________________
मुहूर्तचिंतामणिः। [व्रतबंधे नक्षत्रादि गर्भाष्टमे वेति द्रष्टव्यम् । यत्तु-'गर्भाष्टमेषु ब्राह्मणमुपनयेद्गभैंकादशेषु राजन्य गर्भद्वादशेषु वैश्यम्' इत्यापस्तंबगृह्यसूत्रे गर्भाष्टमेष्वित्युक्तं तत्र गर्भाष्टमेषु इति बहुत्वान्यथानुपपत्या गर्भषष्ठगर्भसप्तमगर्भाष्टमेषु सौरवर्षेष्विति वृत्ति. कृप्याख्यानात्रयाणामपि नित्यकालता। एवं गभैंकादशेष्वित्यादावपि व्याख्यानं ध्येयं । तत्तु तच्छाखाध्यायिविषयम् । केचित्तु पंचमवर्षारंभात्षोडशवर्षपर्यतं काम्यकाल इत्याहुः । यथाह विश्वप्रकाशपद्धतावापस्तंबः-'पंचमे विद्यापुत्रकामः षष्ठे तु धनकामः सप्तमे ब्रह्मवर्चसकामोऽष्टमे त्वायुष्कामो नवमे तेजस्कामो दशमेऽन्नाद्यकाम एकादश इंद्रियकामो द्वादशे पशुकामस्त्रयोदशे जयकामश्चतुर्दशे पौरुषकामः पंचदशे पूर्णकामः षोडशे राजकामः' इति । तदप्यापस्तंबशाखाध्यायिविषयं द्रष्टव्यम् । अथ गौणकाल उच्यते-'निगदिते प्रोक्ते 'गर्भाजनेर्वाष्टमे' इत्यादिके काले तस्मिन् द्विगुणिते गते गंतुं प्रवृत्ते । आदिकर्मणि क्तः । तथा सति तद्रतबंधनं गौणकालमाहुः । यथा स्वस्वोक्तनित्यकालाद्राह्मणस्य षोडशवर्षपर्यतं क्षत्रियस्य द्वाविंशतिवर्षपर्यतं वैश्यस्य चतुविशतिवर्षपर्यतं गौणमित्यर्थः । यदाह मनु:-'आषोडशाब्राह्मणस्य सावित्री नातिवर्तते । भाद्वाविंशाब्रह्मबंधोराचतुर्विशतेर्विशः॥' ब्रह्मबंधोः क्षत्रियस्य । 'अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः । सावित्रीपतिता व्रात्या भवंत्यार्यविगर्हिताः॥' इति । गौणकालातिक्रमेऽपि याज्ञवल्क्येन विशेषोऽभिहितः'मत ऊर्ध्व पतंत्येते सर्वधर्मबहिष्कृताः । सावित्रीपतिता व्रात्या व्रात्यस्तोमाइते क्रतोः ॥' इति । अत एव 'न ब्राह्मणः पतनमृच्छति' इति गौतमस्मरणमपि संगच्छते। अत्र ब्राह्मणग्रहणं त्रैवर्णिकोपलक्षणमन्यथा सावित्रीपतिता व्रात्या इति बहुवचनमनर्थकमापद्येत ॥ ३९ ॥ अथ व्रतबंधे नक्षत्रादिकं वसंततिलकयाह
क्षिप्रध्रुवाहिचरमूलमृदुत्रिपूर्वा
रौद्रेर्कविद्गुरुसितेंदुदिने व्रतं सत् । द्वित्रीषुरुद्ररविदिक्प्रमिते तिथौ च
___ कृष्णादिमत्रिलवकेपि न चापराहे ॥४०॥ क्षिप्रेति ॥ नन्विदमयुक्तं प्रतिभाति । त्रैवर्णिकस्य त्रिविधमपि कालमभिधायेदानीमेतेषु मासेषु व्रतबंधः कार्य इति वक्तुमुचितं तद्विहायैव नक्षत्राधुतमिति चेत् । उच्यते-अहो देवानांप्रियस्य महदज्ञानविलसितं, यत् 'गीर्वाणांथुप्रतिष्ठा' इत्यादिपद्यं न बुद्ध्वा च जागर्तितरामिति । यतो द्विविधः काल:उत्तरायणरूपो दक्षिणायनरूपश्चेति । तत्र दक्षिणायने व्रतबंधनिषेधादुत्तरायणं मासषट्कात्मकं प्रशस्तमित्यर्थाद्गम्यत एव । यथा 'अभक्ष्यो ग्राम्यशूकरः' इत्युक्त आरण्यः शूकरो भक्ष्य इति गम्यते । शुक्रास्ते न कर्तव्यमित्युक्ते शुक्रोदये कर्तव्यमिति भवद्वदनादेवावसीयते । अत एव व्रतबंधे नारदेनोक्तम्-'दृश्यमाने