________________
२०७
व्रतबंधेऽयनविचारः] संस्कारप्रकरणम् ५। रत्नमालावाक्यं प्रागुक्तम् । शाखेशादीनां निर्बलत्वे फलमाह-जीवेति । जीवे वा भृगौ वा चकाराच्छाखेशे वर्णेशे वा विजिते युद्धे पराजिते वा नीचे स्वनीचराशिस्थिते सति व्रतेनानुष्ठितेन सता वेदशास्त्रविधिना वेदो वेदाध्ययनं शास्त्रं शास्त्राध्ययन विधिनित्यनैमित्तिकश्रौतस्मातकर्मानुष्ठानाख्यस्तेषां समाहारद्वंद्वस्तेन रहितो व्रती स्यात् । तदुक्तं वसिष्ठेन-'नीचर्वानीचांशकसंस्थिते वा शाखेश्वरे वास्फुजितींद्रपूज्ये । व्रती शिशुहीनकुलप्रसूतः शास्त्रोपजीवी स्वगृहं विसृज्य ॥' नारदेनापि-'स्वनीचगे तदंशे वा स्वारिभे वा तदंशके । गुरौ भृगौ वा शाखेशे कुलशीलविवर्जितः॥ स्वाधिशत्रुगृहस्थे वा तदंशे वा तदा व्रती । शाखेशे वा गुरौ शुक्रे महापातककृद्भवेत् । शाखेशे इत्युपलक्षणं वर्णाधिपस्यापि । तदुक्तं वसिष्टेन-'शाखेशगुरुशुक्राणां मौढ्ये बाल्ये च वार्धके। नैवोपनयनं कार्य वर्णेशे दुर्बले सति ॥' इति । 'शाखेशगुरुशुक्राणामेकस्मिञ्छत्रुनिर्जिते । विद्यावित्तार्थिभिस्तत्र न कार्य चोपनायनम् ॥' अत्र नीचाद्य. वस्थितत्वेऽपि शाखेशादेः परिहारमाह वसिष्ठ एव-'शत्रुनीचाधिशत्रुस्थे स्वांशे वा स्वोच्चभागगे। शाखेशे वा गुरौ शुक्रे न नीचफलमश्नुते ॥' इति । उच्चादिसंज्ञामाह वराहः-'अजवृषभमृगांगनाकुलीरा झषवणिजौ च दिवाकरादितुंगाः। दश १० शिखि ३ मनुयुक् २८ तिथी १५ द्रियांशै ५ स्त्रिनवक २७ विंशति २० भिश्च तेऽस्तनीचाः ॥' स्वगृहादिकं ग्रंथकृद्विवाहप्रकरणे वक्ष्यति । ननु शुक्रे शत्रुगृहस्थे नीचगृहस्थे वा बटोरुपनयनं निषिद्धमित्युक्तं, तदयुक्तम् । शुक्रशत्रू रविचंद्रौ तद्गृहे सिंहककौं तन्नीचं च कन्या, ततः कर्कसिंहकन्याराशिस्थे शुक्रे बटोरुपनयनं न कार्यमिति तु वाक्यार्थः संपद्यते। यदा शुक्रस्य कर्कादिराशित्रयावस्थितिस्तदा सामान्यतः सूर्यस्यापि दक्षिणायनगतत्वादेवोपनयननिषेधे सिद्धे पुनर्निषेधो व्यर्थः । अत्रेयं समाधिसरणिः। यथा-यद्यपि सामान्यतः सूर्यस्य दक्षिणायनगतत्वं संभवति तथापि विशेषः कदाचिदसंभवोऽप्यापतति । स्पष्टीकृतिवशतो हि सूर्यात्प्राक् पश्चाद्वा एकराश्यंतरितो राशिद्वयांतरितो वा शुक्रः संभवति तदा कर्कादिराशिस्थे सूर्ये शुक्रस्य स्पष्टीकृत्या कर्कसिंहराश्यवस्थितिः संभवतीति उपनयनकालदूषिका व्यथैव । दक्षिणायनसद्भावात् । यदा तु वृषमिथुनस्थिते सूर्ये स्पष्टीकृत्या कर्कसिंहराश्यवस्थितिः शुक्रस्य संभवति विहितकालदूषिकेति सार्थक एव निषेधः । ननु शत्रुक्षेत्रावस्थितशुक्रनिषेधोऽभिहितरीत्या युक्त एव, परं नीचराश्यवस्थितशुक्रनिषेधो व्यर्थ एव । यतः स्पष्टीकृत्या जातोऽपि कन्यास्थितः शुक्रः कदाचिदपि दक्षिणायनं न व्यभिचरते । सत्यम् । 'शरद्रीष्मवसंतेषु व्युत्क्रमात्तु द्विजन्मनाम् । मुख्यं साधारणं तेषां व्रतं माघादिपंचसु ॥' इति नारदादिवाक्येभ्यः शरत्काले वैश्यानामुपनयनं विहितमित्यवगम्यते । तत्र कदाचिच्छुक्रस्य नीचराशिकन्यावस्थित्योपनयननिषेधेन वचनसार्थक्यात् । यदा तु-'विप्रस्य क्षत्रियस्यापि मौंजी स्यादुत्तरायणे । दक्षिणे तु विशां कुर्यान्नानध्याये न संक्रमे ॥' इति वृद्धवसिष्ठवाक्याद्दक्षिणायनेऽपि
१ 'कर्कादिराश्यवस्थितिः' इति पाठः ।