________________
२०६
मुहूर्तचिंतामणिः। [वर्णेश-शाखेशादिफलं विप्रेति ॥ विप्राधीशाविति समासांतर्गतमपि अधीशपदं अन्यत्रामुषज्यते । तेन शुक्रबृहस्पती ब्राह्मणानां स्वामिनौ, भौमसूर्यौ क्षत्रियाणां स्वामिनौ, चंद्रो वैश्यानां स्वामी, बुधः शूद्राणां स्वामी, शनिरंत्यजानां चांडालादीनां प्रतिलोमजातीनां स्वामी । यदाह वराहः-'विप्रादितः शुक्रगुरू कुजाकों शशी बुधश्चेत्यसितोऽत्यजानाम्' इति । स्वामिनाविति पूर्वशेषः । 'ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः' इति वेदक्रमात् जीवशुक्रारसौम्याः शाखेशाः स्युः । ऋग्वेदस्य गुरुः, यजुषः शुक्रः, सानो भौमः, अथर्वणो बुधः स्वामीत्यर्थः । यदाह नारदः-वेदानामधिपा जीवशुक्रभौमबुधाःक्रमात्' इति। 'ऋग्यजुःसामशाखेशा गुरुशुक्रधरात्मजाः । अथर्वणस्य वेदस्य शाखेशश्चंद्रनंदनः ॥' इति वसिष्ठोक्तेश्च ॥ ४३ ॥ अथानयोर्वर्णेशशाखेशयोः प्रयोजनं वसंततिलकयाहशाखेशवारतनुवीर्यमतीव शस्तं
शाखेशसूर्यशशिजीवबले व्रतं सत् । जीवे भृगौ रिपुगृहे विजिते च नीचे
स्थाद्वेदशास्त्रविधिना रहितो व्रतेन ॥ ४४ ॥ शाखेशेति ॥ यः स्वशाखाधिपस्तस्यैव वारस्तनुर्लग्नं च वीर्य च गोचरोक्तप्रकारेण स्वगृहाद्यवस्थितत्वेन वा बलवत्त्वं च तद्रतेऽतिशस्तम् । यथा-गुरुः ऋग्वेदिनामीशोऽतो गुरुवारे गुरुलग्ने धनुर्मीनाख्ये गुरुबले च सत्युपनयनं शुभम् । एवं सर्वत्रापि ध्येयम् । तदुक्तं नारदेन-शाखाधिपतिवारश्च शाखाधिपबलं 'शिशोः। शाखाधिपतिलग्नं च त्रितयं दुर्लभं व्रते॥' शाखेशेति। शाखा वेदस्तस्येशः स्वामी तुल्यन्यायत्वाद्वर्णेशोऽपि ग्राह्यः । सूर्यशशिजीवाः प्रसिद्धाः । एषां बले सति व्रतं सत्स्यादन्यथा नेत्यर्थः । तदुक्तं च वसिष्ठेन-'शाखेशसूर्यवर्णेशगुरूणां बलपूर्वकम् । ततोऽन्येषां गुरुबलं मुख्यमाचार्यशिष्ययोः ॥' राजमार्तडे विशेषः-'पितुः सूर्यबलं श्रेष्ठं शाखावर्णेशयोर्बटोः । सर्वेषां गुरुचंद्वार्कबलं श्रेष्ठ व्रतादिषु ॥' इति । रत्नमालायाम्-'वर्णाधिपे बलोपेते उपनीतक्रिया हिता । सर्वेषां च गुरौ चंद्रे सूर्ये च बलशालिनि ॥' इति । भीमपराक्रमः-'विप्राणां गुरुसितयो राज्ञां रविभौमयोर्बलं शस्तम् । इंदोविशां रवींदुत्रिदशेज्यबलेऽखिलानां तु ॥' नारदेन तु प्रत्येक शाखेशादीनां उच्चादिस्थितत्वेन फलमुक्तम्-'स्वोच्चसंस्थे तदंशे वा स्वराशौ वा तदंशके । शाखेशे वा गुरौ शुक्रे वेदवेदांगपारगः ॥ परमोच्चगते जीवे शाखेशे वाथवा सिते । व्रती शिशुधनाढ्यः स्याद्वेदवेदांगपारगः ॥ मित्रराशिगते जीवे तदंशे वा स्वशाखपे । शुक्रे वाचार्यसंयुक्ते तदा तत्र व्रती शिशुः ॥ स्वाधिमित्रगृहस्थे वा तस्योच्चस्थे तदंशके । गुरौ भृगौ वा शाखेशे विद्याधनसमन्वितः ॥' इति । शाखेश इत्युपलक्षणम् । तेन वर्णाधिपेऽप्येतदेव फलम् । अत्र प्रमाणं