________________
२०४
मुहूर्तचिंतामणिः। [जन्ममासो मौंज्यां शस्तः वैश्यानां मौजी प्रशस्ता, तदा तु सुतरां शुक्रस्य शत्रुगृहनीचगृहस्थितत्वदो. षोक्तिः सार्थिकैवेति । ननु शत्रुगृहस्थे गुरावप्युपनयनं निषिद्धमित्युक्तम् । तत्र गुरोः शत्रू बुधशुक्रौ, तद्गृहाणि मिथुनकन्यावृषतुलाख्यानि, तत्स्थे गुरौ बटोरुपनयननिषेधो नीचस्थितगुरुवच्छिष्टैः कुतो नांगीक्रियत इति । उच्यते,-तत्र शिष्टाशयो यथा-गुरोरस्ते सिंहस्थे मकरस्थे वा गुरौ समस्तशुभकर्मणां आरंभो निषिद्धो दोषप्रकरणे पाठात् । स्वनीचग इत्यादिवाक्यस्योपनयनप्रकरण एव पाठादनावश्यकता प्रतीयते । आवश्यकत्वे तु दोषप्रकरण एव निषेधो वक्तव्यः स्यात् । न च तत्रोक्तौ सकलशुभकर्मणां निषेधः स्यादिति वाच्यम् । स्वनीचग इत्यस्य वाक्यस्य शेषे 'कुलशीलविवर्जितः' इति चरणरूपे 'मौंजीबंधं न कारयेत्' इति पठितव्यमिति तस्यैव निषेधः सेत्स्यति । ननु मौंजीबंधनपदमुपलक्षणत्वेन व्याख्यास्यते । यथा-'उपनयनं गोदानं चोद्वाहगृहप्रवेशगमनानि । अस्तमितेषु न कुर्यात्सुरगुरुभृगुपुत्रचंद्रेषु ॥' इत्यादिषु उपनयनादिपदानि । सत्यम् । सर्वत्रोपलक्षणत्वं वाक्यांतराणि विना व्याख्यातुं दुर्घटम् । अत्र हि-'वापीकूपतडागयागगमनम्' इत्यादिऋक्षोच्चयादिवाक्यैकवाक्यतावशादुपनयनादिपदानि उपलक्षणत्वेन व्याक्रियते न केवलानि । सदृशवाक्यांतराभावात् । एवं सति दोषप्रकरण एव निषेधे वक्तव्ये यदुपनयनप्रकरणे दोषाभिधानं तद्बटोः कालांतरे संभवति वृषमिथुनकन्यातुलास्थे गुरावुपनयनं न कार्यमित्येवंपरम् । तदसंभवे तु भवत्येव कालांतराभावात् । नीचस्थितगुरौ तु सर्वथा न भवति दोषप्रकरणे पाठाद्गुर्वाधस्तवत् । नीचराशिगतत्वेन निषेधे सिद्धे तदंशकनिषेधो राश्यंतरगेऽपि गुरौ नीचांशकहान्यर्थमित्यलमतिप्रसंगेन ॥ ४४ ॥ . अथ सामान्यतो निषिद्धस्य जन्ममासादेरत्र व्रतबंधेऽपवादमनुष्टुभाह
जन्मक्षमासलग्नादौ व्रते विद्याधिको व्रती।
आद्यगर्भेऽपि विप्राणां क्षत्रादीनामनादिमे ॥४५॥ जन्मक्षैति ॥ जन्मनक्षत्रे जन्ममासे जन्मलग्ने च आदिशब्देन जन्मतिथि: एतेषु सत्स्वपि दोषेषु विप्राणामाद्यगर्भे अपिशब्दावितीयगर्भादावपि व्रती बालो व्रते यज्ञोपवीते विद्याधिकः स्यात् । क्षत्रादीनां क्षत्रियवैश्यानां पुनरनादिमे द्वितीयगर्भाधे बालके सति जन्मक्षमासलग्नादौ विद्याधिको व्रती स्यात् । आद्यगर्भे तु तेषां सर्वथा प्रतिषेध एवेति । अत्रायमाशयः । श्रीपतिः-'जन्ममासि न च जन्मभे तथा नैव जन्मदिवसेऽपि कारयेत् । आद्यगर्भदुहितुः सुतस्य वा ज्येष्ठमासि न च जातु मंगलम् ॥' इति । अत्राद्यगर्भदुहितुः सुतस्य वेति देहलीदीपन्यायेनोभयत्रापि संबध्यते । तेन जन्ममासादावाद्यगर्भस्यैव निषेधः । तथा च 'संभवत्येकवाक्यत्वे वाक्यभेदो हि दूषणम्' इति वाक्यभेदानापत्तेः । अत एव महेश्वरः-'न जन्ममासे न च जन्मधिष्ण्ये न जन्मकालीनदिने विदध्यात् । ज्येष्ठे न मासि प्रथमस्य