________________
प्रतबंधे गुरुबलं] संस्कारप्रकरणम् ५। सूनोस्तथा सुताया अपि मंगलानि ॥' इति वाक्यांते प्रथमस्येत्यायुक्तवान् । अन्यच्च नारदोऽपि-'न जन्ममासे जन्म: न जन्मदिवसेऽपि वा। आद्यगर्भसुतस्याथ दुहितुर्वा करग्रहः ॥' इति विशेषाच्च । अस्यापवादमाह शौनकः-'जन्मोदये जन्मसु तारकासु मासे तथा जन्मनि जन्मराशौ । व्रतेन विप्रो न बहुश्रुतोऽपि प्रज्ञाविशेषैः प्रथितः पृथिव्याम् ॥ गर्भाष्टमे गर्गपराशराद्यैः फलं यदुक्तं व्रतबंधने तु । ततोऽधिकं जन्मसु तारकासु मासे तथा जन्मनि वाडवानाम् ॥' वाडवानां ब्राह्मणानाम् । 'द्विजात्यग्रजन्मभूदेवाडवाः' इत्यभिधानात् । प्रथमदशमैकोनविंशतिनक्षत्राणां ग्रहणार्थ जन्मतारकास्वित्युक्तम् । पबंधने इत्यादि नारदवाक्यं प्रागुक्तमेव । गर्भाष्टमोपनयनफलमाह राजमार्तड:-'यज्वा वसंतसमये बहुवित्तभोगी गर्भाष्टमे विविधशास्त्रविशारदस्तु । वेदार्थपालनपरः खलु जन्ममासे ऋक्षेऽपि जन्मनि बहुऋतुभाजनं स्यात् ॥' ननु 'विवाहे चोपनयने जन्ममासं च वर्जयेत् । विशेषाजन्मपक्षं तु वसिष्ठाद्यैरुदाहृतम् ॥' इति जगन्मोहने गर्गवचनं कथं संगच्छेतेति चेत्, सत्यम् , क्षत्रियाणां विशां चाद्यगर्भनिषेधार्थ भविष्यति । तथा सति द्वितीयगर्भादावुपनयनादिमंगलकृत्यं सुखोदकं स्यात् । विप्राणां तु वाडवानामिति विशेषोक्तेरायगर्भानायगर्भसाधारणमुपनयनं जन्ममासादौ कुत इति चेच्छणु । यो जन्ममासादौ निषेधः स आद्यगर्भस्यैव, सोऽप्युपनयनवाक्येनापोह्यते । द्वितीयगर्भादौ तु निषेध एव नास्ति, किं तदपवादेन ॥ ४५ ॥ अथ गुरुबलमनुष्टुभाह- बटुकन्याजन्मराशेत्रिकोणायद्विसप्तगः ।
श्रेष्ठो गुरुः खपव्याये पूजयान्यत्र निंदितः॥ ४६ ॥ बटुकन्येति ॥ बटुरुपनयनाधिकारी । उपलक्षणत्वाद्वरोऽपि । तथा कन्या स्त्रीजात्यपत्यम् । तजन्मराशेः नवपंचमैकादशद्वितीयसप्तमस्थानस्थितो गुरुः श्रेष्ठ उत्तमः । यदाह श्रीपतिः-स्वायधर्मतनययुनस्थितो नाकनायकपुरो हितः शुभः' इति । खेति । दशमषदतृतीयप्रथमस्थानस्थितो गुरुः पूजया धर्मशास्त्रोक्तपूजाविधानेन स्वनुष्ठितेन श्रेष्ठः । अन्यत्र चतुर्थद्वादशाष्टमाख्यनिंद्यस्थानस्थितः सन् द्विगुणत्रिगुणादिपूजया स्वनुष्ठितयापि निधो निषिद्ध इत्यर्थः । उक्तं च वराहेण-'दुश्चिक्यजन्मारिखमध्यभेषु जन्मझतो वांछति वज्रपाणेः। पूजां पुरोधा न स एव कांक्षत्यथाष्टमप्रांत्यरसातलस्थः ॥' इति । वसिष्ठेन तु विशेष उक्तः-'बंधौ तृतीये रिपुराशिसंस्थे वांछंति पूजां दशमे सुरेज्ये । नेच्छंति पूजां जनिगे व्ययस्थे पुरातना अष्टमगेऽपि सूरौ ॥' जनिगे= जन्मराशिस्थे । चतुर्थजन्मस्थगुरोः पूज्यत्वपूजानिरपेक्षत्वविषयिणी देशभेदेन व्यवस्था ध्येया। तत्र पूजानिरपेक्षेऽपि गुरौ गुणवद्वरोपलब्धौ कन्यायाः कालाति