________________
व्रतबंधे वानध्यायादयः] संस्कारप्रकरणम् ५।
ર वृषनवांशे गुरुः वर्गोत्तम इति । वर्गोत्तमलक्षणमुक्तं वराहेण-'वर्गोत्तमाश्चरगृहादिषु पूर्वमध्यपर्यतगाः शुभफला नवभागसंज्ञाः' इति । उपलक्षणत्वात्स्वोच्चादिनवांशेऽपि वा स्थितः स्यात्तदेष्टः शुभफलदांता । कैमुतिकन्यायेनाप्यन्येषु स्थानेष्वेतादृशो गुरुः शुभ एव । यदाह भुजबल:-'वोत्तमे स्वभवने भवनेऽथ मैत्रे मित्रांशके स्वभवनोच्चनवांशके वा । जन्माष्टरिःफरिपुखत्रिचतुर्थगोऽपि जीवः सुखार्थसुतवृद्धिकरो विवाहे ॥' व्यासोऽपि-'मित्रराशिगते जीवे स्वगृहे स्वोच्चगेऽपि वा । उद्वाहिता यदा कन्या भवेत्पुत्रार्थसंयुता ॥' इति । तुल्यन्यायत्वाद्रतादावपि ज्ञेयम् । ननु गुरोः सूर्यचंद्रौ मित्रे । एवं सति सिंहकर्कावित्यपि कुतो न व्याख्यातमिति चेन्न । सिंहस्थस्य गुरोः स्वरूपेणैव निषेध इत्युक्तं प्राक् । कर्कस्थो गुरुरुच्चस्थ एवेति पुनरुक्तिः । अतः साधीयः प्राग्व्याख्यातम् । नीचं मकरः, अरिस्थः मिथुनकन्यातुलावृषराशिस्थो गुरुः गोचरेण शुभोऽप्यसन् । अनिष्टफलदातेत्यर्थः । तदुक्तं ज्योतिनिबंधे-'उच्चस्थः स्वगृहे सुहृद्भवनगो वाचस्पतिर्नित्यशः पूर्णायुर्विविधार्थसौल्यजनको जन्माष्टमस्थोऽपि चेत् । नीचस्थोऽरिगृहे दिवाकरकरच्छायानुगामी सदापीष्टोऽनिष्टफलं ददाति नियतं वैधव्यदुःखास्पदम् ॥' इति । अत्राष्टमस्थ इत्यनेन सर्वथानिष्टफले गुरौ 'न चाष्टमं लक्षगुणं प्रपूजये दिति वचनात्पूजामनीहमानेऽप्युपनयनादि शुभं स्यात् । द्वादशचतुर्थस्थानस्थस्य तु द्विगुणपूजामिच्छतस्तथा तृतीयादिस्थानस्थस्य पूजामात्रापेक्षस्य गुरोः शुभफलदातृतास्तीति किं वक्तव्यमिति कैमुतिकन्यायसूचनार्थोऽपिशब्दः। 'न चाष्टमम् इति वाक्यं शत्रुगृहस्थितगुर्वभिप्रायम् । अस्यापवादो रत्नकोशेऽभिहित:-'गोचराष्टकवर्गाभ्यां यदि शुद्धिर्न लभ्यते । तदोपनयनं कार्य चैत्रे मीवगते रवौ ॥ हरौ सिंहांशके जीवे नीच: नीचभागगे । मौंजीबंधः शुभः प्रोक्तक्षेत्रे मीनगते रवौ ॥' इति गुरूक्तेश्च ॥ ४७ ॥ अथ व्रतबंधे वयंपदार्थाननुष्टुभाह
कृष्णे प्रदोषेऽनध्याये शनौ निश्यपराह्नके । प्रासंध्यागर्जिते नेष्टो व्रतबंधो गलग्रहे ॥४८॥ कृष्णे इति ॥ एषु दुष्टपदार्थेषु सत्सु व्रतबंधो नेष्ट इति वाक्यार्थः । तत्र कृष्णे प्रथमत्रिभागरहिते कृष्णपक्षे 'आ पंचम्यास्तु तिथयः पराः स्युरतिनिंदिताः' इति नारदोक्तेः । तथा प्रदोषे यस्मिन् दिने संध्याकाले प्रदोषो भवेत्तदिवसे व्रतबंधो नेष्टः । प्रदोषलक्षणं स्वयमेव वक्ष्यति । अनध्यायेऽपि नेष्टः, अनध्यायानग्रे वक्ष्यति । शनौ नेष्टः । अत्र संमतिरुक्ता । निशि रात्री नेष्टः, अपराह्नकेऽपि नेष्टः । अत्र संमतिवाक्यं प्रागलेखि । इयं पुनरुक्तिः स्मरणाविच्छेदार्थम् । तथा प्राक्संध्या प्रातःसंध्या तस्यां गर्जिते मेघध्वनावनध्यायनिमित्ते सति नेष्टः । यदाह वसिष्ठः-'व्रतेऽति पूर्वसंध्यायां वारिदो