________________
वर्णाधीशाः शाखाधीशाच] संस्कारप्रकरणम् ५।
२०५ क्रूरास्तनौ नेष्टाः सर्वे रंधे व्यये कविः । सितेंदुलग्नपाः षष्ठे मौजीविद्यादिकर्मसु॥ मौजीबंधे विशेषेण प्राग्लग्नापंचमं तथा । क्रूरग्रहैविमुक्तं च भृगुराह तथाष्टमं ॥' दाक्षिणात्यास्त्वेवमाहुः-'चंद्रक्रूरास्तनौ नेष्टाः सर्वे रंध्रे व्यये कविः । सितेंदुलग्नपाः षष्ठे बटोः प्राणापहारकाः ॥' अत्र शुक्रस्य मरणरूपफलमुक्तं, तदेतत्प्राच्या न सहते-'व्ययस्थानगताः सर्वे कुर्वन्ति व्ययशीलिनम् । खलं नीचं पापरतं बंधुहीनं विदेशगम् ॥' इति वसिष्ठादिमुनिविरोधात् । नन्वेतादृशदुष्टफलश्रवणाद्वादशशुक्रो निषिद्ध एवेति चेन्न । एवं सति द्वादशस्थानानां सर्वेषामपि वर्जनीयत्वमापतेत् । तञ्च तवापि संमतं नास्ति । 'सर्वत्र शुभकृच्छुक्रः षष्ठसप्ताष्टमं विना' इति कश्यपोक्तेश्च । विशेषो वसिष्ठेनोक्तः'द्वादशस्थं रविं भौमः पश्यन्नाचार्यनेत्रहा । बलिनं वलवानूनमचिरान्नात्र संशयः॥सर्वे ग्रहाश्चाष्टमगा निधनाधनशोकदाः। विना स्वतुंगस्वाधिमित्रगान शुभवर्गगान् ॥ आचार्यमशुभा नंति शिष्यं नंत्यशुभेतराः॥ अस्यापवादस्तेनैवोक्तः-'चंद्रात्मरारिरंधेषु यद्येकसिञ्छुभग्रहः ॥ स्थितोऽधियोगसंज्ञः स्याच्छुभयोगो द्विजन्मनाम् ॥ केंद्र त्रिकोणगे जीवे भानुः शुक्रोऽथवा व्यये। द्वितीये शे शुभो योगो द्विजानामुपनायने ॥' इति । गुरुः-'मेषगोकर्कटान् याता भौमशुक्रंदवः क्रमात् । यमोदये भवेद्योगो द्विजोपनयने शुभः॥' इति । यमोदये%3 मिथुनलमोदये । कर्केति । पूर्णः शुक्लपक्षीयो विधुः कर्कस्थो वृषस्थश्च सन् तनौ लग्नस्थितो यदि भवेत् तदैव शुभो नान्यथा । यदाह वसिष्ठः-'प्रालेयरश्मौ यदि लग्नसंस्थे वलक्षपक्षेऽपि भवेत्स रोगी' इति । गुरुश्व-'चंद्रोदयेऽभिशस्तः स्यात्क्षयरोगी सितेतरे। शुक्लपक्षे भवेद्यज्वा स्वभे तुंगे विशेषतः॥' इति । चंद्रे उदये इति पदच्छेदः । मध्येदुरितिवत्समाधिः । युक्तं चैतत् । उपनयनं हि द्वितीयं जन्म । तत्र हि राशिविशेषेण लग्नस्थचंद्रस्य प्राशस्त्यमभिहितम् । तथा च लघुजातके वराह:-'कर्कवृषाजोपगते लग्ने चंद्रे धनी सुरूपश्च । विकलांगजडदरिद्रः शेषे तु विशेषतः कृष्णे ॥' इति । कश्यपस्तूच्चस्थं लग्नस्थं चन्द्रं सदैव न्यषेधीत् । यथा-'वर्धमानोऽपि वा चंद्रः पूर्णो वा यदि तुंगगः । निःस्वं करोति प्रतिनं लग्नगः क्षयरोगिणम् ॥' इति । नारदोऽपि'स्वोच्चस्थितोऽपि शीतांशुव्रतिनो यदि लग्नगः ॥ तं करोति बटुं निःस्वं सततं क्षयरोगिणम् ॥' इति । तदेतयोरुञ्चस्थितचंद्रसंबंधिनोः पक्षयोर्देशाचारतो व्यवस्था । स्वगृहे चंद्रस्तूत्तम एव द्वयोर्मते ॥ ४२ ॥
अथ वर्णेशशाखेशयोः प्रयोजनस्य वक्ष्यमाणत्वाद्वर्णाधीशं शाखाधीशं च शालिन्याह
विप्राधीशौ भार्गवेज्यौ कुजाकौं
राजन्यानामोषधीशो विशां च । शूद्राणां ज्ञश्चांत्यजानां शनिः स्या
च्छाखेशाः स्युर्जीवशुक्रारसौम्याः॥४३॥ १ 'प्राग्लग्नं पंचमं तथा' इति पाठांतरम् । लग्नात्प्रथमस्थानात्प्राक् इति प्राग्लग्नं । प्राग्लग्नादिति वा अव्ययीभावः । लग्नपूर्वं स्थानं द्वादशमित्यर्थः ।
१८ मु० चि.