाक्येन दुष्टे भकूटे ग्रहमैत्र्या सह तथैकाधिपत्येन सह ताराशुद्धिरेव परिहारिका समुचिता । अर्थादेकस्य मित्रत्वेऽपरस्य समत्वे वश्यत्वापेक्षा । अत एतद्वाक्यं ज्योतिःसारसागरका पितृचरणैश्चैवं विवृतम्-'अनान्योन्यमित्रत्वे तुल्याधिपत्वे वा ताराशुद्धिरेव चिंत्या । एकातमित्रतायां तु वशित्वादिगुणांतरापेक्षा, शत्रुत्वे तु सर्वथा त्यागः' इति । अत एवैतस्मिन्पद्ये चेत्पदाभिधानादेकवाक्यतावसायः। एवं श्रीपतिवाक्यमपि व्याकर्तव्यमेकवाक्यताबलात् । तत्र षट्काष्टके पुनर्भवनपतिसुहृत्त्वमिति सकलगुणसत्त्वमेव परिहारकम् । अन्ययोर्दुष्टभकूटयोर्द्वयमेव । यदाह ज्योतिनिबंधे गर्गः- 'ग्रहमैत्रं शुभा तारा राशिवश्यं त्रिभिः शुभम् ॥ षडष्टकं बुधाः प्राहुभ्यां व्यकं त्रिकोणकम् ॥' इति । ब्यक-द्विादशं । द्विादशे वा नवपंचमे वा' इत्यादीनि वसिष्ठादिवाक्यानि तूपलक्षणपरतया व्याख्येयानि । अत्र यथासंप्रदाय व्यवस्था ध्येयेत्यलमियता । सौहृद इति । सुष्टु हृदयं यस्यासौ सुहृन्मित्रम् । 'सुहृदुहृदौ मित्रामित्रयोः' इति साधुः । सुहृदो भावः सौहृदम् । 'हायनांतयुवादिभ्योऽण्' इत्यण, 'तद्धितेष्वचामादेः' इत्यादिवृद्धिः । केचित्तु सुष्टु हृदयं यस्यासौ सुहृदयः, तस्य भावः सौहृदमिति युवादित्वादणि 'हृदयस्य हृल्लेखयदण्लासेषु' इति हृदादेश इत्याहुः । अपरे तु 'स्वातं हृन्मानसं मनः' इत्यभिधानान्मनोवाची हृच्छब्दः सुष्टु हृन्मनो यस्येति सुहृत्तस्य भावः, प्राग्वदणि रूपं सिद्धमित्यभिदधुः । तदुभयमपि चिंत्यम् । यतो 'हृद्भगसिंध्वंते पूर्वपदस्य च' इत्युभयपदवृद्धौ सत्यां सौहार्दमित्येव स्यात् नतु सौहृदमिति । ननु प्रथमपक्षेऽप्यनेनैव सूत्रेणोभयपदवृद्धिः कस्मान्न भवति ? नहि तत्र कश्चिद्विशेष उपादीयते । उच्यते-'ओर्गुणः' इत्यत्र ओरोदिति वक्तव्ये गुणग्रहणम् 'संज्ञापूर्वको विधिरनित्यो यथा स्यात्' इति ज्ञापकात् 'हृद्भग-' इत्यस्यानित्यत्वेनाप्रवर्तमानत्वादादिवृद्धिरेवात्रेति ऋजवः समादधते । परे तु प्रतिपदोक्तहृदयपर्यायस्य हृच्छब्दस्य 'हृद्भग-' इत्यत्र ग्रहणात् 'हृदयस्य हृल्लेखयदण्लासेषु' इति हृदादेशस्यादिवृद्धौ साधयंति तत् 'हृदयस्य हृल्लेख' इत्यादिग्रंथविरुद्धम् । तथा हि-'वा शोकष्यअरोगेषु' इत्यत्र सौहार्द सौहृदय्यम् । ब्राह्मणादित्वात् ष्यञ् । हृदादेशपक्षे 'हृद्भगसिं