________________
४३२
मुहूर्तचिंतामणिः। [दिक्परत्वेनोपगृहनिर्माणं अथ गृहे कूपादिनिर्माणदिगवस्थित्या फलं शालिनीछंदसाहकूपे वास्तोर्मध्यदेशेऽर्थनाशस्त्वैशान्यादौ पुष्टिरैश्वर्यवृद्धिः। सूनो शः स्त्रीविनाशो मृतिश्च संपत् पीडा शत्रुतः स्याच सौख्यम्
कूपे इति ॥ 'वेश्मभूर्वास्तुरस्त्रियाम्' इति वास्तुशब्दः पुल्लिंगेऽपि । वास्तोगुहस्य मध्यदेशे मध्यभागे जलकूपे कृते सति स्वामिनोऽर्थनाशः स्यात् । अर्थशान्यादिषु सृष्टिमार्गेणाष्टसु दिक्षु पुष्टिरित्यादिफलम् । यथा-ऐशान्यां कूपे पुष्टिः, पूर्वस्यां कूपे ऐश्वर्यवृद्धिः, आग्नेय्यां कूपे पुत्रनाशः, दक्षिणस्यां कूपे स्त्रीविनाशः,नैर्ऋत्यां कूपे गृहकर्तुर्मतिः, पश्चिमायां कूपे सम्यक् शोभनं,वायव्यां कूपे शत्रुतः सकाशात्पीडा, उत्तरस्यां कूपे सुखं गृहस्वामिन एव न्यासः । उक्तं च वसिष्ठेन-‘ऐश्वर्य पुत्रहानिश्च स्त्रीनाशो निधनं भवेत् । संपच्छत्रुभयं सौख्यं पुष्टिः प्रागादितः क्रमात् ॥' इति ॥ २० ॥
कूपे कृते गृहमध्ये करिष्यमाणानामुपकरणगृहाणां दिक्परत्वेन करणं वसंततिलकाछंदसाह
स्नानस्य पाकशयनास्त्रभुजेश्च धान्य
भांडारदैवतगृहाणि च पूर्वतः स्युः। तन्मध्यतस्तु मथनाज्यपुरीपविद्या___भ्यासाख्यरोदनरतौषधसर्वधाम ॥ २१ ॥ स्नानेति ॥ पूर्वतः पूर्वाद्यष्टदिक्षु स्नानगृहादीनि गृहाणि स्युः । यथापूर्वस्यां स्नानगृहम् , आग्नेय्यां पाकगृहं, दक्षिणस्यां शयनगृहं, नैऋत्यां शस्त्रगृहं, पश्चिमायां भोजनगृहं, वायव्यांधान्यसंग्रहगृहम् , उत्तरस्यां भांडारस्य द्रव्यस्य गृहम् , ऐशान्यां दैवतगृहं स्यादित्यर्थः । यदाह वसिष्ठः-'ऐन्यां दिशि स्नानगृहमाग्नेय्यां पचनालयः । याम्यायां शयनं वेश्म नैर्ऋत्यां शस्त्रमंदिरम् ॥ वारुण्यां भोजनगृहं वायव्यां धान्यमंदिरम् । उदीच्यां हाटकं सद्म ऐशान्यां देवमंदिरम् ॥' इति । हाटकस्य सुवर्णस्येदं हाटकम् । कश्यपोऽपि-'प्राच्यां दिशि स्नानगृहमाग्नेय्यां पचनालयः । शयनं याम्यदिग्भागे नैर्ऋत्यां शस्त्रमंदिरम् । प्रतीच्यां भोजनगृहं वायुभागेऽन्नसंग्रहम् । भांडारसदनं सौम्ये त्वैशान्यां देवतालयम् ॥' इति । नारदस्तु विशेषमाह-'भाण्डागारं तूत्तरे स्याद्वायव्यां पशुमंदिरम् ॥' इति । विश्वकर्मा पुनः–'उत्तरस्यां जलस्थानं पूर्वस्यां श्रीगृहं तथा' इत्याह । तन्मध्यत इति । पूर्वाद्यष्टदिक्षु तन्मध्यतस्तयोदिविदिशोर्मध्ये अष्टसंख्याके मथनाद्यष्टौ गृहाणि स्युः । यथा-पूर्वाग्नेय्योर्मध्ये मथनस्य दध्यालोडनस्य गृहम् । आग्नेयीदक्षिणयोर्मध्ये आज्यस्य घृतसंग्रहस्य गृहं, दक्षिणनैर्ऋत्योर्मध्ये पुरीषस्य विष्ठात्यागस्य गृहं, नैर्ऋतिपश्चिमयोर्मध्ये विद्याभ्यासस्य गृहं, पश्चिमवायव्योर्मध्ये रोदनस्य गृहं, उत्तरवायव्ययोर्मध्ये रतस्य