________________
गृहारंभे खातारंभादिनक्षत्राणि ] वास्तुप्रकरणम् १२ ।
वृषादित्रये च आग्नेय्यां राहुमुखं स्यात् । जलाशयारंभेऽपि मकरार्कतस्त्रित्रिराइयवस्थेऽर्के विलोमत ऐशान्यां राहुमुखं स्यात् । मेषादितः त्रिभिर्वायव्यां कर्कादितस्त्रिभिर्नैर्ऋत्यां तुलादितस्त्रिभिरानेय्यां राहुमुखं स्यात् ।
त्रयाणामपि स्पष्टार्थं न्यासो यथा
राहुमुखचक्रम् |
आरंभः ऐशान्याम्
वृषभ | देवालयारंभः स्थिते सूर्ये रा
गृहारंभः
हुमुखम्
सिंह कन्या तुलास्थिते सूर्ये रा
हुमुखम्
कुंभमीनजलाशयारंभः स्थिते सूर्ये रा
हुमुखम्
४३१
वायव्याम् नैर्ऋत्याम् आग्नेय्याम्
मिथुन कर्कसिं कन्यातुलावृ- धनुर्मकरकुंभहस्थे सूर्ये रा- श्चिकस्थे सूर्ये स्थिते सूर्ये हुमुखम् राहुमुखम् राहुमुखम् वृश्चिकधनुर्म कुंभमीनमेष वृषभ मिथुनकरस्थे सूर्ये | स्थिते सूर्ये कर्कस्थे सूर्ये राहुमुखम् |राहुमुखम् मेषवृषभमि- कर्कसिंहक- तुलावृश्चिकथुनस्थे सूर्ये न्यास्थिते सूर्ये धनुःस्थे सूर्ये राहुमुखम् राहुमुखम् राहुमुखम्
राहुमुखम्
1
फलमाह - खात इति । देवालयादिविषयके खाते भूमिशोधने कर्तव्ये सति राहुमुखाक्रांत दिशः सकाशात्पृष्ठवर्तिनी दिक् शुभा भवेत् । यथा - देवालयविषये मीनादित्रिराशिस्थितसूर्यत्वेन ऐशान्यां राहुमुखं तत्पृष्ठविदिगानेयी तस्यां प्रथमखातप्रारंभः शुभफलदः; एवं मिथुनादिराशित्रयस्थे सूर्ये राहुमुखं वायव्यां तत्पृष्ठविदिगैशानी तस्यां खातारंभः शुभः । एवं सर्वत्र । तथैव गृहविधौ जलाशयविधावपि राहुमुखं कस्यां विदिश्यस्तीत्यवधार्य तत्पृष्ठविदिशि खातं शुभफलदं कार्यमित्यर्थः । यतः सर्पेण विदित्रयं व्याप्तं यत्र मुखावस्थितिः सा प्रथमा । यत्रोदरावस्थितिः सा द्वितीया यत्र पुच्छावस्थितिः सा तृतीया । यथा-ऐशान्यां मुखं, वायव्यामुदरं, नैर्ऋत्यां पुच्छम् ; अतः खाते आग्नेयी सम्यक् । एवमन्यत्राप्यूहनीयम् । यदाह विश्वकर्मा - 'ईशानतः सर्पति कालसपों विहाय सृष्टिं गणयेद्विदिक्षु । शेषस्य वास्तोर्मुखमध्यपुच्छं त्रयं परित्यज्य खनेच्चतुर्थम् ॥' इति । ज्योतिश्चिंतामणौ - 'वृषार्कादित्रिकं वेद्यां सिंहादि गणयेद् गृहे । देवालये च मीनादि तडागे मकरादिषु ॥' इति । वसिष्ठस्तु गृहारंभे वास्तुनरमाह - 'त्रिषु त्रिषु च मासेषु नभस्यादिषु च क्रमात् । यहिझुखो वास्तुनरस्तन्मुखं सदनं शुभम् ॥ अन्यदिङ्मुखगेहं तद्दुःखशोकभयप्रदम् ॥' इति । 'चतुर्दिशादिशालानामेष दोषो न विद्यते ।' इति । नभस्यादिग्रहणं सिंहाद्यर्कसंक्रमोपलक्षणं नागस्तु विदिशि खननार्थः । नरवास्तुस्तु गृहस्य तत्तद्दिङ्मुखार्थः । तत्र खातारंभादिनक्षत्राण्याह मांडव्यः - 'अधोमुखैर्भेबिंदधीत खातं शिलास्तथा चोर्ध्वमुखैश्च पट्टम् । तिर्यङ्मुखैर्द्वारकपाट्यानं गृहप्रवेशो मृदुभिर्ध्रुवक्षैः ॥' इति । खातं = भूमिशोधनम् ॥ १९ ॥