________________
निंद्यनक्षत्राणि] संस्कारप्रकरणम् ५।
२०१ गुरौ शुक्रे शाखेशे चोत्तरायणे' इति । एवं सत्यपि किंचिद्विशेषावगत्यर्थ मासा उच्यतेऽसाभिः। तत्र वसंते ब्राह्मणस्य ग्रीष्मे राजन्यस्य शरदि वैश्यस्य मुख्यकालमुपनयनं माघादिपंचमासेषु तु त्रैवर्णिकस्य साधारणकालमिति । यदाह वसिष्ठः-'विप्राणामुपनयनं वसंतसमये धराधिनाथानाम् । ग्रीष्मौ शरदि विशां मासाः साधारणाश्च माघाद्याः ॥' इति । कश्यपोऽपि-'ऋतौ वसंते विप्राणां ग्रीष्मे राज्ञां शरद्यथ । विशां मुख्यं च सर्वेषां द्विजानां चोपनायनम् ॥ साधारणं च मासेषु माघादिषु च पंचसु ।' एषां मासानां फलान्याह नारद:-'स्वकुलाचारधर्मज्ञो माघमासे तु फाल्गुने । विधिज्ञश्चार्थवांश्चैत्रे वेदवेदांगपारगः । वैशाखे धनवान्वेदशास्त्रविद्याविशारदः। उपनीतः कुलाब्यः स्याज्येष्ठे विधिविदां वरः ॥' इति । भत्र कैश्चिच्चंडेश्वराचैर्माघादिषण्मासानां फलान्यभिहितानि-'माघे द्रविणशीलाढ्यः फाल्गुने च दृढव्रतः। चैत्रे भवति मेधावी वैशाखे कोविदो भवेत् ॥ ज्येष्ठे तु गृहनीतिज्ञ आषाढे ऋतुभाग्भवेत् । मार्गशीर्षे भवेद्रष्टः शेषे दुःखमवाप्नुयात् ॥' इति । अत्राषाढो हरिशयनाप्रागेवांगीकार्यो न परस्तात् । तत्रापि मिथुनस्थिते सूर्य न कर्कस्थे दक्षिणायनांतःपातित्वात्तस्येति । तदेतदुपेक्ष्यं, प्रागुक्ताऽऽर्षवाक्यस्वरसात् । किं च मिथुनस्थितेऽपि सूर्ये ततः सार्धषदिवसानंतरं व्रतबंधादिनिषेधात् 'आदिके स्वातिविरामकाले नक्षत्रवृंदे दशके रविश्चेत् । विवाहचौलव्रतबंधनायं सुरप्रतिष्ठादि न कार्यमेव ॥' इति वसिष्ठादिवचनात् । उत्तरायण इति नारदवाक्यं तु दक्षिणायननिषेधपरमित्यास्तां प्रसक्तानुप्रसक्तम् । क्षिप्रेति । क्षिप्राणि अश्विनीपुष्यहस्ताः, ध्रुवाणि प्रसिद्धानि, अहिराश्लेषा, चराणि श्रवणधनिष्ठाशतभपुनर्वसुस्वात्यः, मूलमृदूनि प्रसिद्धानि, तिस्रः पूर्वाः, रौद्रमार्दा; एषु द्वाविंशतिभेषु व्रतबंधनं सत् शुभफलदातृ भवेत् । उक्तं च-'प्राजापत्यादिषडक्षे भगादिषु पंचसु । मूलादिदशके चैव समैत्रे व्रतबंधनम् ॥' इति । अर्थागरणीकृत्तिकामघाविशाखाज्येष्ठासु न कार्यमित्यर्थः । एतानि सर्वशाखानक्षत्रमेलकाभिप्रायेणोक्तानि । मुख्यानि त्वाह वसिष्ठ:--'हस्तत्रये च श्रवणत्रये च धातृद्वये त्र्युत्तरमैत्रभेषु । पौष्णद्वये चादितिभद्वये च शस्तं द्विजानां खलु मौंजिकर्म ॥' इति । द्विजानां ब्राह्मणक्षत्रियवैश्यानाम् । कश्यपोऽपि'मैत्रे विष्णुनये हस्तत्रयः चोत्तरात्रये । धातृद्वयादितीज्यांत्यदस्रःषूपनायनम् ॥' इति । अर्थादाश्लेषाभरणीकृत्तिकाज्येष्ठाविशाखामघापूर्वात्रयमूलानि निंद्यानि ऋषिमते। तदाह गुरुः-'कृत्तिकाभरणीमूलज्येष्ठाासु विशाखयोः। पूर्वात्रये च सार्पः न कुर्यादौपनायनम् ॥' चकारान्मघायाम् । ब्राह्मणस्य पुनर्वसौ निषेधमाह राजमार्तडः-'चंद्रतारानुकूलेषु ग्रहाब्देषु शुभे. ध्वपि । पुनर्वसौ कृतो विप्रः पुनः संस्कारमर्हति ॥' इति । अन्यत्रापि मर्यते'यहःस्पृशि मले मासि शूद्रत्वमधिगच्छति' इति । तत्र विप्रः, कृतः, इति पदद्वयोपादानादितरयोः क्षत्रियविशोः पुनर्वसौ व्रतबंधो ब्राह्मणस्य मेखलामोक्षश्च प्रशस्त इत्यर्थः । केचित्तु केनचिन्निमित्तेन कर्मनाशानदीतरणाद्यनेकदुष्टकृत्येन पुनःसंस्कारप्रसक्तौ सत्यां विप्रः पुनर्वसौ पुनःसंस्कारमर्हतीति न व्रतबंध