________________
१९८
मुहूर्तचिंतामणिः। [अंकुरार्पणमुहूर्तः दिने च सति अधीतिर्विद्यानामध्ययनमुत्तमा स्मृता । यदाह श्रीपतिः-'मृगादिपंचस्वपि भेषु मूलहस्तादिके च त्रितयेऽश्विनीषु । पूर्वात्रये च श्रवणे च तद्वद्विद्यासमारंभमुशंति सिद्ध्यै ॥' इति । तद्वदिति श्रवणत्रये इत्यर्थः । तदेतत्स्पष्टमुक्तं महेश्वरेण-'हस्तादित्रितये तथा निर्ऋतिभे पूर्वोत्यभेष्वश्विनीमित्रः च मृगादिपंचसु शुभः प्रारंभ आद्यैः स्मृतः । विद्यानां हरिभात्रये च दिवसे सूरे गोर्वा विदोऽनध्यायाख्यतदाद्यवर्जिततिथौ केंद्रस्थितैः सदाहैः ॥' इति । अयमेव च ग्रंथकृदाशयः । अत एवाह विश्वप्रकाशपद्धतौ गुरुः"मृगादिपंचके हस्तत्रिके विष्णुत्रिकाश्विभे । मैत्रांत्यमूलपूर्वासु विद्यारंभः शुभे दिने ॥' इति । वयं तु तद्वदिति पदं विद्यासमारंभपदेन संबद्धमस्तीति व्याकुर्मः । अत एवाह वसिष्ठः- पूर्वानये मूलमृगादिपंचके तथाश्विनीषु त्रितये च हस्तात् । सविष्णुधिष्ण्येष्वथ सर्वविद्याप्रारंभ इष्टः शुभवासरेषु ।' इति । यद्येषोऽभिप्रायो न स्यात्तदा 'पूर्वात्रये च श्रवणत्रये च' इति ब्रूयाच्छ्रीप'तिः। अनयोर्वाक्ययोर्यथासंप्रदाय व्यवस्था। शुभवासरेष्वित्यत्र चंद्रव्यतिरिक्ताः शुभवासरा गृह्यते । यदुक्तं रत्नमालायाम्-'विद्यारंभः सुरगुरुसितज्ञेष्वभी. 'ष्टार्थदायी कर्तुश्चायुश्विरमपि करोत्यंशुमान्मध्यमो वा । नीहारांशी भवति जडता पंचता भूमिपुत्रे छायासूनावपि च मुनयः कीर्तयंत्येवमाद्याः॥' नीहारः= हिमम् । पंचता-मरणं । यत्तु भोजेनोक्तम्-'विद्यारंभे गुरुः शस्तो मध्यमौ भृगुभास्करौ । मरणं शनिभौमाभ्यामविद्या बुधसोमयोः ॥' इति । अत्राविद्याऽनवधारणमन्यथाज्ञानं वा तदेतद्धनुर्विद्याविषयम् । तद्वाक्यमधुनैव मया वक्ष्यते । षडिति । षष्ठीपंचमीतृतीयैकादशीद्वितीयानामन्यतमतिथावधीतिः कार्या । 'अनध्यायाख्यतदाधवर्जिततियौ' इति महेश्वरोक्तेः । अनध्यायांस्तु व्रतबंधे वक्ष्यति। ध्रुवेति । अत्राऽपिशब्दाध्याहारेण ग्रंथो योज्यस्तथा सत्यन्यैराचार्यै(वात्यमित्रभे रोहिण्युत्तरात्रयरेवत्यनुराधास्वप्यधीतिरुत्तमा । एतदपि धनुर्विद्याविषयम् । तदुक्तं दीपिकायाम्-'अदितिगुरुयमार्कस्वातिचित्राग्निपित्र्यध्रुवहरिवसुमूलावींदुभाग्यांत्यभेषु । विशनिशशिबुधाहे विष्णुबोधेऽपि पौषे सुसमयतिथियोगे चापविद्याप्रदानम् ॥' इति । ग्रंथेऽनुराधोक्तिस्तु महेश्वरवाक्यालोचनेन । अथ लग्नबलं । शुभैर्ग्रहैस्त्रिकोणकेंद्रगैः सद्भिरधीतिरुत्तमा स्मृता 'केंद्रस्थितैः सद्हैः' इत्युक्तेः । केंद्रग्रहणं त्रिकोणोपलक्षणम् । विशेषमाह नृसिंह:-'शुभाः पापाच रंध्रस्थाः सर्वे नेष्टाः सदा ग्रहाः। भ्रातृषष्ठायकर्मस्थाः पापाः सर्वे शुभावहाः॥ शुभाः केंद्र त्रिकोणस्था धनभ्रातृगताः शुभाः। सर्वे लाभे प्रशस्ताः स्युरक्षरग्रहणे शिशोः ॥' इति । अक्षरग्रहणं विद्योपलक्षणम्। इति विद्यारंभः॥अथ समस्तशुभकर्मभ्यः प्राग्विहितोऽकुरार्पणमुहूर्तो ग्रंथकृदनुक्तोऽप्यस्माभिरुच्यते । तत्र मंगलात् प्राक् तृतीयपंचमसप्तमनवमदिवसे सौम्यवारेषु बीजवापोक्तनक्षत्रेष्वंकुरारोपणं कार्यम् । यदाह नारदः-'कर्तव्यं मंगलस्यादौ मंगलायांकुरार्पणम् । नवमे सप्तमे वापि पंचमे दिवसेऽपि वा। तृतीये बीजनक्षत्रे शुभवारे शुभोदये । सम्यग्गृहानलंकृत्य वितानध्वज. १ अत्र ‘दशमी'युक्तः पाठो युचितः, मूले शिवार्कदिगित्यत्र दिक्शब्दोपादानात् ।