________________
काम्यकालः] संस्कारप्रकरणम् ५।
१९९ तोरणैः ॥ माशिषो वाचन कार्य द्विजैः पुण्यांगनादिभिः । सहवादित्रनृत्यायैर्गत्वा प्रागुत्तरां दिशम् ॥' प्रागुत्तराम् ऐशानीम् । तत्र मृत्सिकतं श्लक्ष्णं गृहीत्वा पुनरागतः । मृन्मयेष्वथवा सम्यग्वेणुपात्रेषु पूरयेत् । अनेकबीजसंयुक्तं तोयपुष्पोपशोभितम् ॥' शौनकः-'आधानं गर्भसंस्कारं जातकर्म च नाम च ॥ हित्वान्यत्र विधातव्यं मंगलांकुरवापनम् ॥ प्रदोषकाले कुर्वीत पूर्वाह्ने वा न रात्रिषु । वास्तुकर्मणि काले च स्याद्दिवैवांकुरार्पणम् ॥' गुरुः'आत्यंतिकेषु कार्येषु कार्य सद्योऽकुरार्पणम्' । काश्यपेन कालविधाने तु विशेषोऽभिहित:-'हस्तस्वातीविरिञ्चासुरपितृमरजिन्मित्रपौष्णार्यसार्पपाथोनाथोत्तरासु क्रिययुवतिधनुर्वृश्चिके कामरिक्ते । हित्वा पर्वासुरेज्यामरगुरुशशिविद्वारलग्नांशके स्यादुप्तः बीजवापः शशिनि शुभयुते चाष्टमे शुद्धियुक्ते ॥' इति । असुरः मूलम् ॥पाथोनाथः शततारका ॥ इति मुहूर्तचिंतामणिटीकायां अंकुरार्पणमुहूर्तः ॥ ३८॥
अथ प्रतबंध इति । विंशतिपयैः प्रोच्यत इति शेषः । तत्र व्रतबंधप्रयोजनमाह-'अथातः संप्रवक्ष्यामि चोपनायनमुत्तमम् । द्विजत्वकरणं श्रौतसातकर्मप्रसाधनम् । आद्यं सर्वाश्रमाणां च देहसंस्कारकारणम् । अनेन कर्मणा सर्वे संस्कृताः सर्वदेहिनः ॥ तत्संस्कारं लग्नवशात्तस्माल्लग्नं प्रवच्मि तत् ॥' इति । तस्य कालत्रिविधः-नित्यः काम्यः गौणश्च । तत्र क्रमेण त्रिविधमपि कालं शार्दूलविक्रीडितेनाहविप्राणां व्रतबंधनं निगदितं गर्भाजनेर्वाष्टमे
वर्षे वाप्यथ पंचमे क्षितिभुजां षष्ठे तथैकादशे । वैश्यानां पुनरष्टमेऽप्यथ पुनः स्याद्वादशे वत्सरे
कालेऽथ द्विगुणे गते निगदिते गौणं तदाहुर्बुधाः ॥३९॥ विप्राणामिति ॥ अत्र नित्यं काम्यं च तावदुच्यते । विप्राणां ब्राह्मणानां गर्भाष्टमे गर्भदिनमारभ्याष्टमे सौरवर्षेऽथवा जनेरुत्पत्तिदिनात्सौरवर्षेऽष्टमे सति व्रतबंधनं निगदितम् । इदं नित्यम् । अथ काम्यं विप्राणामेव पंचमे गर्भाजनेर्वा वर्षे कार्यम् । एवं क्षितिभुजां क्षत्रियाणां गर्भाजनेर्वा षष्ठे वर्षे काम्यमुपनयनम् । तथा गर्भाजनेर्वा एकादशे सौरवर्षे नित्यमुपनयनम् । वैश्यानां पुनस्तथैवाष्टमे वर्षे काम्यमथ तथैव द्वादशे वर्षे नित्यमुपनयनम् । यदाह नारदः-'आधानादष्टमे वर्षे जन्मतो वाग्रजन्मनाम् । राज्ञामेकादशे मौजीबंधनं द्वादशे विशाम् ॥' इति । अत्रावेष्ट्यधिकरणन्यायेन राजपदं क्षत्रियपरं। अत्र फलाश्रवणान्नित्यमित्यवसीयते । तथा च काम्यकालमाह मनु:-'ब्रह्मवर्चसकामस्य कार्य विप्रस्य पंचमे । राज्ञो बलार्थिनः षष्ठे वैश्यस्यार्थिनोऽष्टमे ॥' इति । अत्र फलश्रवणात्काम्यता । पैठीनसिना गर्भपंचमेऽपि व्रतबंधनमुक्तम्'गर्भपंचमेऽब्दे ब्राह्मणमुपनयेत्' इति तुल्यन्यायत्वात्क्षत्रियविशोरपि गर्भषष्ठे