________________
२१०
मुहूर्तचिंतामणिः। [गुरुदौष्ट्येऽपवादः क्रांताया विवाह उचितः । एतदप्युक्तं वराहेण-'पूजाभिलाषं प्रति निस्पृहेऽपि कुर्याद्गुरौ शुद्धिविवर्जितेऽपि । वराय्यलाभे शुभदं विवाहं वदंति गर्गच्यवनादिमुख्याः ॥' इति । अत्र चतुर्थद्वादशाष्टमस्थानस्थितत्वेन गुरोर्द्विगुणनिगुणादिकां पूजां विधाय विवाहः शुभ इति सांप्रदायिकोऽर्थः । विवाह इत्यु. पलक्षणं, तेन व्रतबंधोऽप्येवमेव ध्येयः । तदुक्तं नारदेन-'बालस्य बलहीनोऽपि शांत्या जीवो बलप्रदः । यथोक्तवत्सरे कार्यमनुक्ते नोपनायनम् ॥' इति । वसिष्ठेनापि-'उक्तेऽपि वर्षे न बली गुरुश्वेच्छांत्या प्रशस्तं व्रतबंधकर्म । मनुक्तवर्षे सुबलप्रदोऽपि नैवैतयोरब्दबलं बलीयः ॥' इति । अत्र वामवेधेन ये गुरुशुद्धिमाहुस्तान्दूषयति गर्गः-'मौजीबंधे विवाहे च प्रतिष्ठायां विशेषतः । गोचरेणैव कर्तव्यं वेधादिकमकारणम् ॥' इति । प्राच्यास्तु-गोचरबलाभावे अष्टवर्गबलेनैव व्रतबंधादिकमाहुः । यदाह राजमार्तड:-'भष्टवर्गविशुद्धेषु गुरुशीतांशुभानुषु । व्रतोद्वाही च कर्तव्यो गोचरेण कदापि
म ॥' इति । उपलक्षणमेतत् । यत्र कर्मणि यस्य यस्य ग्रहस्य शुद्धिरपेक्षिता , तस्य तस्याष्टवर्गशुद्धिर्विचार्या । एतदप्याह स एव-अष्टवर्गेण ये शुद्धास्ते
शुद्धाः सर्वकर्मसु । सूक्ष्माष्टवर्गसंशुद्धिः स्थूला शुद्धिस्तु गोचरे ॥ अभावतो गोचरशोभनानां शुद्धिं वदेदागुरिरष्टवर्गात् । वैधव्यकन्याक्षयहेतुयोगे जीवा'ष्टवर्गस्य वदेत्तु शुद्धिम् ॥' इति । तत्र गुरोरष्टवर्गो लिख्यते । बृहजातके वराहः-'
दिस्वाद्यष्टमदायबंधुषु कुजात्स्वात्सत्रिकेष्वंगिराः सूर्यात्सत्रिनवेषुधीखनवदिग्लाभारिगे भार्गवात् । जायायार्थनवात्मजेषु हिमगोर्मदत्रिषट्धीव्यये दिग्धीषट्स्वसुखाय पूर्वनवगोज्ञासत्स्मरेषूदयात् ॥' इति । एवं सत्यामपेक्षायां सूर्यादीनामप्यष्टवर्गास्तत एव ध्येयाः । एवं जन्मकालीनग्रहवशादुक्तस्थाने रेखा दत्त्वा सांप्रतं विरुद्धफलदातृमहाधिष्ठितराशौ रेखाधिक्ये शुभमन्यथा नेति निष्कृष्टोऽर्थः । उक्तं च लघजातके-'विफलं गोचरगणितं ह्यष्टकवर्गेण निर्दिशेत्पुंसाम् । रेषाधिक्ये शुभदं बिंद्वधिकेनैव शोभनं प्रायः॥' अत्र प्रत्येकं रेखाफलमुक्तं यवनाचार्यैः-'कष्टं स्यादेकरेखायां द्वाभ्यामर्थक्षयो भवेत् । त्रिभिः क्लेशं विजानीयाश्चतुर्भिः समता मता ॥ पंचभिः क्षेममारोग्यं षड्भिरर्थागमो भवेत् । सप्तभिः परमानंदस्त्वष्टाभिः सर्वसंपदः ॥' इत्यलमतिप्रसंगेन ॥ ४६ ॥ अथ ग्रंथकृत्स्वमतेन गुरुदौष्ट्यापवादमनुष्टुभाह
खोच्चे स्वभे स्वमैत्रे वा स्वांशे वर्गोत्तमे गुरुः। रिःफाष्टतुर्यगोऽपीष्टो नीचारिस्थः शुभोऽप्यसन् ॥ ४७ ॥
खोच्चे इति ॥ गुरुर्दादशाष्टमचतुर्थास्यनिंद्यस्थानस्थितोऽपि यदि स्वोच्चस्थाने कर्के स्वभे धनुर्मानाख्ये स्वमैत्रे स्वमित्रगृहे मेषवृश्चिकाख्ये स्वांशे थस्मिन् कस्मिंश्चिद्राशौ धनुर्मीननवांशे वर्गोत्तमे वर्गोत्तमनवांशे यथा वृषराशौं