________________
२०४
मुहूर्तचिंतामणिः । [व्रतबंभे लमशुद्धिः इति । तत्रापराहृभागे च व्रतं न सत् , 'अपराह्ने चोपनीतः पुनःसंस्कारमर्हति' इत्युक्तेः । युक्तं चैतत् । तस्मिन्समये हि श्राद्ध कर्तुमुचितं नतु इतरच्छुभकृत्यम् । यदाह नारदः-'विधा विभज्य दिवसं तत्रादौ कर्म दैविकम् । द्वितीये मानुषं कार्य तृतीयेऽशे तु पैतृकम् ॥' इति । एतस्य फलमुक्तं मनुना-'सर्वदेशेषु पूर्वाह्ने मुख्यं स्यादुपनायनम् । मध्याह्ने मध्यमं प्रोक्तमपराह्ने च गर्हितम् ॥' इति । एवं सति पूर्वाह्ने कदाचिल्लग्नासंभवे मध्याह्नसमयेऽपि सति लग्नसंभवे कार्यमपराह्ने तु सर्वथा न कार्यमिति निष्कृष्टोऽर्थः ४०
अथ व्रतबंधे सामान्यतो लग्नभंग प्रमाणिकयाह- कवीज्यचंद्रलग्नपा रिपौ मृतौ व्रतेऽधमाः।
व्ययेऽजभार्गवौ तथा तनौ मृतौ सुते खलाः ॥४१॥ - कवीज्येति ॥ अत्र लग्नार्थ राशयः सापवादा वसिष्ठेनोक्ताः-'लग्नाय सौम्यग्रहराशयो ये ग्राह्या न पापग्रहराशयो ये । ग्राह्याश्च तेऽपि प्रबलैश्च सौम्यैरधिष्ठिताश्चापि निरीक्षिता वा ॥' अत एवाह नारदः-'राशयः सकलाः श्रेष्ठाः शुभग्रहयुतेक्षिताः ॥' इति । एवं सति जगन्मोहने वसिष्ठेन प्रत्येक लग्नफलान्युक्तानि-'मेषे भवति वाकुंठो वित्तविद्यायुतो वृषे । युग्मे वेदांतदर्शी स्यात्कुलीरे च षडंगवित् ॥ शिल्पकर्मकरः सिंहे षष्ठे भवति पंडितः । तुलायां वणिजप्राप्तिः कांडपृष्ठश्च वृश्चिके ॥ कांडपृष्ठः शस्त्रजीवी । सर्वत्र पूजितश्चापे शूद्रवृत्तिर्मंगे तथा । राजप्रेक्षो भवेत्कुंभे मीने वेदांतपारगः ॥' इति । तानि लग्नानां शुभाशुभग्रहाणामुत्तमनिंद्याधिष्ठाननिरीक्षणाद्यभावे द्रष्टव्यानि । यदा तु संभवस्तदा 'यथा हि योगादमृतायते विषं विषायते मध्वपि सर्पिषा समम्' इति वचनाद्योगजमेव फलं भवति । तत्र रिपौ षष्ठस्थाने मृतावष्टमस्थाने चेच्छुक्रबृहस्पतिचंदलग्नस्वामिनो भवंति तदाऽधमा मरणकारकाः स्युः । अथाब्जभार्गवौ चंद्रशुक्रो व्यये चेद्भवतस्तदा मरणकरावित्यर्थः । खलाः पापग्रहा लग्नाष्टमपंचमस्थानेषु स्थिताश्चेत्तदा तथा मरणकरा इत्यर्थः ॥ ४१ ॥ अथ सामान्यतो लग्नशुद्धिमनुष्टुभाहव्रतबंधेऽष्टषरिःफवर्जिताः शोभनाः शुभाः । त्रिषडाये खलाः पूर्णो गोकर्कस्थो विधुस्तनौ ॥ ४२ ॥ व्रतेति ॥ शुभाः शुभग्रहा अष्टमषष्ठद्वादशस्थानस्थिताश्चेन्न स्युस्तदा व्रतबंधे शोभनाः शुभफलदायकाः । खलास्तृतीयषष्ठैकादशस्थानस्थिताः शोभनाः । यदाह नारद:-'त्रिषडायगतैः पापैः षडष्टांत्यविवर्जितैः । शुभैः षष्ठाष्टलग्नांत्यवर्जितेन हिमांशुना ॥' दैवज्ञमनोहरे गुरुः–'लग्नस्थितेषु रंध्रे च पापेषु मरणं बटोः । सौख्यं स्यात्रिषडायेषु जडत्वमितरेषु च ॥ चंद्र