________________
२०२
मुहूर्तचिंतामणिः ।
[ व्रतबंधे शस्ता वाराः
निषेध इत्येवं व्याचक्षते, तञ्चित्यम् । यतः - - 'जीवार्केन्द्रडुशुद्धौ हरिशयनबहिर्भास्करे चोत्तरस्थे स्वाध्याये वेदवर्णाधिप इह शुभदे क्षौरभे नाऽदितौ च । शुक्रार्केज्यर्क्षलग्ने रविमदनतिथिं प्रोह्य षष्ठाष्टमेंदु नो जीवास्तातिचारेऽर्कसितगुरुदिने कालशुद्धौ व्रतं स्यात् ॥' इति दीपिकायां पुनर्वसुनक्षत्रविषयक - व्रतबंधस्यैव सामान्यतो निषेधोक्तेः विशेषवचनात् ब्राह्मणे एव निषेधः पर्यवसन एकवाक्यताबलात्, पुनर्वसुनिषेधः श्लोकद्वयेऽपि पूर्वार्धस्यानन्वयाच्च । अयं चाचारः प्राच्यानाम् । दाक्षिणात्यास्त्वेतन्नांगीकुर्वते देशाचाराभावात् । उक्तं च वराहेण—‘देशाचारस्तावदादौ विचिंत्यो देशे देशे या स्थितिः सैव कार्या । लोके दुष्टं पंडिता वर्जयंति दैवज्ञोऽतो लोकमार्गेण यायात् ॥' अत्र विहितनक्षत्रेषु वेधादिदोषास्त्याज्याः । तदुक्तं दीपिकायाम् — 'कर्ण - वेभे विवाहे च व्रते पुंसवने तथा । प्राशने चाद्यचूडायां विद्धमृक्षं परित्यजेत् ॥' इति । अत्र वेधः सप्तशलाकाचक्रस्थो द्रष्टव्यः । तदाह वसिष्ठः'पंचशलाकाचक्रे पाणिग्रहणे भवेद्धि विधिरुक्तः । शस्तः शुभमित्रकृतः सप्तशलाकाज इतरत्र ॥' इति । इतरत्र यज्ञोपवीतचौलान्नप्राशनसीमंतादिष्वित्यर्थः । चक्रन्यासः खरोदये – 'तिर्यगूर्ध्वगता रेखाः सप्तसंख्या लिखेदुधः । कृत्तिकादीनि भान्यत्र साभिर्जिति क्रमेण च ॥' इति । भुक्तं भोग्यं तथाक्रांतं विद्धं पापग्रहेण च । शुभाशुभेषु कार्येषु वर्जनीयं प्रयत्नतः ॥ यस्याभिधाननक्षत्रं विद्धं क्रूरग्रहेण तु । देशो ग्रामः पुरं सैन्यं नरो नारी बिनइयति ॥' इति । अशुभेषु = युद्धादिषु । दीपिकायाम् — 'कृत्तिकादिचतु:सप्तरेखा राशौ परिभ्रमन् । ग्रहश्वेदेक रेखास्थो वेधः सप्तशलाकजः ॥' इति । ग्रंथकृता तु विवाहप्रकरणे सप्तशलाकाचक्रोक्तिं विनैव परस्परवेधकनक्षत्रवृंदं सिद्धवत्कृत्याभिहितम् । नन्वत्रावसरप्रसंगात्कुतो नोक्तमिति चेत् । सत्यम्, - ‘यस्याः शशी सप्तशलाकभिन्नः पापैरपापैरथवा विवाहे । रक्तांशुकेनैव च रोदमाना श्मशानभूमिं प्रमदा प्रयाति ॥' इति दीपिकाकारवचनात् । . एवं सति विवाहनक्षत्राणामेव वेधज्ञानार्थं पंचशलाकाचक्रं विचार्यम् । सप्तशलाकाचक्रं पुनर्विवाहादौ सकलकर्मविहितनक्षत्रवेधज्ञानार्थं ज्ञेयमित्ययं . निष्कृष्टोऽर्थः । अयमेव च विवाहप्रकरणे चत्रोक्तौ ग्रंथकर्तुराशय इत्यलं प्रस.तानुप्रसक्तेन । वेध उपलक्षणम्, तेन युतिलत्तापातादयो विवाहोक्ता दोषा अपि त्याज्याः । तदुक्तं वसिष्ठेन - 'निहितं त्रिविधोत्पातैः क्रूराक्रांतं च विद्धभं त्वखिलम् । त्याज्यं तच्छुभकर्मणि न पादतः पातधिष्ण्यं च ॥' इति । नारदोऽपि वीक्षिते वाथैकविंशतिमहादोषवर्जिते' इति व्रतबंधप्रकरणे उक्तवान् । वीक्षित इति पूर्वेण संबंधः । ते च दोषा विवाहप्रकरणे वक्ष्यते ग्रंथकृता । अर्केति । सूर्यबुधगुरुशुक्रचंद्रदिवसेषु व्रतं सत्स्यात् । अर्थाद्भौमशनी निषिद्धौ । तदाह नारदः - ' आचार्यकाव्यसौम्यानां वाराः शस्ताः शशीनयोः । वारौ तौ मध्यफलदौ निंदितावितरौ व्रते ॥' इति । आचार्य: = गुरुः। काव्यः=शुक्रः। जगन्मोहने गुरुस्तु - 'पापग्रहाणां वाराः स्युर्न शुभाचंद्रवासरः । सिते पक्षे प्रशस्तः स्यात्कृष्णे वारो विधोर्नहि ॥ शुभो बुधो
1
1