________________
पांचालादौ वर्ज्यनाड्यः ] विवाहप्रकरणम् ६ ।
२५९
मर्थ स्पष्टमाह गर्गः - ' चतुष्पात्कन्यकाऋक्षं गणयेदश्विभादिकम् । त्रिभं सव्यापसव्येन भिन्नं पर्व सुखावहम् ॥ कन्यकर्क्ष त्रिपाच्चेत्स्याद्गुणयेत्कृत्तिकादिकम् । चतुर्भिः पर्वभिस्तद्वदभिजित्तारकान्वितम् ॥ कन्यकर्क्ष द्विपाच्चेत्स्यागुणयेत्सौम्य भादिकम् । पंचभिस्त्वव रोहे तु पंचमांगुलिवर्जिते ॥' एतत्फलमप्याह गर्गः - 'संश्लिष्टा मध्यनाडी तु पुरुषं हंति वेगतः। संश्लिष्टा पार्श्वनाडी तु कन्यकां हंत्यसंशयम् ॥' इति । 'आसन्ना त्वेकनाडी स्यादासन्नमृतिदायिनी | दूरस्था चैकनाडी स्यादूरस्थानिष्टकारिणी ॥' इति । दूरं = बहुकालम् । जगन्मोहने नारदः - 'एकनाडीविवाहश्च गुणैः सर्वैः समन्वितः । वर्जनीयः प्रयत्नेन दंपत्योर्निधनं यतः ॥' इति | आसां नाडीनां देशभेदेन व्यवस्थामाह जगन्मोहने नारद: - 'चतुर्नाडी त्वहल्यायां पांचाले पंचनाडिका । त्रिनाडी सर्वदेशेषु वर्जनीया प्रयत्नतः ॥' इति । अहल्यापांचाल देशविशेषौ । [ सर्वदेशशब्दः अहल्यापांचालव्यतिरिक्तदेशेषु वर्तते । 'विशेषसन्निधाने आम्नातं सामान्यं तदतिरिक्ते सामान्ये वर्तते' इति न्यायात् । ब्राह्मणा आयाता वसिष्ठोध्यायात इतिवत् । ] ननु - 'चतुस्त्रिद्वयंघ्रिभोत्थायाः' इति 'चतुर्नाडी वहल्यायाम्' इत्यनयोर्वाक्ययोः सामान्यविशेषभावयोः समापन्नयोरयमर्थः संपन्नः । कन्यर्क्षे च चतुष्पादे सत्यश्विन्यादित्रिनाडी अहल्यापांचालव्यतिरिक्तसर्वदेशेषु स्यात् । तथा कन्यक्षे त्रिपादे कृत्तिकादिचतुष्पर्वनाडी अहल्यायामेव स्यात् । तथा कन्यर्थे द्विपादे मृगादिपंचपर्वनाडी पांचाल एव स्यात् । एवं देशभेदेन नाडीनैयत्ये सति तदेशेषु प्रोक्तभिन्नेषूत्पन्नायां कन्यकायां नाडी विचारो न स्यादेव । तथा त्रिपादे द्विपादे वा कन्यर्क्षे सति सर्वेष्वपि देशेषु त्रिनाडीविचारो न स्यात् । एवं सति पुनर्वसुकृत्तिकाप्रभृतीनां त्र्यंत्रीणामुभयपार्श्वधिष्ण्यानां तन्नाडीस्थैः सर्वनक्षत्रैः सह नाडीविचाराभावः प्रसज्येत । तथा मृगचित्राधनिष्ठाद्वयंघ्रीणां मध्यनाडीधिष्ण्यानां मध्यनाडीसंस्थैः सर्वैर्भरण्यादिभैः सह च तथा चतुष्पादे भे तु देशविशेषे नाड्यभाव एव प्रसज्येत । न चेष्टापत्तिरिति वाच्यम् । आर्यावर्तनिवासिसकलशिष्टाचारविरोधप्रसंगात् । न च ' त्रिनाडी सर्वदेशेषु वर्जनीया प्रयत्नतः' इत्युक्तेरहव्यापांचालयोरपि देशयोखिनाड्यस्त्येवेति वाच्यम् । 'चतुर्नाडी त्वहल्यायां पांचाले पंचनाडिका' इत्येतद्विशेषसाहचर्यात् । अत्रेमां समाधिसरणिं पश्यामः – 'चतुस्त्रिद्व्यंघ्रिभोत्थायाः कन्यायाः क्रमशोऽश्विभात् । वह्निभादिंदुभान्नाडी त्रिचतुष्पंचपर्वभिः ॥' इति पद्येन कश्यपो नाडीत्रयविचारमभिधायानुपदमेव ' रेखास्तिस्रो विरच्याशु दस्रभाद्यानि विन्यसेत् । एकरेषास्थयोमृत्युपत्योर्जन्मधिष्ण्ययोः ॥ ' इति पुनरपि त्रिनाडीमुपन्यस्तवान् । सा च त्रिनाडी सर्वेष्वपि कन्यानक्षत्रेषु सर्वेष्वप्यहल्यापांचालसहितेषु देशेषु अवश्यं विचार्या यथा स्यादित्येतदर्थमुक्ता । न चेदं त्रिनाड्या लक्षणवाक्यमिदमिति वाच्यम् । एवं चतुर्नाडीपंचनाड्योरपि लक्षणाभिधानं कर्तव्यं स्यात् ।
१ [] एतच्चिह्नांतर्गत ग्रंथोऽपि मध्ये केनचित्प्रक्षिप्त इव भाति । लिखित पुस्तकेष्वऽप्यनुपलंभात् । पूर्वपत्रस्थग्रंथवत् ।