________________
२५७
नाडीकूटविचारः] विवाहप्रकरणम् ६ । ध्वंते पूर्वपदस्य च' इत्युभयपदवृद्धिरिति काशिकाकारो व्याख्यत् । वयं तु ब्रूमः। 'हृद्भग-' इत्यत्र 'अर्थवद्हणेनानर्थकस्य' इति परिभाषया हृदयवाचिनो हृदयादेशस्य वा हृच्छब्दस्यैव ग्रहणम् । तेनात्र 'सुहृदुहृदौ मित्रामित्रयोः' इति निपातितस्य सुहृच्छब्दस्य मित्रवाचित्वेनार्थवत्त्वात्तदवयवो हृच्छब्दस्तदंतस्योत्तरपदस्य वृद्धिर्न भवत्यवयवस्यानर्थत्वादित्यादिवृद्धि रेवान भवति । अमुमेवाशयं मनसि निधाय 'विनयं विशेषयति सौहृदेन सः' इति माघः । 'सौहृदं हि मनसोर्न गेहयोः' इति केशवार्कोऽपि सौहृदशब्दं प्रायुंक्तेति निरवद्यमिति ॥ ३२॥
अथ दुष्टानां गणकूट-भकूट-ग्रहकूटानां परिहारं शालिन्याहमैत्र्यां राशिस्वामिनोरंशनाथद्वंद्वस्यापि स्याद्गणानां न दोषः । खेटारित्वं नाशयेत्सद्भकूटं खेटप्रीतिश्चापि दुष्टं भकूटम् ॥३३॥
मैत्र्यामिति ॥ स्त्रीपुंसराशिस्वामिनोमैत्र्यां सत्यां तथा राशिनवांशयोद्वंद्वं युग्मं तस्यापि मैत्र्यां सत्यां गणानां दुष्टगणानां दोषो न स्यात् । स्त्री रक्षोगणा पुमान्मनुष्यगणो देवगणो वा तदा गणदोषो न स्यादित्यर्थः । यदाहात्रिः-'राशीशयोः सुहृद्भावे मित्रत्वे वांशनाथयोः । गणादिदौष्ट्येऽप्युद्वाहः पुत्रपौत्रप्रवर्धनः ॥' इति । अथ सद्भकूटं शुभफलदं भकूटं राशिकूटं तृतीयैकादशादिकं खेटारित्वं ग्रहयोः शत्रुतासंबंधिनं दोषं नाशयेत् । एवमेव खेटप्रीतिर्ग्रहमैत्री चापि दुष्टं भकूटं षडष्टकादिकसंबंधिनं दोषं नाशयेदित्यर्थः । तदुक्तं सप्तर्षिमते विवाहपटले-'नभोगारिभावं हरेत्सद्भकूटं विरुद्ध भकूटं हरेत्खेटमैत्री । सदा नाशयत्येकनाडीसमाजो भकूटादिकान्सप्तभेदांश्च तेषाम् ॥' अत्र चतुर्थचरणः 'प्रोक्त दुष्टभकूटके' (६।३२) इत्यादिना पुनरुक्तोऽपि स्मरणाविच्छेदार्थं पठितः । यत्तूक्तं नारदेन-'एकाधीशे मित्रभावे शुभदं पाणिपीडनम् । द्विादशे त्रिकोणे च न कदाचित्षडष्टके ॥' इति । एतन्नाडीदोषे सत्येव द्रष्टव्यम् । अधुनोदितवाक्यस्वरसात् । 'भवनपतिसुहृत्त्वं स्यात्तथैकाधिपत्यं यदि भवनवशित्वं चैव षष्टाष्टकेऽपि । शुभकृदिह विवाहोऽन्योन्यताराविशुद्धौ यदि खलु फणिचके स्यान्न नाडीसमाजः ॥' इति श्रीपत्युक्तेश्च । अन्यथा प्रागभिहितवसिष्ठादिवाक्यान्यनर्थकान्यापद्येरन्निति ॥ ३३ ॥ ___ अथ क्रमप्राप्तसकलकूटप्रधानं नाडीकूटं स्रग्धरयाहज्येष्ठार्यम्ोशनीराधिपभयुगयुगं दास्रमं चैकनाडी
पुष्येंदुत्वाष्ट्रमित्रांतकवसुजलभं योनिबुभ्ये च मध्या । वाय्वग्निव्यालविश्वोडयुगयुगमथो पौष्णभं चापरा स्या
इंपत्योरेकनाड्यां परिणयनमसन्मध्यनाड्यां हि मृत्युः॥३४॥
ज्येष्ठेति ॥ ज्येष्ठा प्रसिद्धा, आर्यम्णमुत्तराफाल्गुनी, ईश आर्द्रा, नीराधिपो वरुणस्तदं शततारका; एभ्यो नक्षत्रेभ्यो युगयुगं द्वयं द्वयं ज्येष्ठामूलं उत्तराफल्गुनीहस्तश्च आर्द्रापुनर्वसुश्च शततारकापूर्वाभाद्रपदा चेत्यर्थः । दास्रभ