________________
२०३
व्रतबंधे शस्तो दिनविभागः] संस्कारप्रकरणम् ५ ।
नास्तमितः पापग्रहयुतोऽपि वा' इति रविवारं निषेधति स्म । अत्र सूर्यस्य प्राबल्यदौर्बल्ययोर्व्रतबंधस्य विधिनिषेधाविति विषयविवेकः । भौमस्तु निषिदोsपि सामवेदिनामतिप्रशस्तः । यदाह नारदः - ' शाखाधिपतिवारश्च शाखाधिपबलं शिशोः । शाखाधिपतिलग्नं च त्रितयं दुर्लभं व्रते ॥' इति । ग्रंथहृदय वक्ष्यति । द्वीति । द्वितीयातृतीयापंचम्येकादशीद्वादशीदशमीसंज्ञितासु तिथिषु च व्रतं सत्स्यात् । यदाह नारदः - 'शुक्लपक्षे द्वितीया च तृतीया पंचमी तथा । त्रयोदशी च दशमी सप्तमी व्रतबंधने ॥ श्रेष्ठास्त्वेकादशीषष्ठीद्वादश्येतास्तु मध्यमाः । एकां चतुर्थी संत्यज्य कृष्णपक्षेsपि मध्यमाः ॥' इति । तिथिफलान्याह बादरायणः - 'प्रतिपदि मदिरासक्तः श्रुतिधरमेधाधिको द्वितीयायाम् । नीतिज्ञो मेधावी जितसकलारिस्तृतीयायाम् ॥ मंदधिया हृतचित्तोऽधीतंश्चपलश्चतुर्थ्यां स्यात् । पंचम्यां बहुवित्तः पूर्णायुर्धनपतिर्मतिमान् ॥ षष्ठ्यामशुचिः सततं सप्तम्यां व्याधिसंतप्तः । अल्पायुरथाष्टम्यां नवमे धनवर्जितः सदा पुरुषः ॥ दशम्यामर्थ संपत्तिरेकादश्यां गुणान्वितः । द्वादश्यां नीतिशास्त्रज्ञो निधनाय त्रयोदशी । चतुर्दश्यां भवेन्नाशः पंचदश्यां क्षयो भवेत् ॥' इति । अत्र वाक्ये मध्यमापि षष्ठी निषिद्वैव । अत एव ग्रंथकृता नोक्ता । मध्यमे एकादशीद्वादश्यावतिप्रशस्ते । ननु 'सप्तमीत्रयोदश्योरनेन वाक्येनानिष्टफलोक्तेर्नारदवाक्ये कथं ग्रहणम् ? किंच'कृष्णपक्षे चतुर्थीति सप्तम्यादिदिनत्रयम् । चतुर्दशीचतुष्कं च भ्रष्टावेते गलग्रहाः ॥' इति वसिष्टेन गलग्रहत्वोक्तेश्च । उच्यते, — वसंतविषयत्वात्तयोतिथ्योः । तदप्युक्तं नारदेनैव - ' विनर्तुना वसंतेन कृष्णपक्षे गलग्रहे । अपराहे चोपनीतः पुनः संस्कारमर्हति ॥' इति । अथवा माघशुक्ल सप्तमी मन्वादिस्तस्या अपि ग्रहणं यथा स्यात् । अत एव मन्वाद्याद्यपवादमाह वसि - —' या चैत्रवैशाखसिता तृतीया माघे च सप्तम्यथ फाल्गुनस्य । कृष्णे . द्वितीयोपनये प्रशस्ता प्रोक्ता भरद्वाजमुनींद्रमुख्यैः ॥' इति । अत्र चैत्रशुक्लतृतीया युगादिः वैशाख शुक्ल तृतीया युगादिः माघशुक्ल सप्तमी मन्वादिः फाल्गुनपूर्णिमोत्तरं द्वितीया चातुर्मास्यद्वितीया, आसामनध्यायत्वेऽपि व्रतबंधे प्राशस्त्यसद्भाव इत्यर्थः । अनध्यायत्वं च सप्रयोजनं 'शुचिशुक्र - १ (५।५४) इत्यादिपद्यव्याख्यानावसरेऽस्माभिर्वक्ष्यते । कृष्णादिमेति । विहितमासानां कृष्णपक्षस्यादिने त्रिलवके पंचमीपर्यंतं सत्स्यात् । नारदवाक्ये शुक्लपक्षस्योक्तेः 'आपंचम्यास्तिथेः कृष्णः शुक्लवत्परिकीर्तितः' इति वचनेनापवादनोक्तेः । 'एकां चतुर्थी संत्यज्य कृष्णपक्षेऽपि मध्यमाः । आपंचम्यास्तु तिथयः पराः स्युरतिनिंदिताः ॥' इति नारदस्याप्युक्तेश्च । वसिष्ठोऽपि - ' त्यक्त्वा चतुर्थीमपि कृष्णपक्षे त्वाद्यं त्रिभागं शुभदं व्रते च' इति । न चेति । त्रिधाविभक्तस्य दिवसस्य यो भागाः क्रमेण पूर्वाह्नमध्याह्नापराह्नसंज्ञका भवन्ति । उक्तं च स्कंदपुराणे - 'ऊर्ध्व सूर्योदयात्प्रोक्तं मुहूर्तानां तु पंचकम् । पूर्वाह्नः प्रथमः प्रोक्तो मध्याह्नस्तु ततः परम् । अपराह्नस्ततः प्रोक्तो मुहूर्तानां तु पंचकम् ॥'
१ अधीत उपनीत इत्यर्थः ।
ठः