________________
२५८
मुहूर्तचिंतामणिः। [दुष्टनाडीफलानि मश्विनी च एतन्नक्षत्रनवकं परस्परमेकनाडीत्युच्यते। अथ पुष्यः प्रसिद्धः, इंदुमुंगः, त्वाष्ट्र चित्रा, मित्रोऽनुराधा, अंतकं भरणी, वसुर्धनिष्ठा, जलभं पूर्वाषाढा, योनिः पूर्वाफल्गुनी, बुभ्योऽहिर्बुध्न्यः उत्तराभाद्रपदा; एतन्नक्षत्रनवकं परस्परं मध्यनाडीत्युच्यते । अथ वायुः स्वाती, अग्निः कृत्तिका, व्याल आश्लेषा, विश्वोइत्तराषाढा; एभ्यो युगयुगं स्वाती विशाखा च कृत्तिका रोहिणी च आश्लेषा मघा च उत्तराषाढा श्रवणश्चेत्यर्थः । अथो पौष्णभं रेवती च एतन्नक्षत्रनवकमपरा तृतीयनाडीत्युच्यते । एतत्फलमाह-दंपत्योः स्त्रीपुंसयोरेकनाड्यां परिणयनमसद्दुष्टफलं स्यात् । मध्यनाड्यां हि निश्चयेन मृत्युयोरपि स्यात् । [ 'मूलेंद्रार्कभपाश्यजैकचरणादित्यार्यमेशाश्विभैर्याम्ये द्विज्यभमित्रभाग्यवसुभत्वाष्ट्रांब्वहिर्बुध्न्यभैः । अन्यैर्नाड्य इहैकनाडिनवके स्यातां द्विभे चेन्मृति!दादक्षिणतः क्वचिन्नपमुखे पाश्चकनाडी हिता ॥' गोदादक्षिणतः सर्ववर्णेषु पाचकनाडी हिता । क्षत्रियादौ क्वचित् अन्यकन्याया अलाभे पाइँकनाडी हितेत्यर्थः । ] यदाह गर्ग:-'नाडीकूटं तु संग्राह्य कूटानां तु शिरोमणिः । ब्रह्मणा कन्यकाकण्ठसूत्रत्वेन विनिर्मितम् ॥' इति । वराहः-'आद्यैकनाडी कुरुते वियोगं मध्याख्यनाड्यामुभयोर्विनाशः । अंत्या च वैधव्यमतीव दुःखं तस्माच्च तिस्रः परिवर्जनीयाः ॥' इति । अत्र चक्रन्यासो वसिष्ठेनोक्तः'आवृत्तिभिभैस्त्रिभिरश्विभाद्यं क्रमोत्क्रमात्संगणयेदुडूनि । यदेकपर्वण्युभयोश्च धिष्ण्ये नेष्टा नृनार्योर्भृशमेकनाडी ॥' फलेऽपि विशेषमाह वसिष्ठः-'सा मध्यनाडी पुरुषं निहंति तत्पार्श्वनाडी खलु कन्यकां तु । आसन्नपर्यायसमागता चेद्वर्षेण साप्यंतरिता त्रिवर्षेः ॥' इति । उत्तरार्धस्यायमर्थः-आसन्ने समीपस्थिते पर्याये आवृत्तौ चेदेकनाडी समागता यथाऽश्विन्यायोर्भरणीमृगयोः रोहिण्याश्लेषयोर्वा सा नाडी वर्षेणैकेन स्त्रीपुंसयोरुक्ताऽशुभफलदात्री स्यात् । यदा त्वश्विन्युत्तराफल्गुन्योरितरकृतव्यवधाना सा नाडी त्रिभिर्वरुक्ताऽशुभफलदात्री स्यात् । अत्र सफले नाडीनक्षत्रक्रमे अस्मदुक्तं पद्यद्वयम् ‘दशादित्यर्यमार्केद्रमूलतोयाधीशाजांघ्रिभान्येकनाडी । मध्या याम्यद्विज्ययोन्यक्षचित्रामित्रांभोवस्वहिर्बुध्यभानि ॥ वह्निब्राह्माहिपित्र्यानिलक्षद्वीशाविश्वे विष्णुपौष्णे परा च । दंपत्योर्भे सनिकृष्टे हि दुःखं वर्षेण स्यात्सांतराले त्रिवर्षेः ॥' इति । ग्रंथकर्ता तु नाडीदोषस्य तावदवस्थाक्रममनंगीकृत्य नाडीनक्षत्राण्येवोक्तानि ॥ अश्विनीमृगयोरिव नाडीभेदे तु दोषाभाव एव तेनाष्टौ गुणा इत्यर्थः । इयं चाश्विन्यादित्रिकगणना कन्यायाश्चतुश्चरणे जन्मनक्षन्ने सति । यदा तु विचरणं नक्षत्रं तदा कृत्तिकामारभ्य चतुष्पर्वगणना साभिजित् । द्विचरणत्वे तु कन्यानक्षत्रस्य मृगशीर्षतः पंचपर्वगणना। यदाह नारदः-'चतुस्त्रिद्वयंघ्रिभोत्थायाः कन्यायाः क्रमशोऽश्विभात् । वह्निभादिंदुभानाडी त्रिचतुष्पंचपर्वसु ॥ गणयेत्संख्यया चैकनाड्यां मृत्युर्न संशयः ॥ अमु
१ एतच्चिह्नांतर्गतः मुहूर्तमार्तडस्थः श्लोकः तदर्थश्च टिप्पण्यादिरूपेण क्वचिल्लिखितः केनापि भ्रमेण टीकायां प्रक्षिप्त इति भाति । 'अत्रार्थे आर्ष मूलं मृग्यम्' इति एतच्छोकटीकांतिमग्रंथविरोधात् ।